[ग] एष माधव पुत्रॊ मे विकर्णः पराज्ञसंमतः भूमौ विनिहतः शेते भीमेन शतधा कृतः ॥ 1 ॥
गजमध्य गतः शेते विकर्णॊ मधुसूदन नीलमेघपरिक्षिप्तः शरदीव दिवाकरः ॥ 2 ॥
अस्य चापग्रहेणैष पाणिः कृतकिणॊ महान कथं चिच छिद्यते गृध्रैर अत्तु कामैस तलत्रवान ॥ 3 ॥
अस्य भार्यामिष परेप्सून गृध्रान एतांस तपस्विनी वारयत्य अनिशं बाला न च शक्नॊति माधव ॥ 4 ॥
युवा वृन्दारकः शूरॊ विकर्णः पुरुषर्षभ सुखॊचितः सुखार्हश च शेते पांसुषु माधव ॥ 5 ॥
कर्णिनालीकनाराचैर भिन्नमर्माणम आहवे अद्यापि न जहात्य एनं लक्ष्णीर भरतसत्तमम ॥ 6 ॥
एष संग्रामशूरेण परतिज्ञां पालयिष्यता दुर्मुखॊ ऽभिमुखः शेते हतॊ ऽरिगणहा रणे ॥ 7 ॥
तस्यैतद वदनं कृष्ण शवापदैर अर्धभक्षितम विभात्य अभ्यधिकं तात सप्तम्याम इव चन्द्रमाः ॥ 8 ॥
शूरस्य हि रणे कृष्ण यस्याननम अथेदृशम स कथं निहतॊ ऽमित्रैः पांसून गरसति मे सुतः ॥ 9 ॥
यस्याहवं मुखे सौम्या सथाता नैवॊपपद्यते स कथं कुर्मुखॊ ऽमित्रैर हतॊ विबुधलॊकजित ॥ 10 ॥
चित्रसेनं हतं भूमौ शयानं मधुसूदन धार्तराष्ट्रम इमं पश्य परतिमानं दनुष्मताम ॥ 11 ॥
तं चित्रमाल्याभरणं युवत्यः शॊककर्शिताः करव्यादसंघैः सहिता रुदन्त्यः पर्युपासते ॥ 12 ॥
सत्रीणां रुदितनिर्घॊषः शवापदानां च गर्जितम चित्ररूपम इदं कृष्ण विचित्रं परतिभाति मे ॥ 13 ॥
युवा वृन्दारकॊ नित्यं परवर सत्री निषेवितः विविंशतिर असौ शेते धवस्तः पांसुषु माधव ॥ 14 ॥
शरसंकृत्त वर्णाणं वीरं विशसने हतम परिवार्यासते गृध्राः परिविंशा विविंशतिम ॥ 15 ॥
परविश्य समरे वीरः पाण्डवानाम अनीकिनाम आविश्य शयने शेते पुनः सत्पुरुषॊचितम ॥ 16 ॥
समितॊपपन्नं सुनसं सुभ्रु ताराधिपॊपमम अतीव शुभ्रं वदनं पश्य कृष्ण विविंशतेः ॥ 17 ॥
यं सम तं पर्युपासन्ते वसुं वासव यॊषितः करीडन्तम इव गन्धर्वं देवकन्याः सहस्रशः ॥ 18 ॥
हन्तारं वीरसेनानां शूरं समितिशॊभनम निबर्हणम अमित्राणां दुःसहं विषहेत कः ॥ 19 ॥
दुःसहस्यैतद आभाति शरीरं संवृतं शरैः गिरिर आत्मरुहैः फुल्लैः कर्णिकारैर इवावृतः ॥ 20 ॥
शातकौम्भ्या सरजा भाति कवचेन च भास्वता अग्निनेव गिरिः शवेतॊ गतासुर अपि दुःसहः ॥ 21 ॥
स्त्रीपर्व · Stri Parva
अध्याय 19
Reach this point to mark the section finished.
Continue to अध्याय 20