[धृ] अहॊ ऽभिहितम आख्यानं भवता तत्त्वदर्शिना भूय एव तु मे हर्षः शरॊतुं वाग अमृतं तव ॥ 1 ॥
[विदुर] शृणु भूयः परवक्ष्यामि मार्गस्यैतस्य विस्तरम यच छरुत्वा विप्रमुच्यन्ते संसारेभ्यॊ विचक्षणाः ॥ 2 ॥
यथा तु पुरुषॊ राजन दीर्घम अध्वानम आस्थितः कव चित कव चिच छरमात सथाता कुरुते वासम एव वा ॥ 3 ॥
एवं संसारपर्याये गर्भवासेषु भारत कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः ॥ 4 ॥
तस्माद अध्वानम एवैतम आहुः शास्त्रविदॊ जनाः यत तु संसारगहनं वनम आहुर मनीषिणः ॥ 5 ॥
सॊ ऽयं लॊकसमावर्तॊ मर्त्यानां भरतर्षभ चराणां सथावराणां च गृध्येत तत्र न पण्डितः ॥ 6 ॥
शारीरा मानसाश चैव मर्त्यानां ये तु वयाधयः परत्यक्षाश च परॊक्षाश च ते वयालाः कथिता बुधैः ॥ 7 ॥
कलिश्यमानाश च तैर नित्यं हन्यमानाश च भारत सवकर्मभिर महाव्यालैर नॊद्विजन्त्य अल्पबुद्धयः ॥ 8 ॥
अथापि तैर विमुच्येत वयाधिभिः पुरुषॊ नृप आवृणॊत्य एव तं पश्चाज जरा रूपविनाशिनी ॥ 9 ॥
शब्दरूपरसस्पर्शैर गन्धैर्श च विविधैर अपि मज्जमानं महापङ्के निरालम्बे समन्ततः ॥ 10 ॥
संवत्सरर्तवॊ मासाः पक्षाहॊ रात्रसंधयः करमेणास्य परलुम्पन्ति रूपम आयुस तथैव च ॥ 11 ॥
एते कालस्य निधयॊ नैताज जानन्ति दुर्बुधाः अत्राभिलिखितान्य आहुः सर्वभूतानि कर्मणा ॥ 12 ॥
रथं शरीरं भूतानां सत्त्वम आहुस तु सारथिम इन्द्रियाणि हयान आहुः कर्म बुद्धिश च रश्मयः ॥ 13 ॥
तेषां हयानां यॊ वेगं धावताम अनुधावति स तु संसारचक्रे ऽसमिंश चक्रवत परिवर्तते ॥ 14 ॥
यस तान यमयते बुद्ध्या स यन्ता न निवर्तते याम्यम आहू रथं हय एनं मुह्यन्ते येन दुर्बुधाः ॥ 15 ॥
स चैतत पराप्नुते राजन यत तवं पराप्तॊ नराधिप राज्यनाशं सुहृन नाशं सुत नाशं च भारत ॥ 16 ॥
अनुतर्षुलम एवैतद दुःखं भवति भारत साधुः परमदुःखानां दुःखभैषज्यम आचरेत ॥ 17 ॥
न विक्रमॊ न चाप्य अर्थॊ न मित्रं न सुहृज्जनः तथॊन्मॊचयते दुःखाद यथात्मा सथिरसंयमः ॥ 18 ॥
तस्मान मैत्रं समास्थाय शीलम आपद्य भारत दमस तयागॊ ऽपरमादश च ते तरयॊ बरह्मणॊ हयाः ॥ 19 ॥
शीलरश्मि समायुक्ते सथितॊ यॊ मानसे रथे तयक्त्वा मृत्युभयं राजन बरह्मलॊकं स गच्छति ॥ 20 ॥
स्त्रीपर्व · Stri Parva
अध्याय 7
Reach this point to mark the section finished.
Continue to अध्याय 8