[ज] हते दुर्यॊधने चैव हते सैन्ये च सर्वशः धृतराष्ट्रॊ महाराजः शरुत्वा किम अकरॊन मुने ॥ 1 ॥
तथैव कौरवॊ राजा धर्मपुत्रॊ महामनाः कृपप्रभृतयश चैव किम अकुर्वत ते तरयः ॥ 2 ॥
अश्वत्थाम्नः शरुतं कर्म शापश चान्यॊन्य कारितः वृत्तान्तम उत्तरं बरूहि यद अभाषत संजयः ॥ 3 ॥
[व] हते पुत्रशते दीनं छिन्नशाखम इव दरुमम पुत्रशॊकाभिसंतप्तं धृतराष्ट्रं महीपतिम ॥ 4 ॥
धयानमूकत्वम आपन्नं चिन्तया समभिप्लुतम अभिगम्य महाप्राज्ञः संजयॊ वाक्यम अब्रवीत ॥ 5 ॥
किं शॊचसि महाराज नास्ति शॊके सहायता अक्षौहिण्यॊ हताश चाष्टौ दश चैव विशां पते निर्जनेयं वसुमती शून्या संप्रति केवला ॥ 6 ॥
नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः सहितास तव पुत्रेण सर्वे वै निधनं गताः ॥ 7 ॥
पितॄणां पुत्रपौत्राणां जञातीनां सुहृदां तथा गुरूणां चानुपूर्व्येण परेतकार्याणि कारय ॥ 8 ॥
[व] तच छरुत्वा करुणं वाक्यं पुत्रपौत्र वधार्दितः पपात भुवि दुर्धर्षॊ वाताहत इव दरुमः ॥ 9 ॥
[धृ] हतपुत्रॊ हतामात्यॊ हतसर्वसुहृज जनः दुःखं नूनं भविष्यामि विचरन पृथिवीम इमाम ॥ 10 ॥
किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै लूनपक्षस्य इव मे जरा जीर्णस्य पक्षिणः ॥ 11 ॥
हृतराज्यॊ हतसुहृद धतचक्षुश च वै तथा न भराजिष्ये महाप्राज्ञ कषीणरश्मिर इवांशुमान ॥ 12 ॥
न कृतं सुहृदॊ वाक्यं जामदग्न्यस्य जल्पतः नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ॥ 13 ॥
सभामध्ये तु कृष्णेन यच छरेयॊ ऽभिहितं मम अलं वैरेण ते राजन पुत्रः संगृह्यताम इति ॥ 14 ॥
तच च वाक्यम अकृत्वाहं भृशं तप्यामि दुर्मतिः न हि शरॊतास्मि भीष्मस्य धर्मयुक्तं परभाषितम ॥ 15 ॥
दुर्यॊधनस्य च तथा वृषभस्येव नर्दतः दुःशासन वधं शरुत्वा कर्णस्य च विपर्ययम दरॊण सूर्यॊपरागं च हृदयं मे विदीर्यते ॥ 16 ॥
न समराम्य आत्मनः किं चित पुरा संजय दुष्कृतम यस्येदं फलम अद्येह मया मूढेन भुज्यते ॥ 17 ॥
नूनं हय अपकृतं किं चिन मया पूर्वेषु जन्मसु येन मां दुःखभागेषु धाता कर्मसु युक्तवान ॥ 18 ॥
परिणामश च वयसः सर्वबन्धुक्षयश च मे सुहृन मित्र विनाशश च दैवयॊगाद उपागतः कॊ ऽनयॊ ऽसति दुःखिततरॊ मया लॊके पुमान इह ॥ 19 ॥
तन माम अद्यैव पश्यन्तु पाण्डवाः संशितव्रतम विवृतं बरह्मलॊकस्य दीर्घम अध्वानम आस्थितम ॥ 20 ॥
[व] तस्य लालप्यमानस्य बहु शॊकं विचिन्वतः शॊकापहं नरेन्द्रस्य संजयॊ वाक्यम अब्रवीत ॥ 21 ॥
शॊकं राजन वयपनुद शरुतास ते वेद निश्चयाः शास्त्रागमाश च विविधा वृद्धेभ्यॊ नृपसत्तम सृञ्जये पुत्रशॊकार्ते यद ऊचुर मुनयः पुरा ॥ 22 ॥
तथा यौवनजं दर्पम आस्थिते ते सुते नृप न तवया सुहृदां वाक्यं बरुवताम अवधारितम सवार्थश च न कृतः कश चिल लुब्धेन फलगृद्धिना ॥ 23 ॥
तव दुःशासनॊ मन्त्री राधेयश च दुरात्मवान शकुनिश चैव दुष्टात्मा चित्रसेनश च दुर्मतिः शल्यश च येन वै सर्वं शल्य भूतं कृतं जगत ॥ 24 ॥
कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च न कृतं वचनं तेन तव पुत्रेण भारत ॥ 25 ॥
न धर्मः सत्कृतः कश चिन नित्यं युद्धम इति बरुवन कषपिताः कषत्रियाः सर्वे शत्रूणां वर्धितं यशः ॥ 26 ॥
मध्यस्थॊ हि तवम अप्य आसीर न कषमं किं चिद उक्तवान धूर धरेण तवया भारस तुलया न समं धृतः ॥ 27 ॥
आदाव एव मनुष्येण वर्तितव्यं यथा कषमम यथा नातीतम अर्थं वै पश्चात तापेन युज्यते ॥ 28 ॥
पुत्रगृद्ध्या तवया राजन परियं तस्य चिकीर्षता पश्चात तापम इदं पराप्तं न तवं शॊचितुम अर्हसि ॥ 29 ॥
मधु यः केवलं दृष्ट्वा परपातं नानुपश्यति स भरष्टॊ मधु लॊभेन शॊचत्य एव यथा भवान ॥ 30 ॥
अर्थान न शॊचन पराप्नॊति न शॊचन विन्दते सुखम न शॊचञ शरियम आप्नॊति न शॊचन विन्दते परम ॥ 31 ॥
सवयम उत्पादयित्वाग्निं वस्त्रेण परिवेष्टयेत दह्यमानॊ मनस्तापं भजते न स पण्डितः ॥ 32 ॥
तवयैव स सुतेनायं वाक्यवायुसमीरितः लॊभाज्येन च संसिक्तॊ जवलितः पार्थ पावकः ॥ 33 ॥
तस्मिन समिद्धे पतिताः शलभा इव ते सुताः तान केशवार्चिर निर्दग्धान न तवं शॊचितुम अर्हसि ॥ 34 ॥
यच चाश्रुपात कलिलं वदनं वहसे नृप अशास्त्रदृष्टम एतद धि न परशंसन्ति पण्डिताः ॥ 35 ॥
विस्फुलिङ्गा इव हय एतान दहन्ति किल मानवान जहीहि मन्युं बुद्ध्या वै धारयात्मानम आत्मना ॥ 36 ॥
एवम आश्वासितस तेन संजयेन महात्मना विदुरॊ भूय एवाह बुद्धिपूर्वं परंतप ॥ 37 ॥
स्त्रीपर्व · Stri Parva
अध्याय 1
Reach this point to mark the section finished.
Continue to अध्याय 2