[धृ] सुभाषितैर महाप्राज्ञ शॊकॊ ऽयं विगतॊ मम भुय एव तु वाक्यानि शरॊतुम इच्छामि तत्त्वतः ॥ 1 ॥
अनिष्टानां च संसर्गाद इष्टानां च विवर्जनात कथं हि मानसैर दुःखैः परमुच्यन्ते ऽतर पण्डिताः ॥ 2 ॥
[विदुर] यतॊ यतॊ मनॊदुःखात सुखाद वापि परमुच्यते ततस ततः शमं लब्ध्वा सुगतिं विन्दते बुधः ॥ 3 ॥
अशाश्वतम इदं सर्वं चिन्त्यमानं नरर्षभ कदली संनिभॊ लॊकः सारॊ हय अस्य न विद्यते ॥ 4 ॥
गृहाण्य एव हि मर्त्यानाम आहुर देहानि पण्डिताः कालेन विनियुज्यन्ते सत्त्वम एकं तु शॊभनम ॥ 5 ॥
यथा जीर्णम अजीर्णं वा वस्त्रं तयक्त्वा तु वै नरः अन्यद रॊचयते वस्त्रम एवं देहाः शरीरिणाम ॥ 6 ॥
वैचित्र वीर्यवासं हि दुःखं वायदि वा सुखम पराप्नुवन्तीह भूतानि सवकृतेनैव कर्मणा ॥ 7 ॥
कर्मणा पराप्यते सवर्गं सुखं दुःखं च भारत ततॊ वहति तं भारम अवशः सववशॊ ऽपि वा ॥ 8 ॥
यथा च मृन मयं भाण्डं चक्रारूढं विपद्यते किं चित परकिर्यमाणं वा कृतमात्रम अथापि वा ॥ 9 ॥
छिन्नं वाप्य अवरॊप्यन्तम अवतीर्णम अथापि वा आर्द्रं वाप्य अथ वा शुष्कं पच्यमानम अथापि वा ॥ 10 ॥
अवतार्यमाणम आपाकाद उद्धृतं वापि भारत अथ वा परिभुज्यन्तम एवं देहाः शरीरिणाम ॥ 11 ॥
गर्भस्थॊ वा परसूतॊ वाप्य अथ वा दिवसान्तरः अर्धमास गतॊ वापि मासमात्रगतॊ ऽपि वा ॥ 12 ॥
संवत्सरगतॊ वापि दविसंवत्सर एव वा यौवनस्थॊ ऽपि मध्यस्थॊ वृद्धॊ वापि विपद्यते ॥ 13 ॥
पराक कर्मभिस तु भूतानि भवन्ति न भवन्ति च एवं सांसिद्धिके लॊके किमर्थम अनुतप्यसे ॥ 14 ॥
यथा च सलिले राजन करीडार्थम अनुसंचरन उन्मज्जेच च निमज्जेच च किं चित सत्त्वं नराधिप ॥ 15 ॥
एवं संसारगहनाद उन्मज्जन निमज्जनात कर्म भॊगेन बध्यन्तः कलिश्यन्ते ये ऽलपबुद्धयः ॥ 16 ॥
ये तु पराज्ञाः सथिताः सत्ये संसारान्त गवेषिणः समागमज्ञा भूतानां ते यान्ति परमां गतिम ॥ 17 ॥
स्त्रीपर्व · Stri Parva
अध्याय 3
Reach this point to mark the section finished.
Continue to अध्याय 4