धर्मDharmic Data

स्त्रीपर्व · Stri Parva

अध्याय 26

  1. [वा] उत्तिष्ठॊत्तिष्ठ गान्धारि मा च शॊके मनः कृथाः तवैव हय अपराधेन कुरवॊ निधनं गताः ॥ 1 ॥

  2. या तवं पुत्रं दुरात्मानम ईर्षुम अत्यन्तमानिनम दुर्यॊधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे ॥ 2 ॥

  3. निष्ठुरं वैरपरुषं वृद्धानां शासनातिगम कथम आत्मकृतं दॊषं मय्य आधातुम इहेच्छसि ॥ 3 ॥

  4. मृतं वा यदि वा नष्टं यॊ ऽतीतम अनुशॊचति दुःखेन लभते दुःखं दवाव अनर्थौ परपद्यते ॥ 4 ॥

  5. तपॊ ऽरथीयं बराह्मणी धत्त गर्भं; गौर वॊढारं धावितारं तुरंगी शूद्रा दासं पशुपालं तु वैश्या; वधार्थीयं तवद्विधा राजपुत्री ॥ 5 ॥

  6. [व] तच छरुत्वा वासुदेवस्य पुनरुक्तं वचॊ ऽपरियम तूष्णीं बभूव गान्धारी शॊकव्याकुल लॊचना ॥ 6 ॥

  7. धृतराष्ट्रस तु राजर्षिर निगृह्याबुद्धिजं तमः पर्यपृच्छत धर्मात्मा धर्मराजं युधिष्ठिरम ॥ 7 ॥

  8. जीवतां परिमाणज्ञः सैन्यानाम असि पाण्डव हतानां यदि जानीषे परिमाणं वदस्व मे ॥ 8 ॥

  9. [य] दशायुतानाम अयुतं सहस्राणि च विंशतिः कॊट्यः षष्टिश च षट चैव ये ऽसमिन राजमृधे हताः ॥ 9 ॥

  10. अलक्ष्याणां तु वीराणां सहस्राणि चतुर्दश दश चान्यानि राजेन्द्र शतं षष्टिश च पञ्च च ॥ 10 ॥

  11. [धृ] युधिष्ठिर गतिं कां ते गताः पुरुषसत्तमाः आचक्ष्व मे महाबाहॊ सर्वज्ञॊ हय असि मे मतः ॥ 11 ॥

  12. [य] यैर हुतानि शरीराणि हृष्टैः परमसंयुगे देवराजसमाँल लॊकान गतास ते सत्यविक्रमाः ॥ 12 ॥

  13. ये तव अहृष्टेन मनसा मर्तव्यम इति भारत युध्यमाना हताः संख्ये ते गन्धर्वैः समागताः ॥ 13 ॥

  14. ये तु संग्रामभूमिष्ठा याचमानाः पराङ्मुखाः शस्त्रेण निधनं पराप्ता गतास ते गुह्यकान परति ॥ 14 ॥

  15. पीड्यमानाः परैर ये तु हीयमाना निरायुधाः हरीनिषेधा महात्मानः परान अभिमुखा रणे ॥ 15 ॥

  16. छिद्यमानाः शितैः शस्त्रैः कषत्रधर्मपरायणाः गतास ते बरह्म सदनं हता वीराः सुवर्चसः ॥ 16 ॥

  17. ये तत्र निहता राजन्न अन्तर आयॊधनं परति यथा कथं चित ते राजन संप्राप्ता उत्तरान कुरून ॥ 17 ॥

  18. [धृ] केन जञानबलेनैवं पुत्रपश्यसि सिद्धवत तन मे वद महाबाहॊ शरॊतव्यं यदि वै मया ॥ 18 ॥

  19. [य] निदेशाद भवतः पूर्वं वने विचरता मया तीर्थयात्रा परसङ्गेन संप्राप्तॊ ऽयम अनुग्रहः ॥ 19 ॥

  20. देवर्षिर लॊमशॊ हृष्टस ततः पराप्तॊ ऽसम्य अनुस्मृतिम दिव्यं चक्षुर अपि पराप्तं जञानयॊगेन वै पुरा ॥ 20 ॥

  21. [धृ] ये ऽतरानाथा जनस्यास्य स नाथा ये च भारत कच चित तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम ॥ 21 ॥

  22. न येषां सन्ति कर्तारॊ न च ये ऽतराहिताग्नयः वयं च कस्य कुर्यामॊ बहुत्वात तात कर्मणः ॥ 22 ॥

  23. यान सुपर्णाश च गृध्राश च विकर्षन्ति ततस ततः तेषां तु कर्मणा लॊका भविष्यन्ति युधिष्ठिर ॥ 23 ॥

  24. [व] एवम उक्तॊ महाप्राज्ञः कुन्तीपुत्रॊ युधिष्ठिरः आदिदेश सुधर्माणं दौम्यं सूतं च संजयम ॥ 24 ॥

  25. विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम इन्द्रसेन मुखांश चैव भृत्यान सूतांश च सर्वशः ॥ 25 ॥

  26. भवन्तः कारयन्त्व एषां परेतकार्याणि सर्वशः यथा चानाथवत किं चिच छरीरं न विनश्यति ॥ 26 ॥

  27. शासनाद धर्मराजस्य कषत्ता सूतश च संजयः सुधर्मा धौम्य सहित इन्द्रसेनादयस तथा ॥ 27 ॥

  28. चन्दनागुरुकाष्ठानि तथा कालीयकान्य उत घृतं तैलं च गन्धांश च कषौमाणि वसनानि च ॥ 28 ॥

  29. समाहृत्य महार्हाणि दारूणां चैव संचयान रथांश च मृदितांस तत्र नानाप्रहरणानि च ॥ 29 ॥

  30. चिताः कृत्वा परयत्नेन यथामुख्यान नराधिपान दाहयाम आसुर अव्यग्रा विधिदृष्टेन कर्मणा ॥ 30 ॥

  31. दुर्यॊधनं च राजानं भरातॄंश चास्य शताधिकान शल्यं शलं च राजानं भूरिश्रवसम एव च ॥ 31 ॥

  32. जयद्रथं च राजानम अभिमन्युं च भारत दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम ॥ 32 ॥

  33. बृहन्तं सॊमदत्तं च सृञ्जयांश च शताधिकान राजानं कषेमधन्वानं विराटद्रुपदौ तथा ॥ 33 ॥

  34. शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम युधामन्युं च विक्रान्तम उत्तमौजसम एव च ॥ 34 ॥

  35. कौसल्यं दरौपदेयांश च शकुनिं चापि सौबलम अचलं वृषकं चैव भगदत्तं च पार्थिवम ॥ 35 ॥

  36. कर्णं वैकर्तनं चैव सह पुत्रम अमर्षणम केकयांश च महेष्वासांस तरिगर्तांश च महारथान ॥ 36 ॥

  37. घटॊत्कचं राक्षसेन्द्रं बकभ्रातरम एव च अलम्बुसं च राजानं जलसंघं च पार्थिवम ॥ 37 ॥

  38. अन्यांश च पार्थिवान राजञ शतशॊ ऽथ सहस्रशः घृतधारा हुतैर दीप्तैः पावकैः समदाहयन ॥ 38 ॥

  39. पितृमेधाश च केषां चिद अवर्तन्त महात्मनाम सामभिश चाप्य अगायन्त ते ऽनवशॊच्यन्त चापरैः ॥ 39 ॥

  40. साम्नाम ऋचां च नादेन सत्रीणां च रुदितस्वनैः कश्मलं सर्वभूतानां निशायां समपद्यत ॥ 40 ॥

  41. ते विधूमाः परदीप्ताश च दीप्यमानाश च पावकाः नभसीवान्वदृश्यन्त गरहास तन्व अभ्रसंवृताः ॥ 41 ॥

  42. ये चाप्य अनाथास तत्रासन नानादेशसमागताः तांश च सर्वान समानाय्य राशीन कृत्वा सहस्रशः ॥ 42 ॥

  43. चित्वा दारुभिर अव्यग्रः परभूतैः सनेहतापितैः दाहयाम आस विदुरॊ धर्मराजस्य शासनात ॥ 43 ॥

  44. कारयित्वा करियास तेषां कुरुराजॊ युधिष्ठिरः धृतराष्ट्रं पुरस्कृत्य गङ्गाम अभिमुखॊ ऽगमत ॥ 44 ॥

Reach this point to mark the section finished.

Continue to अध्याय 27

Previous: अध्याय 25