धर्मDharmic Data

स्त्रीपर्व · Stri Parva

अध्याय 24

  1. [ग] सॊमदत्तसुतं पश्य युयुधानेन पातितम वितुद्यमानं विहगैर बहुभिर माधवान्तिके ॥ 1 ॥

  2. पुत्रशॊकाभिसंतप्तः सॊमदत्तॊ जनार्दन युयुधानं महेष्वासं गर्हयन्न इव दृश्यते ॥ 2 ॥

  3. असौ तु भूरिश्रवसॊ माता शॊकपरिप्लुता आश्वासयति भर्तारं सॊमदत्तम अनिन्दिता ॥ 3 ॥

  4. दिष्ट्या नेदं महाराज दारुणं भरतक्षयम कुरु संक्रन्दनं घॊरं युगान्तम अनुपश्यसि ॥ 4 ॥

  5. दिष्ट्या यूपध्वजं वीरं पुत्रं भूरिसहस्रदम अनेकक्रतुयज्वानां निहतं नाद्य पश्यसि ॥ 5 ॥

  6. दिष्ट्या सनुषाणाम आक्रन्दे घॊरं विलपितं बहु न शृणॊषि महाराज सारसीनाम इवार्णवे ॥ 6 ॥

  7. एकवस्त्रानुसंवीताः परकीर्णासित मूर्धजाः सनुषास ते परिधावन्ति हतापत्या हतेश्वराः ॥ 7 ॥

  8. शवापदैर भक्ष्यमाणं तवम अहॊ दिष्ट्या न पश्यसि छिन्नबाहुं नरव्याघ्रम अर्जुनेन निपातितम ॥ 8 ॥

  9. शलं विनिहतं संख्ये भूरिश्रवसम एव च सनुषाश च विधवाः सर्वा दिष्ट्या नाद्येह पश्यसि ॥ 9 ॥

  10. दिष्ट्या तत काञ्चनं छत्रं यूपकेतॊर महात्मनः विनिकीर्णं रथॊपस्थे सौमदत्तेर न पश्यसि ॥ 10 ॥

  11. अमूस तु भूरिश्रवसॊ भार्याः सात्यकिना हतम परिवार्यानुशॊचन्ति भर्तारम असितेक्षणाः ॥ 11 ॥

  12. एता विलप्य बहुलं भर्तृशॊकेन कर्शिताः पतन्त्य अभिमुखा भूमौ कृपणं बत केशव ॥ 12 ॥

  13. बीभत्सुर अतिबीभत्सं कर्मेदम अकरॊत कथम परमत्तस्य यद अच्छैत्सीद बाहुं शूरस्य यज्वनः ॥ 13 ॥

  14. ततः पापतरं कर्मकृतवान अपि सात्यकिः यस्मात परायॊपविष्टस्य पराहार्षीत संशितात्मनः ॥ 14 ॥

  15. एकॊ दवाभ्यां हतः शेषे तवम अधर्मेण धार्मिकः इति यूपध्वजस्यैताः सत्रियः करॊशन्ति माधव ॥ 15 ॥

  16. भार्या यूपध्वजस्यैषा करसंमितमध्यमा कृत्वॊत्सङ्गे भुजं भर्तुः कृपणं पर्यदेवयत ॥ 16 ॥

  17. अयं स रशनॊत्कर्षी पीनस्तन विमर्दनः नाभ्यूरुजघनस्पर्शी नीवी विस्रंसनः करः ॥ 17 ॥

  18. वासुदेवस्य सांनिध्ये पार्थेनाक्लिष्ट कर्मणा युध्यतः समरे ऽनयेन परमत्तस्य निपातितः ॥ 18 ॥

  19. किं नु वक्ष्यसि संसत्सु कथासु च जनार्दन अर्जुनस्य महत कर्म सवयं वा स किरीटवान ॥ 19 ॥

  20. इत्य एवं गर्हयित्वैषा तूष्टीम आस्ते वराङ्गना ताम एताम अनुशॊचन्ति सपत्न्यः सवाम इव सनुषाम ॥ 20 ॥

  21. गान्धारराजः शकुनिर बलवान सत्यविक्रमः निहतः सहदेवेन भागिनेयेन मातुलः ॥ 21 ॥

  22. यः पुरा हेमदण्डाभ्यां वयजनाभ्यां सम वीज्यते स एष पक्षिभिः पक्षैः शयान उपवीज्यते ॥ 22 ॥

  23. यः सम रूपाणि कुरुते शतशॊ ऽथ सहस्रशः तस्य मायाविनॊ माया दग्धाः पाण्डव तेजसा ॥ 23 ॥

  24. मायया निकृतिप्रज्ञॊ जितवान यॊ युधिष्ठिरम सभायां विपुलं राज्यं स पुनर जीवितं जितः ॥ 24 ॥

  25. शकुन्ताः शकुनिं कृष्ण समन्तात पर्युपासते कितवं मम पुत्राणां विनाशायॊपशिक्षितम ॥ 25 ॥

  26. एतेनैतन महद वैरं परसक्तं पाण्डवैः सह वधाय मम पुत्राणाम आत्मनः सगणस्य च ॥ 26 ॥

  27. यथैव मम पुत्राणां लॊकाः शस्त्रजिताः परभॊ एवम अस्यापि दुर्बुद्धेर लॊकाः शस्त्रेण वै जिताः ॥ 27 ॥

  28. कथं च नायं तत्रापि पुत्रान मे भरातृभिः सह विरॊधयेद ऋजु परज्ञान अनृजुर मधुसूदन ॥ 28 ॥

Reach this point to mark the section finished.

Continue to अध्याय 25

Previous: अध्याय 23