[गान्धारी] पश्य माधव पुत्रान मे शतसंख्याञ जितक्लमान गदया भीमसेनेन भूयिष्ठं निहतान रणे ॥ 1 ॥
इदं दुःखतरं मे ऽदय यद इमा मुक्तमूर्धजाः हतपुत्रा रणे बालाः परिधावन्ति मे सनुषाः ॥ 2 ॥
परासादतलचारिण्यश चरणैर भूषणान्वितैः आपन्ना यत सपृशन्तीमा रुधिरार्द्रां वसुंधराम ॥ 3 ॥
गृध्रान उत्सारयन्त्यश च गॊमायून वायसांस तथा शॊकेनार्ता विघूर्णन्त्यॊ मत्ता इव चरन्त्य उत ॥ 4 ॥
एषान्या तव अनवद्याङ्गी करसंमितमध्यमा घॊरं तद वैशसं दृष्ट्वा निपतत्य अतिदुःखिता ॥ 5 ॥
दृष्ट्वा मे पार्थिवसुताम एतां लक्ष्मणमातरम राजपुत्रीं महाबाहॊ मनॊ न वयुपशाम्यति ॥ 6 ॥
भरातॄंश चान्याः पतींश चान्याः पुत्रांश च निहतान भुवि दृष्ट्वा परिपतन्त्य एताः परगृह्य सुभुजा भुजान ॥ 7 ॥
मध्यमानां तु नारीणां वृद्धानां चापराजित आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु ॥ 8 ॥
रथनीडानि देहांश च हतानां गजवाजिनाम आश्रिताः शरममॊहार्ताः सथिताः पश्य महाबल ॥ 9 ॥
अन्या चापहृतं कायाच चारुकुण्डलम उन्नसम सवस्य बन्धॊः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति ॥ 10 ॥
पूर्वजातिकृतं पापं मन्ये नाप्लम इवानघ एताभिर अनवद्याभिर मया चैवाल्पमेधया ॥ 11 ॥
तद इदं धर्मराजेन यातितं नॊ जनार्दन न हि नाशॊ ऽसति वार्ष्णेय कर्मणॊः शुभपापयॊः ॥ 12 ॥
परत्यग्र वयसः पश्य दर्शनीयकुचॊदराः कुलेषु जाता हरीमत्यः कृष्णपक्षाक्षि मूर्धजाः ॥ 13 ॥
हंसगद्गद भाषिण्यॊ दुःखशॊकप्रमॊहिताः सारस्य इव वाशन्त्यः पतिताः पश्य माधव ॥ 14 ॥
फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष यॊषिताम अनवद्यानि वत्राणि तपत्य असुखरश्मिवान ॥ 15 ॥
ईर्षूणां मम पुत्राणां वासुदेवावरॊधनम मत्तमातङ्गदर्पाणां पश्यन्त्य अद्य पृथग्जनाः ॥ 16 ॥
शतचन्द्राणि चर्माणि धवजांश चादित्यसंनिभान रौक्माणि चैव वर्माणि निष्कान अपि च काञ्चनान ॥ 17 ॥
शीर्ष तराणानि चैतानि पुत्राणां मे महीतले पश्य दीप्तानि गॊविन्द पावकान सुहुतान इव ॥ 18 ॥
एष दुःशासनः शेते शूरेणामित्र घातिना पीतशॊणितसर्वाङ्गॊ भीमसेनेन पातितः ॥ 19 ॥
गदया वीर घातिन्या पश्य माधव मे सुतम दयूतक्लेशान अनुस्मृत्य दरौपद्या चॊदितेन च ॥ 20 ॥
उक्ता हय अनेन पाञ्चाली सभायां दयूतनिर्जिता परियं चिकीर्षता भरातुः कर्णस्य च जनार्दन ॥ 21 ॥
सहैव सहदेवेन नकुलेनार्जुनेन च दासभार्यासि पाञ्चालि कषिप्रं परविश नॊ गृहान ॥ 22 ॥
ततॊ ऽहम अब्रुवं कृष्ण तदा दुर्यॊधनं नृपम मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय ॥ 23 ॥
निबॊधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम कषिप्रम एनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः ॥ 24 ॥
न बुध्यसे तवं दुर्बुद्धे भीमसेनम अमर्षणम वाङ्नाराचैस तुदंस तीक्ष्णैर उल्काभिर इव कुञ्जरम ॥ 25 ॥
तान एष रभसः करूरॊ वाक्शल्यान अवधारयन उत्ससर्ज विषं तेषु सर्पॊ गॊवृषभेष्व इव ॥ 26 ॥
एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ निहतॊ भीमसेनेन सिंहेनेव महर्षभः ॥ 27 ॥
अत्यर्थम अकरॊद रौद्रं भीमसेनॊ ऽतयमर्षणः दुःशासनस्य यत करुद्धॊ ऽपिबच छॊणितम आहवे ॥ 28 ॥
स्त्रीपर्व · Stri Parva
अध्याय 18
Reach this point to mark the section finished.
Continue to अध्याय 19