[ग] काम्बॊजं पश्य दुर्धर्षं काम्बॊजास्तरणॊचितम शयानम ऋषभस्कन्धं हतं पांसुशु माधव ॥ 1 ॥
यस्य कषतजसंदिग्धौ बाहू चन्दनरूषितौ अवेक्ष्य कृपणं भार्या विलपत्य अतिदुःखिता ॥ 2 ॥
इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली ययॊर विवरम आपन्नां न रतिर मां पुराजहत ॥ 3 ॥
कां गतिं नु गमिष्यामि तवया हीना जनेश्वर दूरबन्धुर नाथेव अतीव मधुरस्वरा ॥ 4 ॥
आतपे कलाम्यमानानां विविधानाम इव सरजाम कलान्तानाम अपि नारीणां न शरीर जहति वै तनुम ॥ 5 ॥
शयानम अभितः शूरं कालिङ्गं मधुसूदन पश्य दीप्ताङ्गद युगप्रतिबद्ध महाभुजम ॥ 6 ॥
मागधानाम अधिपतिं जयत्सेनं जनार्दन परिवार्य पररुदिता मागध्यः पश्य यॊषितः ॥ 7 ॥
आसाम आयतनेत्राणां सुस्वराणां जनार्दन मनः शरुतिहरॊ नादॊ मनॊ मॊहयतीव मे ॥ 8 ॥
परकीर्णसर्वाभरणा रुदन्त्यः शॊककर्शिताः सवास्तीर्णशयनॊपेता मागध्यः शेरते भुवि ॥ 9 ॥
कॊसलानाम अधिपतिं राजपुत्रं बृहद्बलम भर्तारं परिवार्यैताः पृथक पररुदिताः सत्रियः ॥ 10 ॥
अस्य गात्रगतान बाणान कार्ष्णि बाहुबलार्पितान उद्धरन्त्य असुखाविष्टा मूर्छमानाः पुनः पुनः ॥ 11 ॥
आसां सर्वानवद्यानाम आतपेन परिश्रमात परम्लान नलिनाभानि भान्ति वक्त्राणि माधव ॥ 12 ॥
दरॊणेन निहताः शूराः शेरते रुचिराङ्गदाः दरॊणेनाभिमुखाः सर्वे भरातरः पञ्च केलयाः ॥ 13 ॥
तप्तकाञ्चनवर्माणस ताम्रध्वजरथस्रजः भासयन्ति महीं भासा जवलिता इव पावकाः ॥ 14 ॥
दरॊणेन दरुपदं संख्ये पश्य माधव पातितम महाद्विपम इवारण्ये सिंहेन महता हतम ॥ 15 ॥
पाञ्चालराज्ञॊ विपुलं पुण्डरीकाक्ष पाण्डुरम आतपत्रं समाभाति शरदीव दिवाकरः ॥ 16 ॥
एतास तु दरुपदं वृद्धं सनुषा भार्याश च दुःखिताः दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानम अपसव्यतः ॥ 17 ॥
धृष्टकेतुं महेष्वासं चेदिपुंगवम अङ्गनाः दरॊणेन निहतं शूरं हरन्ति हृतचेतसः ॥ 18 ॥
दरॊणास्त्रम अभिहत्यैष विमर्दे मधुसूदन महेष्वासॊ हतः शेते नद्या हृत इव दरुमः ॥ 19 ॥
एष चेदिपतिः शूरॊ धृष्टकेतुर महारथः शेते विनिहतः संख्ये हत्वा शत्रून सहस्रशः ॥ 20 ॥
वितुद्यमानं विहगैस तं भार्याः परत्युपस्थिताः चेदिराजं हृषीकेशहतं सबलबान्धवम ॥ 21 ॥
दाशार्ही पुत्रजं वीरं शयानं सत्यविक्रमम आरॊप्याङ्के रुदन्त्य एताश चेदिराजवराङ्गनाः ॥ 22 ॥
अस्य पुत्रं हृषीकेशसुवक्त्रं चारुकुण्डलम दरॊणेन समरे पश्य निकृत्तं बहुधा शरैः ॥ 23 ॥
पितरं नूनम आजिस्थं युध्यमानं परैः सह नाजहात पृष्ठतॊ वीरम अद्यापि मधुसूदन ॥ 24 ॥
एवं ममापि पुत्रस्य पुत्रः पितरम अन्वगात दुर्यॊधनं महाबाहॊ लक्ष्मणः परवीरहा ॥ 25 ॥
विन्दानुविन्दाव आवन्त्यौ पतितौ पश्य माधव हिमान्ते पुष्पितौ शालौ मरुता गलिताव इव ॥ 26 ॥
काञ्चनाङ्गदवर्माणौ बाणखड्गधनुर्धरौ ऋषभप्रति रूपाक्षौ शयानौ विमलस्रजौ ॥ 27 ॥
अवध्याः पाण्डवाः कृष्ण सर्व एव तवया सह ये मुक्ता दरॊण भीष्माभ्यां कर्णाद वैकर्तनात कृपात ॥ 28 ॥
दुर्यॊधनाद दरॊणसुतात सैन्धवाच च महारथात सॊमदत्ताद विकर्णाच च शूराच च कृतवर्मणः ये हन्युः शस्त्रवेगेन देवान अपि नरर्षभाः ॥ 29 ॥
त इमे निहताः संख्ये पश्य कालस्य पर्ययम नातिभारॊ ऽसति दैवस्य धरुवं माधव कश चन यद इमे निहताः शूराः कषत्रियैः कषत्रियर्षभाः ॥ 30 ॥
तदैव निहताः कृष्ण मम पुत्रास तरस्विनः यदैवाकृत कामस तवम उपप्लव्यं गतः पुनः ॥ 31 ॥
शंतनॊश चैव पुत्रेण पराज्ञेन विदुरेण च तदैवॊक्तास्मि मा सनेहं कुरुष्वात्म सुतेष्व इति ॥ 32 ॥
तयॊर न दर्शनं तात मिथ्या भवितुम अर्हति अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन ॥ 33 ॥
[व] इत्य उक्त्वा नयपतद भूमौ गान्धारी शॊककर्शिता दुःखॊपहत विज्ञाना धैर्यम उत्सृज्य भारत ॥ 34 ॥
ततः कॊपपरीताङ्गी पुत्रशॊकपरिप्लुता जगाम शौरिं दॊषेण गान्धारी वयथितेन्द्रिया ॥ 35 ॥
[ग] पाण्डवा धार्तराष्ट्राश च दरुग्धाः कृष्ण परस्परम उपेक्षिता विनश्यन्तस तवया कस्माज जनार्दन ॥ 36 ॥
शक्तेन बहु भृत्येन विपुले तिष्ठता बले उभयत्र समर्थेन शरुतवाक्येन चैव ह ॥ 37 ॥
इच्छतॊपेक्षितॊ नाशः कुरूणां मधुसूदन यस्मात तवया महाबाहॊ फलं तस्माद अवाप्नुहि ॥ 38 ॥
पतिशुश्रूषया यन मे तपः किं चिद उपार्जितम तेन तवां दुरवापात्मञ शप्स्ये चक्रगदाधर ॥ 39 ॥
यस्मात परस्परं घनन्तॊ जञातयः कुरुपाण्डवाः उपेक्षितास ते गॊविन्द तस्माज जञातीन वधिष्यसि ॥ 40 ॥
तवम अप्य उपस्थिते वर्षे षट्त्रिंशे मधुसूदन हतज्ञातिर हतामात्यॊ हतपुत्रॊ वनेचरः कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि ॥ 41 ॥
तवाप्य एवं हतसुता निहतज्ञातिबान्धवाः सत्रियः परिपतिष्यन्ति यथैता भरत सत्रियः ॥ 42 ॥
[व] तच छरुत्वा वचनं घॊरं वासुदेवॊ महामनाः उवाच देवीं गान्धारीम ईषद अभ्युत्स्मयन्न इव ॥ 43 ॥
संहर्ता वृष्णिचक्रस्य नान्यॊ मद विद्यते शुभे जाने ऽहम एतद अप्य एवं चीर्णं चरसि कषत्रिये ॥ 44 ॥
अवध्यास ते नरैर अन्यैर अपि वा देवदानवैः परस्परकृतं नाशम अतः पराप्स्यन्ति यादवाः ॥ 45 ॥
इत्य उक्तवति दाशार्हे पाण्डवास तरस्तचेतसः बभूवुर भृशसंविग्ना निराशाश चापि जीविते ॥ 46 ॥
स्त्रीपर्व · Stri Parva
अध्याय 25
Reach this point to mark the section finished.
Continue to अध्याय 26