[धृ] यद इदं धर्मगहनं बुद्ध्या समनुगम्यते एतद विस्तरशः सर्वं बुद्धिमार्गं परशंस मे ॥ 1 ॥
[विदुर] अत्र ते वर्तयिष्यामि नम ः कृत्वा सवयं भुवे यथा संसारगहनं वदन्ति परमर्षयः ॥ 2 ॥
कश चिन महति संसारे वर्तमानॊ दविजः किल वनं दुर्गम अनुप्राप्तॊ महत करव्यादसंकुलम ॥ 3 ॥
सिंहव्याघ्र गजाकारैर अतिघॊरैर महाशनैः समन्तात संपरिक्षिप्तं मृत्यॊर अपि भयप्रदम ॥ 4 ॥
तद अस्य दृष्ट्वा हृदयम उद्वेगम अगमत परम अभ्युच्छ्रयश च रॊम्णां वै विक्रियाश च परंतप ॥ 5 ॥
स तद वनं वयनुसरन विप्रधावन इतस ततः वीक्षमाणॊ दिशः सर्वाः शरणं कव भवेद इति ॥ 6 ॥
स तेषां छिद्रम अन्विच्छन परद्रुतॊ भयपीडितः न च निर्याति वै दूरं न च तैर विप्रयुज्यते ॥ 7 ॥
अथापश्यद वनं घॊरं समन्ताद वागुरावृतम बाहुभ्यां संपरिष्वक्तं सत्रिया परमघॊरया ॥ 8 ॥
पञ्चशीर्ष धरैर नागैः शैलैर इव समुन्नतैः नभःस्पृशैर महावृक्षैः परिक्षिप्तं महावनम ॥ 9 ॥
वनमध्ये च तत्राभूद उदपानः समावृतः वल्लीभिस तृणछन्नाभिर गूढाभिर अभिसंवृतः ॥ 10 ॥
पपात स दविजस तत्र निगूढे सलिलाशये विलग्नश चाभवत तस्मिँल लता संतानसंकटे ॥ 11 ॥
पनसस्य यथा जातं वृन्त बद्धं महाफलम स तथा लम्बते तत्र ऊर्ध्वपादॊ हय अधःशिराः ॥ 12 ॥
अथ तत्रापि चान्यॊ ऽसय भूयॊ जात उपद्रवः कूपवीनाह वेलायाम अपश्यत महागजम ॥ 13 ॥
षड वक्त्रं कृष्ण शबलं दविषट्क पदचारिणम करमेण परिसर्पन्तं वल्ली वृक्षसमावृतम ॥ 14 ॥
तस्य चापि परशाखासु वृक्षशाखावलम्बिनः नानारूपा मधुकरा घॊररूपा भयावहाः आसते मधु संभृत्य पूर्वम एव निकेतजाः ॥ 15 ॥
भूयॊ भूयः समीहन्ते मधूनि भरतर्षभ सवादनीयानि भूतानां न यैर बालॊ ऽपि तृप्यते ॥ 16 ॥
तेषां मधूनां बहुधा धारा परस्रवते सदा तां लम्बमानः स पुमान धारां पिबति सर्वदा न चास्य तृष्णा विरता पिबमानस्य संकटे ॥ 17 ॥
अभीप्सति च तां नित्यम अतृप्तः स पुनः पुनः न चास्य जीविते राजन निर्वेदः समजायत ॥ 18 ॥
तत्रैव च मनुष्यस्य जीविताशा परतिष्ठिता कृष्णाः शवेताश च तं वृक्षं कुट्टयन्ति सम मूषकाः ॥ 19 ॥
वयालैश च वनदुर्गान्ते सत्रिया च परमॊग्रया कूपाधस्ताच च नागेन वीनाहे कुञ्जरेण च ॥ 20 ॥
वृक्षप्रपाताच च भयं मूषकेभ्यश च पञ्चमम मधु लॊभान मधुकरैः षष्ठम आहुर महद भयम ॥ 21 ॥
एवं स वसते तत्र कषिप्तः संसारसागरे न चैव जीविताशायां निर्वेदम उपगच्छति ॥ 22 ॥
स्त्रीपर्व · Stri Parva
अध्याय 5
Reach this point to mark the section finished.
Continue to अध्याय 6