[वैषम्पायन] ततॊ दुर्यॊधनं दृष्ट्वा गान्धारी शॊककर्शिता सहसा नयपतद भूमौ छिन्नेव कदली वने ॥ 1 ॥
सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च पुनः पुनः दुर्यॊधनम अभिप्रेक्ष्य शयानं रुधिरॊक्षितम ॥ 2 ॥
परिष्वज्य च गान्धारी कृपणं पर्यदेवयत हाहा पुत्रेति गान्धारी विललापाकुलेन्द्रिया ॥ 3 ॥
सुगूढ जत्रु विपुलं हारनिष्कनिषेवितम वारिणा नेत्रजेनॊरः सिञ्चन्ती शॊकतापिता समीपस्थं हृषीकेशम इदं वचनम अब्रवीत ॥ 4 ॥
उपस्थितेऽसमिन संग्रामे जञातीनां संक्षये विभॊ माम अयं पराह वार्ष्णेय पराञ्जलिर नृपसत्तमः अस्मिञ जञातिसमुद्धर्षे जयम अम्बा बरवीतु मे ॥ 5 ॥
इत्य उक्ते जानती सर्वम अहं सवं वयसनागमम अब्रुवं पुरुषव्याघ्र यतॊ धर्मस ततॊ जयः ॥ 6 ॥
यथा न युध्यमानस तवं संप्रमुह्यसि पुत्रक धरुवं शास्त्रजिताँल लॊकान पराप्तास्य अमरवद विभॊ ॥ 7 ॥
इत्य एवम अब्रुवं पूर्वं नैनं शॊचामि वै परभॊ धृतराष्ट्रं तु शॊचामि कृपणं हतबान्धवम ॥ 8 ॥
अमर्षणं युधां शरेष्ठं कृतास्त्रं युद्धदुर्मदम शयानं वीरशयने पश्य माधव मे सुतम ॥ 9 ॥
यॊ ऽयं मूर्धावसिक्तानाम अग्रे याति परंतपः सॊ ऽयं पांसुषु शेते ऽदय पश्य कालस्य पर्ययम ॥ 10 ॥
धरुवं दुर्यॊधनॊ वीरॊ गतिं नसुलभां गतः तथा हय अभिमुखः शेते शयने वीरसेविते ॥ 11 ॥
यं पुरा पर्युपासीना रमयन्ति महीक्षितः महीतलस्थं निहतं गृध्रास तं पर्युपासते ॥ 12 ॥
यं पुरा वयजनैर अग्र्यैर उपवीजन्ति यॊषितः तम अद्य पक्षव्यजनैर उपवीजन्ति पक्षिणः ॥ 13 ॥
एष शेते महाबाहुर बलवान सत्यविक्रमः सिंहेनेव दविपः संख्ये भीमसेनेन पातितः ॥ 14 ॥
पश्य दुर्यॊधनं कृष्ण शयानं रुधिरॊक्षितम निहतं भीमसेनेन गदाम उद्यम्य भारत ॥ 15 ॥
अक्षौहिणीर महाबाहुर दश चैकां च केशव अनयद यः पुरा संख्ये सॊ ऽनयान निधनं गतः ॥ 16 ॥
एष दुर्यॊधनः शेते महेष्वासॊ महारथः शार्दूल इव सिंहेन भीमसेनेन पातितः ॥ 17 ॥
विदुरं हय अवमन्यैष पितरं चैव मन्दभाक बालॊ वृद्धावमानेन मन्दॊ मृत्युवशं गतः ॥ 18 ॥
निःसपत्ना मही यस्य तरयॊदश समाः सथिता स शेते निहतॊ भूमौ पुत्रॊ मे पृथिवीपतिः ॥ 19 ॥
अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासनात पूर्णां हस्तिगवाश्वस्य वार्ष्णेय न तु तच चिरम ॥ 20 ॥
ताम एवाद्य महाबाहॊ पश्याम्य अन्यानुशासनात हीनां हस्तिगवाश्वेन किं नु जीवामि माधव ॥ 21 ॥
इदं कृच्छ्रतरं पश्य पुत्रस्यापि वधान मम यद इमां पर्युपासन्ते हताञ शूरान रणे सत्रियः ॥ 22 ॥
परकीर्णकेशां सुश्रॊणीं दुर्यॊधन भुजाङ्कगाम रुक्मवेदी निभां पश्य कृष्ण लक्ष्मणमातरम ॥ 23 ॥
नूनम एषा पुरा बाला जीवमाने महाभुजे भुजाव आश्रित्य रमते सुभुजस्य मनस्विनी ॥ 24 ॥
कथं तु शतधा नेदं हृदयं मम दीर्यते पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे ॥ 25 ॥
पुत्रं रुधिरसंसिक्तम उपजिघ्रत्य अनिन्दिता दुर्यॊधनं तु वामॊरुः पाणिना परिमार्जति ॥ 26 ॥
किं नु शॊचति भर्तारं पुत्रं चैषा मनस्विनी तथा हय अवस्थिता भाति पुत्रं चाप्य अभिवीक्ष्य सा ॥ 27 ॥
सवशिरः पञ्चशाखाभ्याम अभिहत्यायतेक्षणा पतत्य उरसि वीरस्य कुरुराजस्य माधव ॥ 28 ॥
पुण्डरीकनिभा भाति पुण्डरीकान्तर परभा मुखं विमृज्य पुत्रस्य भर्तुश चैव तपस्विनी ॥ 29 ॥
यदि चाप्य आगमाः सन्ति यदि वा शरुतयस तथा धरुवं लॊकान अवाप्तॊ ऽयं नृपॊ बाहुबलार्जितान ॥ 30 ॥
स्त्रीपर्व · Stri Parva
अध्याय 17
Reach this point to mark the section finished.
Continue to अध्याय 18