धर्मDharmic Data

स्त्रीपर्व · Stri Parva

अध्याय 6

  1. [धृ] अहॊ खलु महद दुःखं कृच्छ्रवासं वसत्य असौ कथं तस्य रतिस तत्र तुष्टिर वा वदतां वर ॥ 1 ॥

  2. स देशः कव नु यत्रासौ वसते धर्मसंकटे कथं वा स विमुच्येत नरस तस्मान महाभयात ॥ 2 ॥

  3. एतन मे सर्वम आचक्ष्व साधु चेष्टामहे तथा कृपा मे महती जाता तस्याभ्युद्धरणेन हि ॥ 3 ॥

  4. [विदुर] उपमानम इदं राजन मॊक्षविद्भिर उदाहृतम सुगतिं विन्दते येन परलॊकेषु मानवः ॥ 4 ॥

  5. यत तद उच्यति कान्तारं महत संसार एव सः वनं दुर्गं हि यत तव एतत संसारगहनं हि तत ॥ 5 ॥

  6. ये च ते कथिता वयाला वयाधयस ते परकीर्तिताः या सा नारी बृहत काया अधितिष्ठति तत्र वै ताम आहुस तु जरां पराज्ञा वर्णरूपविनाशिनीम ॥ 6 ॥

  7. यस तत्र कूपॊ नृपते स तु देहः शरीरिणाम यस तत्र वसते ऽधस्तान महाहिः काल एव सः अन्तकः सर्वभूतानां देहिनां सर्वहार्य असौ ॥ 7 ॥

  8. कूपमध्ये च या जाता वल्ली यत्र स मानवः परताने लम्बते सा तु जीविताशा शरीरिणाम ॥ 8 ॥

  9. स यस तु कूपवीनाहे तं वृक्षं परिसर्पति षड वक्त्रः कुञ्जरॊ राजन स तु संवत्सरः समृतः मुखानि ऋतवॊ मासाः पादा दवादश कीर्तिताः ॥ 9 ॥

  10. ये तु वृक्षं निकृन्तन्ति मूषकाः सततॊत्थिताः रात्र्यहानि तु तान्य आहुर भूतानां परिचिन्तकाः ये ते मधुकरास तत्र कामास ते परिकीर्तिताः ॥ 10 ॥

  11. यास तु ता बहुशॊ धाराः सरवन्ति मधु निस्रवम तांस तु कामरसान विद्याद यत्र मज्जन्ति मानवाः ॥ 11 ॥

  12. एवं संसारचक्रस्य परिवृत्तिं सम ये विदुः ते वै संसारचक्रस्य पाशांश छिन्दन्ति वै बुधाः ॥ 12 ॥

Reach this point to mark the section finished.

Continue to अध्याय 7

Previous: अध्याय 5