धर्मDharmic Data

स्त्रीपर्व · Stri Parva

अध्याय 22

  1. [ग] आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम गृध्रगॊमायवः शूरं बहु बन्धुम अबन्धुवत ॥ 1 ॥

  2. तं पश्य कदनं कृत्वा शत्रूणां मधुसूदन शयानं वीरशयने रुधिरेण समुक्षितम ॥ 2 ॥

  3. तं सृगालाश च कङ्काश च करव्यादाश च पृथग्विधाः तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम ॥ 3 ॥

  4. शयानं वीरशयने वीरम आक्रन्द सारिणम आवन्त्यम अभितॊ नार्यॊ रुदत्यः पर्युपासते ॥ 4 ॥

  5. परातिपीयं महेष्वासं हतं भल्लेन बाह्लिकम परसुप्तम इव शार्दूलं पश्य कृष्ण मनस्विनम ॥ 5 ॥

  6. अतीव मुखवर्णॊ ऽसय निहतस्यापि शॊभते सॊमस्येवाभिपूर्णस्य पौर्णमास्यां समुद्यतः ॥ 6 ॥

  7. पुत्रशॊकाभितप्तेन परतिज्ञां परिरक्षता पाकशासनिना संख्ये वार्द्ध कषत्रिर निपातितः ॥ 7 ॥

  8. एकादश चमूर जित्वा रक्ष्यमाणं महात्मना सत्यं चिकीर्षता पश्य हतम एनं जयद्रथम ॥ 8 ॥

  9. सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम ॥ 9 ॥

  10. संरक्ष्यमाणं भार्याभिर अनुरक्ताभिर अच्युत भषन्तॊ वयपकर्षन्ति गहनं निम्नम अन्तिकात ॥ 10 ॥

  11. तम एताः पर्युपासन्ते रक्षमाणा महाभुजम सिन्धुसौवीरगान्धारकाम्बॊजयवनस्त्रियः ॥ 11 ॥

  12. यदा कृष्णाम उपादाय पराद्रवत केकयैः सह तदैव वध्यः पाण्डूनां जनार्दन जयद्रथ ॥ 12 ॥

  13. दुःशलां मानयद्भिस तु यदा मुक्तॊ जयद्रथः कथम अद्य न तां कृष्ण मानयन्ति सम ते पुनः ॥ 13 ॥

  14. सैषा मम सुता बाला विलपन्ती सुदुःखिता परमापयति चात्मानम आक्रॊशति च पाण्डवान ॥ 14 ॥

  15. किं नु दुःखतरं कृष्ण परं मम भविष्यति यत सुता विधवा बाला सनुषाश च निहतेश्वराः ॥ 15 ॥

  16. अहॊ धिग दुःशलां पश्य वीतशॊकभयाम इव शिरॊ भर्तुर अनासाद्य धावमानाम इतस ततः ॥ 16 ॥

  17. वारयाम आस यः सर्वान पाण्डवान पुत्रगृद्धिनः स हत्वा विपुलाः सेनाः सवयं मृत्युवशं गतः ॥ 17 ॥

  18. तं मत्तम इव मातङ्गं वीरं परमदुर्जयम परिवार्य रुदन्त्य एताः सत्रियश चन्द्रॊपमाननाः ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 23

Previous: अध्याय 21