[ग] एष शल्यॊ हतः शेते साक्षान नकुल मातुलः धर्मज्ञेन सता तात धर्मराजेन संयुगे ॥ 1 ॥
यस तवया सपर्धते नित्यं सर्वत्र पुरुषर्षभ स एष निहतः शेते मद्रराजॊ महारथः ॥ 2 ॥
येन संगृह्णता तात रथम आधिरथेर युधि जवार्थं पाण्डुपुत्राणां तथा तेजॊवधः कृतः ॥ 3 ॥
अहॊ धिक पश्य शल्यस्य पूर्णचन्द्र सुदर्शनम मुखं पद्मपलाशाक्षं वडैर आदष्टम अव्रणम ॥ 4 ॥
एषा चामीकराभस्य तप्तकाञ्चनस परभा आस्याद विनिःसृता जिह्वा भक्ष्यते कृष्णपक्षिभिः ॥ 5 ॥
युधिष्ठिरेण निहतं शल्यं समितिशॊभनम रुदन्त्यः पर्युपासन्ते मद्रराजकुलस्त्रियः ॥ 6 ॥
एताः सुसूक्ष्म वसना मद्रराजं नरर्षभम करॊशन्त्य अभिसमासाद्य कषत्रियाः कषत्रियर्षभम ॥ 7 ॥
शल्यं निपतितं नार्यः परिवार्याभितः सथिताः वाशिता गृष्टयः पङ्के परिमग्नम इवर्षभम ॥ 8 ॥
शल्यं शरणदं शूरं पश्यैनं रथसत्तमम शयानं वीरशयने शरैर विशकलीकृतम ॥ 9 ॥
एष शैलालयॊ राजा भगदत्तः परतापवान गजाङ्कुश धरः शरेष्ठः शेते भुवि निपातितः ॥ 10 ॥
यस्य रुक्ममयी माला शिरस्य एषा विराजते शवापदैर भक्ष्यमाणस्य शॊभयन्तीव मूर्धजान ॥ 11 ॥
एतेन किल पार्थस्य युद्धम आसीत सुदारुणम लॊमहर्षणम अत्युग्रं शक्रस्य बलिना यथा ॥ 12 ॥
यॊधयित्वा महाबाहुर एष पार्थं धनंजयम संशयं गमयित्वा च कुन्तीपुत्रेण पातितः ॥ 13 ॥
यस्य नास्ति समॊ लॊके शौर्ये वीर्ये च कश चन स एष निहतः शेते भीष्मॊ भीष्मकृद आहवे ॥ 14 ॥
पश्य शांतनवं कृष्ण शयानं सूर्यवर्चसम युगान्त इव कालेन पातितं सूर्यम अम्बरात ॥ 15 ॥
एष तप्त्वा रणे शत्रूञ शस्त्रतापेन वीर्यवान नरसूर्यॊ ऽसतम अभ्येति सूर्यॊ ऽसतम इव केशव ॥ 16 ॥
शरतल्पगतं वीरं धर्मे देवापिना समम शयानं वीरशयने पश्य शूर निषेविते ॥ 17 ॥
कर्णिनालीकनाराचैर आस्तीर्य शयनॊत्तमम आविश्य शेते भगवान सकन्दः शरवणं यथा ॥ 18 ॥
अतूल पूर्णं गाङ्गेयस तरिभिर बाणैः समन्वितम उपधायॊपधानाग्र्यं दत्तं गाण्डीवधन्वना ॥ 19 ॥
पालयानः पितुः शास्त्रम ऊर्ध्वरेता महायशाः एष शांतनवः शेते माधवाप्रतिमॊ युधि ॥ 20 ॥
धर्मात्मा तात धर्मज्ञः पारम्पर्येण निर्णये अमर्त्य इव मर्त्यः सन्न एष पराणान अधारयत ॥ 21 ॥
नास्ति युद्धे कृती कश चिन न विद्वान न पराक्रमी यत्र शांतनवॊ भीष्मः शेते ऽदय निहतः परैः ॥ 22 ॥
सवयम एतेन शूरेण पृच्छ्यमानेन पाण्डवैः धर्मज्ञेनाहवे मृत्युर आख्यातः सत्यवादिना ॥ 23 ॥
परनष्टः कुरुवंशश च पुनर येन समुद्धृतः स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम ॥ 24 ॥
धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव गते देवव्रते सवर्गं देवकल्पे नरर्षभे ॥ 25 ॥
अर्जुनस्य विनेतारम आचार्यं सात्यकेस तथा तं पश्य पतितं दरॊणं कुरूणां गुरु सत्तमम ॥ 26 ॥
अस्त्रं चतुर्विधं वेद यथैव तरिदशेश्वरः भार्गवॊ वा महावीर्यस तथा दरॊणॊ ऽपि माधव ॥ 27 ॥
यस्य परसादाद बीभत्सुः पाण्डवः कर्म दुष्करम चकार स हतः शेते नैनम अस्त्राण्य अपालयन ॥ 28 ॥
यं पुरॊधाय कुरव आह्वयन्ति सम पाण्डवान सॊ ऽयं शस्त्रभृतां शरेष्ठॊ दरॊणः शस्त्रैः पृथक कृतः ॥ 29 ॥
यस्य निर्दहतः सेनां गतिर अग्नेर इवाभवत स भूमौ निहतः शेते शान्तार्चिर इव पावकः ॥ 30 ॥
धनुर मुष्टिर अशीर्णश च हस्तावापश च माधव दरॊणस्य निहतस्यापि दृश्यते जीवतॊ यथा ॥ 31 ॥
वेदा यस्माच च चत्वारः सर्वास्त्राणि च केशव अनपेतानि वै शूराद यथैवादौ परजापतेः ॥ 32 ॥
बन्दनार्हाव इमौ तस्य बन्दिभिर वन्दितौ शुभौ गॊमायवॊ विकर्षन्ति पादौ शिष्यशतार्चितौ ॥ 33 ॥
दरॊणं दरुपदपुत्रेण निहतं मधुसूदन कृपी कृपणम अन्वास्ते दुःखॊपहत चेतना ॥ 34 ॥
तां पश्य रुदतीम आर्तां मुखकेशीम अधॊमुखीम हतं पतिम उपासन्तीं दरॊणं शस्त्रभृतां वरम ॥ 35 ॥
बाणैर भिन्नतनु तराणं धृष्टद्युम्नेन केशव उपास्ते वै मृधे दरॊणं जटिला बरह्मचारिणी ॥ 36 ॥
परेतकृत्ये च यतते कृपी कृपणम आतुरा हतस्य समरे भर्तुः सुकुमारी यशस्विनी ॥ 37 ॥
अग्नीन आहृत्य विधिवच चितां परज्वाल्य सर्वशः दरॊणम आधाय गायन्ति तरीणि सामानि सामगाः ॥ 38 ॥
किरन्ति च चिताम एते जटिला बरह्मचारिणः धनुर्भिः शक्तिभिश चैव रथनीदैश च माधव ॥ 39 ॥
शस्त्रैश च विविधैर अन्यैर धक्ष्यन्ते भूरि तेजसम त एते दरॊणम आधाय शंसन्ति च रुदन्ति च ॥ 40 ॥
सामभिस तरिभिर अन्तःस्थैर अनुशंसन्ति चापरे अग्नाव अग्निम इवाधाय दरॊणं हुत्वा हुताशने ॥ 41 ॥
गच्छन्त्य अभिमुखा गङ्गां दरॊणशिष्या दविजातयः अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तदा ॥ 42 ॥
स्त्रीपर्व · Stri Parva
अध्याय 23
Reach this point to mark the section finished.
Continue to अध्याय 24