धर्मDharmic Data

स्त्रीपर्व · Stri Parva

अध्याय 21

  1. [गान्धारी] एष वैकर्तनः शेते महेष्वासॊ महारथः जवलितानलवत संख्ये संशान्तः पार्थ तेजसा ॥ 1 ॥

  2. पश्य वैकर्तनं कर्णं निहत्यातिरथान बहून शॊणितौघपरीताङ्गं शयानं पतितं भुवि ॥ 2 ॥

  3. अमर्षी दीर्घरॊषश च महेष्वासॊ महारथः रणे विनिहतः शेते शूरॊ गाण्डीवधन्वना ॥ 3 ॥

  4. यं सम पाण्डव संत्रासान मम पुत्रा महारथाः परायुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम ॥ 4 ॥

  5. शार्दूलम इव सिंहेन समरे सव्यसाचिना मातङ्गम इव मत्तेन मातङ्गेन निपातितम ॥ 5 ॥

  6. समेताः पुरुषव्याघ्र निहतं शूरम आहवे परकीर्णमूर्धजाः पत्न्यॊ रुदत्यः पर्युपासते ॥ 6 ॥

  7. उद्विग्नः सततं यस्माद धर्मराजॊ युधिष्ठिरः तरयॊदश समा निद्रां चिन्तयन्न नाध्यगच्छत ॥ 7 ॥

  8. अनाधृष्यः परैर युद्धे शत्रुभिर मघवान इव युगान्ताग्निर इवार्चिष्मान हिमवान इव च सथिरः ॥ 8 ॥

  9. स भूत्वा शरणं वीरॊ धार्तराष्ट्रस्य माधव भूमौ विनिहतः शेते वातरुग्ण इव दरुमः ॥ 9 ॥

  10. पश्य कर्णस्य पत्नीं तवं वृषसेनस्य मातरम लालप्यमानाः करुणं रुदतीं पतितां भुवि ॥ 10 ॥

  11. आचार्य शापॊ ऽनुगतॊ धरुवं तवां; यद अग्रसच चक्रम इयं धरा ते ततः शरेणापहृतं शिरस ते; धनंजयेनाहवे शत्रुमध्ये ॥ 11 ॥

  12. अहॊ धिग एषा पतिता विसंज्ञा; समीक्ष्य जाम्बूनदबद्धनिष्कम कर्णं महाबाहुम अदीनसत्त्वं; सुषेण माता रुदती भृशार्ता ॥ 12 ॥

  13. अल्पावशेषॊ हि कृतॊ महात्मा; शरीरभक्षैः परिभक्षयद्भिः दरष्टुं न संप्रीति करः शशीव; कृष्णश्य पक्षस्य चतुर्दशाहे ॥ 13 ॥

  14. सावर्तमाना पतिता पृथिव्याम; उत्थाय दीना पुनर एव चैषा कर्णस्य वक्त्रं परिजिघ्रमाणा; रॊरूयते पुत्रवधाभितप्ता ॥ 14 ॥

Reach this point to mark the section finished.

Continue to अध्याय 22

Previous: अध्याय 20