[व] ततॊ ऽमृतसमैर वाक्यैर हलादयन पुरुषर्षभम वैचित्र वीर्यं विदुरॊ यद उवाच निबॊध तत ॥ 1 ॥
[विदुर] उत्तिष्ठ राजन किं शेषे धारयात्मानम आत्मना सथिरजङ्गम मर्त्यानां सर्वेषाम एष निर्णयः ॥ 2 ॥
सर्वे कषयान्ता निचयाः पतनान्ताः समुच्छ्रयाः संयॊगा विप्रयॊगान्ता मरणान्तं हि जीवितम ॥ 3 ॥
यदा शूरं च भीरुं च यमः कर्षति भारत तत किं न यॊत्स्यन्ति हि ते कषत्रियाः कषत्रियर्षभ ॥ 4 ॥
अयुध्यमानॊ मरियते युध्यमानश च जीवति कालं पराप्य महाराज न कश चिद अतिवर्तते ॥ 5 ॥
न चाप्य एतान हतान युद्धे राजञ शॊचितुम अर्हसि परमाणं यदि शास्त्राणि गतास ते परमां गतिम ॥ 6 ॥
सर्वे सवाध्यायवन्तॊ हि सर्वे च चरितव्रताः सर्वे चाभिमुखाः कषीणास तत्र का परिदेवना ॥ 7 ॥
अदर्शनाद आपतिताः पुनश चादर्शनं गताः न ते तव न तेषां तवं तत्र का परिदेवना ॥ 8 ॥
हतॊ ऽपि लभते सवर्गं हत्वा च लभते यशः उभयं नॊ बहुगुणं नास्ति निष्फलता रणे ॥ 9 ॥
तेषां कामदुघाँल लॊकान इन्द्रः संकल्पयिष्यति इन्द्रस्यातिथयॊ हय एते भवन्ति पुरुषर्षभ ॥ 10 ॥
न यज्ञैर दक्षिणावद्भिर न तपॊभिर न विद्यया सवर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः ॥ 11 ॥
माता पितृसहस्राणि पुत्रदारशतानि च संसारेष्व अनुभूतानि कस्य ते कस्य वा वयम ॥ 12 ॥
शॊकस्थान सहस्राणि भयस्थान शतानि च दिवसे दिवसे मूढम आविशन्ति न पण्डितम ॥ 13 ॥
न कालस्य परियः कश चिन न दवेष्यः कुरुसत्तम न मध्यस्थः कव चित कालः सर्वं कालः परकर्षति ॥ 14 ॥
अनित्यं जीवितं रूपं यौवनं दरव्यसंचयः आरॊग्यं परिय संवासॊ गृध्येद एषु न पण्डितः ॥ 15 ॥
न जानपदिकं दुःखम एकः शॊचितुम अर्हसि अप्य अभावेन युज्येत तच चास्य न निवर्तते ॥ 16 ॥
अशॊचन परतिकुर्वीत यदि पश्येत पराक्रमम भैषज्यम एतद दुःखस्य यद एतन नानुचिन्तयेत चिन्त्यमानं हि न वयेति भूयश चापि विवर्धते ॥ 17 ॥
अनिष्ट संप्रयॊगाच च विप्रयॊगात परियस्य च मनुष्या मानसैर दुःखैर युज्यन्ते ये ऽलपबुद्धयः ॥ 18 ॥
नार्थॊ न धर्मॊ न सुखं यद एतद अनुशॊचसि न च नापैति कार्यार्थात तरिवर्गाच चैव भरश्यते ॥ 19 ॥
अन्याम अन्यां धनावस्थां पराप्य वैशेषिकीं नराः असंतुष्टाः परमुह्यन्ति संतॊषं यान्ति पण्डिताः ॥ 20 ॥
परज्ञया मानसं दुःखं हन्याच छारीरम औषधैः एतज जञानस्य सामर्थ्यं न बालैः समताम इयात ॥ 21 ॥
शयानं चानुशयति तिष्ठन्तं चानुतिष्ठति अनुधावति धावन्तं कर्म पूर्वकृतं नरम ॥ 22 ॥
यस्यां यस्याम अवस्थायां यत करॊति शुभाशुभम तस्यां तस्याम अवस्थायां तत तत फलम उपाश्नुते ॥ 23 ॥
स्त्रीपर्व · Stri Parva
अध्याय 2
Reach this point to mark the section finished.
Continue to अध्याय 3