[धृ] कथं संसारगहनं विज्ञेयं वदतां वर एतद इच्छाम्य अहं शरॊतुं तत्त्वम आख्याहि पृच्छतः ॥ 1 ॥
[विदुर] जन्मप्रभृति भूतानां करियाः सर्वाः शृणु परभॊ पूर्वम एवेह कलले वसते किं चिद अन्तरम ॥ 2 ॥
ततः स पञ्चमे ऽतीते मासे मासं परकल्पयेत ततः सर्वाङ्गसंपूर्णॊ गर्भॊ मासे परजायते ॥ 3 ॥
अमेध्यमध्ये वसति मांसशॊणितलेपने ततस तु वायुवेगेन ऊर्ध्वपादॊ हय अधःशिराः ॥ 4 ॥
यॊनिद्वारम उपागम्य बहून कलेशान समृच्छति यॊनिसंपीडनाच चैव पूर्वकर्मभिर अन्वितः ॥ 5 ॥
तस्मान मुक्तः स संसाराद अन्यान पश्यत्य उपद्रवान गरहास तम उपसर्पन्ति सारमेया इवामिषम ॥ 6 ॥
ततः पराप्तॊत्तरे काले वयाधयश चापि तं तथा उपसर्पन्ति जीवन्तं बध्यमानं सवकर्मभिः ॥ 7 ॥
बद्धम इन्द्रियपाशैस तं सङ्गस्वादुभिर आतुरम वयसनान्य उपवर्तन्ते विविधानि नराधिप बध्यमानश च तैर भूयॊ नैव तृप्तिम उपैति सः ॥ 8 ॥
अयं न बुध्यते तावद यम लॊकम अथागतम यमदूतैर विकृष्यंश च मृत्युं कालेन गच्छति ॥ 9 ॥
वाग घीनस्य च यन मात्रम इष्टानिष्टं कृतं मुखे भूय एवात्मनात्मानं बध्यमानम उपेक्षते ॥ 10 ॥
अहॊ विनिकृतॊ लॊकॊ लॊभेन च वशीकृतः लॊभक्रॊधमदॊन्मत्तॊ नात्मानम अवबुध्यते ॥ 11 ॥
कुलीनत्वेन रमते दुष्कुलीनान विकुत्सयन धनदर्पेण दृप्तश च दरिद्रान परिकुत्सयन ॥ 12 ॥
मूर्खान इति परान आह नात्मानं समवेक्षते शिक्षां कषिपति चान्येषां नात्मानं शास्तुम इच्छति ॥ 13 ॥
अध्रुवे जीवलॊके ऽसमिन यॊ धर्मम अनुपालयन जन्मप्रभृति वर्तेत पराप्नुयात परमां गतिम ॥ 14 ॥
एवं सर्वं विदित्वा वै यस तत्त्वम अनुवर्तते स परमॊक्षाय लभते पन्थानं मनुजाधिप ॥ 15 ॥
स्त्रीपर्व · Stri Parva
अध्याय 4
Reach this point to mark the section finished.
Continue to अध्याय 5