धर्मDharmic Data

स्त्रीपर्व · Stri Parva

अध्याय 20

  1. [ग] अध्यर्धगुणम आहुर यं बले शौर्ये च माधव पित्रा तवया च दाशार्ह दृप्तं सिंहम इवॊत्कटम ॥ 1 ॥

  2. यॊ बिभेद चमूम एकॊ मम पुत्रस्य दुर्भिदाम स भूत्वा मृत्युर अन्येषां सवयं मृत्युवशं गतः ॥ 2 ॥

  3. तस्यॊपलक्षये कृष्ण कार्ष्णेर अमिततेजसः अभिमन्यॊर हतस्यापि परभा नैवॊपशाम्यति ॥ 3 ॥

  4. एषा विराट दुहिता सनुषा गाण्डीवधन्वनः आर्ता बाला पतिं वीरं शॊच्या शॊचत्य अनिन्दिता ॥ 4 ॥

  5. तम एषा हि समासाद्य भार्या भर्तारम अन्तिके विराट दुहिता कृष्ण पाणिना परिमार्जति ॥ 5 ॥

  6. तस्य वक्त्रम उपाघ्राय सौभद्रस्य यशस्विनी विबुद्धकमलाकारं कम्बुवृत्तशिरॊ धरम ॥ 6 ॥

  7. काम्यरूपवती चैषा परिष्वजति भामिनी लज्ज माना पुरैवैनं माध्वीक मदमूर्छिता ॥ 7 ॥

  8. तस्य कषतजसंदिग्धं जातरूपपरिष्कृतम विमुच्य कवचं कृष्ण शरीरम अभिवीक्षते ॥ 8 ॥

  9. अवेक्षमाणा तं बाला कृष्ण तवाम अभिभाषते अयं ते पुण्डरीकाक्ष सदृशाक्षॊ निपातितः ॥ 9 ॥

  10. बले वीर्ये च सदृशस तेजसा चैव ते ऽनघ रूपेण च तवात्यर्थं शेते भुवि निपातितः ॥ 10 ॥

  11. अत्यन्तसुकुमारस्य राङ्क वाजिन शायिनः कच चिद अद्य शरीरं ते भूमौ न परितप्यते ॥ 11 ॥

  12. मातङ्गभुज वर्ष्माणौ जयाक्पेप कठिन तवचौ काञ्चनाङ्गदिनौ शेषे निक्षिप्य विपुलौ भुजौ ॥ 12 ॥

  13. वयायम्य बहुधा नूनं सुखसुप्तः शरमाद इव एवं विलपतीम आर्तां न हि माम अभिभाषसे ॥ 13 ॥

  14. आर्याम आर्य सुभद्रां तवम इमांश च तरिदशॊपमान पितॄन मां चैव दुःखार्तां विहाय कव गमिष्यसि ॥ 14 ॥

  15. तस्य शॊणितसंदिग्धान केशान उन्नाम्य पाणिना उत्सङ्गे वक्त्रम आधाय जीवन्तम इव पृच्छति सवस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः ॥ 15 ॥

  16. कथं तवां रणमध्यस्थं जघ्नुर एते महारथाः धिग अस्तु करूर कर्तॄंस तान कृप कर्णजयद्रथान ॥ 16 ॥

  17. दरॊण दरौणायनी चॊभौ यैर असि वयसनी कृतः रथर्षभाणां सर्वेषां कथम आसीत तदा मनः ॥ 17 ॥

  18. बालं तवां परिवार्यैकं मम दुःखाय जघ्नुषाम कथं नु पाण्डवानां च पाञ्चालानां च पश्यताम तवं वीर निधनं पराप्तॊ नाथवान सन्ननाथवत ॥ 18 ॥

  19. दृष्ट्वा बहुभिर आक्रन्दे निहतं तवाम अनाथवत वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः ॥ 19 ॥

  20. न राज्यलाभॊ विपुलः शत्रूणां वा पराभवः परीतं दास्यति पार्थानां तवाम ऋते पुष्करेक्षण ॥ 20 ॥

  21. तव शस्त्रजिताँल लॊकान धर्मेण च दमेन च कषिप्रम अन्वागमिष्यामि तत्र मां परतिपालय ॥ 21 ॥

  22. दुर्मरं पुनर अप्राप्ते काले भवति केन चित यद अहं तवां रणे दृष्ट्वा हतं जीवामि दुर्भगा ॥ 22 ॥

  23. काम इदानीं नरव्याघ्र शलक्ष्णया समितया गिरा पितृलॊके समेत्यान्यां माम इवामन्त्रयिष्यसि ॥ 23 ॥

  24. नूनम अप्सरसां सवर्गे मनांसि परमथिष्यसि परमेण च रूपेण गिरा च समितपूर्वया ॥ 24 ॥

  25. पराप्य पुण्यकृताँल लॊकान अप्सरॊभिः समेयिवान सौभद्र विहरन काले समरेथाः सुकृतानि मे ॥ 25 ॥

  26. एतावान इह संवासॊ विहितस ते मया सह षण मासान सप्तमे मासि तवं वीर निधनं गतः ॥ 26 ॥

  27. इत्य उक्तवचनाम एताम अपकर्षन्ति दुःखिताम उत्तरां मॊघसंकल्पां मत्स्यराजकुलस्त्रियः ॥ 27 ॥

  28. उत्तराम अपकृष्यैनाम आर्ताम आर्ततराः सवयम विराटं निहतं दृष्ट्वा करॊशन्ति विलपन्ति च ॥ 28 ॥

  29. दरॊणास्त्र शरसंकृत्तं शयानं रुधिरॊक्षितम विराटं वितुदन्त्य एते गृध्रगॊमायुवायसाः ॥ 29 ॥

  30. वितुद्यमानं विहगैर विराटम असितेक्षणाः न शक्नुवन्ति विवशा निवर्तयितुम आतुराः ॥ 30 ॥

  31. आसाम आतपतप्तानाम आयसेन च यॊषिताम शरमेण च विवर्णानां रूपाणां विगतं वपुः ॥ 31 ॥

  32. उत्तरं चाभिमन्युं च काम्बॊजं च सुदक्षिणम शिशून एतान हतान पश्य लक्ष्मणं च सुदर्शनम आयॊधन शिरॊमध्ये शयानं पश्य माधव ॥ 32 ॥

Reach this point to mark the section finished.

Continue to अध्याय 21

Previous: अध्याय 19