[व] एवम उक्त्वा तु गान्धारी कुरूणाम आविकर्तनम अपश्यत तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा ॥ 1 ॥
पतिव्रता महाभागा समानव्रतचारिणी उग्रेण तपसा युक्ता सततं सत्यवादिनी ॥ 2 ॥
वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः दिव्यज्ञानबलॊपेता विविधं पर्यदेवयत ॥ 3 ॥
ददर्श सा बुद्धिमती दूराद अपि यथान्तिके रणाजिरं नृवीराणाम अद्भुतं लॊमहर्षणम ॥ 4 ॥
अस्थि केशपरिस्तीर्णं शॊणितौघपरिप्लुतम शरीरैर बहुसाहस्रैर विनिकीर्णं समन्ततः ॥ 5 ॥
गजाश्वरथयॊधानाम आवृतं रुधिराविलैः शरीरैर बहुसाहस्रैर विनिकीर्णं समन्ततः ॥ 6 ॥
गजाश्वनरवीराणां निःसत्त्वैर अभिसंवृतम सृगालबड काकॊल कङ्ककाकनिषेवितम ॥ 7 ॥
रक्षसां पुरुषादानां मॊदनं कुरराकुलम अशिवाभिः शिवाभिश च नादितं गृध्रसेवितम ॥ 8 ॥
ततॊ वयासाभ्यनुज्ञातॊ धृतराष्ट्रॊ महीपतिः पाण्डुपुत्राश च ते सर्वे युधिष्ठिरपुरॊगमाः ॥ 9 ॥
वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम कुरु सत्रियः समासाद्य जग्मुर आयॊधनं परति ॥ 10 ॥
समासाद्य कुरुक्षेत्रं ताः सत्रियॊ निहतेश्वराः अपश्यन्त हतांस तत्र पुत्रान भरातॄन पितॄन पतीन ॥ 11 ॥
करव्यादैर भक्ष्यमाणान वै गॊमायुबड वायसैः भूतैः पिशाचै रक्षॊभिर विविधैश च निशाचरैः ॥ 12 ॥
रुद्राक्रीड निभं दृष्ट्वा तदा विशसनं सत्रियः महार्हेभ्यॊ ऽथ यानेभ्यॊ विक्रॊशन्त्यॊ निपेतिरे ॥ 13 ॥
अदृष्टपूर्वं पश्यन्त्यॊ दुःखार्ता भरत सत्रियः शरीरेष्व अस्खलन्न अन्या नयपतंश चापरा भुवि ॥ 14 ॥
शरान्तानां चाप्य अनाथानां नासीत का चन चेतना पाञ्चाल कुर यॊषाणां कृपणं तद अभून महत ॥ 15 ॥
दुःखॊपहत चित्ताभिः समन्ताद अनुनादितम दृष्ट्वायॊधनम अत्युग्रं धर्मज्ञा सुबलात्मजा ॥ 16 ॥
ततः सा पुण्डरीकाक्षम आमन्त्र्य पुरुषॊत्तमम कुरूणां वैशसं दृष्ट्वा दुःखाद वचनम अब्रवीत ॥ 17 ॥
पश्यैताः पुण्डरीकाक्ष सनुषा मे निहतेश्वराः परकीर्णकेशाः करॊशन्तीः कुररीर इव माधव ॥ 18 ॥
अमूस तव अभिसमागम्य समरन्त्यॊ भरतर्षभान पृथग एवाभ्यधावन्त पुत्रान भरातॄन पितॄन पतीन ॥ 19 ॥
वीरसूभिर महाबाहॊ हतपुत्राभिर आवृतम कव चिच च वीर पत्नीभिर हतवीराभिर आकुलम ॥ 20 ॥
शॊभितं पुरुषव्याघ्रैर भीष्म कर्णाभिमन्युभिः दरॊण दरुपद शल्यैश च जवलद्भिर इव पावकैः ॥ 21 ॥
काञ्चनैः कवचैर निष्कैर मणिभिश च महात्मनाम अङ्गदैर हस्तकेयूरैः सरग्भिश च समलंकृतम ॥ 22 ॥
वीरबाहुविसृष्टाभिः शक्तिभिः परिघैर अपि खड्गैश च विमलैस तीक्ष्णैः स शरैश च शरासनैः ॥ 23 ॥
करव्यादसंघैर मुदितैस तिष्ठद्भिः सहितैः कव चित कव चिद आक्रीडमानैश च शयानैर अपरैः कव चित ॥ 24 ॥
एतद एवंविधं वीर संपश्यायॊधनं विभॊ पश्यमाना च दह्यामि शॊकेनाहं जनार्दन ॥ 25 ॥
पाञ्चालानां कुरूणां च विनाशं मधुसूदन पञ्चानाम इव भूतानां नाहं वधम अचिन्तयम ॥ 26 ॥
तान सुपर्णाश च गृध्राश च निष्कर्षन्त्य असृग उक्षितान निगृह्य कवचेषूग्रा भक्षयन्ति सहस्रशः ॥ 27 ॥
जयद्रथस्य कर्णस्य तथैव दरॊण भीष्मयॊः अभिमन्यॊर विनाशं च कश चिन्तयितुम अर्हति ॥ 28 ॥
अवध्यकल्पान निहतान दृष्ट्वाहं मधुसूदन गृध्रकङ्कबड शयेनश्वसृगालादनी कृतान ॥ 29 ॥
अमर्षवशम आपन्नान दुर्यॊधन वशे सथितान पश्येमान पुरुषव्याघ्रान संशान्तान पावकान इव ॥ 30 ॥
शयनान्यूचिताः सर्वे मृदूनि विमलानि च विपन्नास ते ऽदय वसुधां विवृताम अधिशेरते ॥ 31 ॥
बन्दिभिः सततं काले सतुवद्भिर अभिनन्दिताः शिवानाम अशिवा घॊराः शृण्वन्ति विविधा गिरः ॥ 32 ॥
ये पुरा शेरते वीराः शयनेषु यशस्विनः चन्दनागुरुदिग्धाङ्गास ते ऽदय पांसुषु शेरते ॥ 33 ॥
तेषाम आभरणान्य एते गृध्रगॊमायुवायसाः आक्षिपन्त्य अशिवा घॊरा विनदन्तः पुनः पुनः ॥ 34 ॥
चापानि विशिखान पीतान निस्त्रिंशान विमला गदा युद्धाभिमानिनः परीता जीवन्त इव बिभ्रति ॥ 35 ॥
सुरूप वर्णा बहवः करव्यादैर अवघट्टिताः ऋषभप्रतिरूपाक्षाः शेरते हरितस्रजः ॥ 36 ॥
अपरे पुनर आलिङ्ग्य गदाः परिघबाहवः शेरते ऽभिमुखाः शूरा दयिता इव यॊषितः ॥ 37 ॥
बिभ्रतः कवचान्य अन्ये विमलान्य आयुधानि च न धर्षयन्ति करव्यादा जीवन्तीति जनार्दन ॥ 38 ॥
करव्यादैः कृष्यमाणानाम अपरेषां महात्मनाम शातकौम्भ्यः सरजश चित्रा विप्रकीर्णाः समन्ततः ॥ 39 ॥
एते गॊमायवॊ भीमा निहतानां यशस्विनाम कण्ठान्तर गतान हारान आक्षिपन्ति सहस्रशः ॥ 40 ॥
सर्वेष्व अपररात्रेषु यान अनन्दन्त बन्दिनः सतुतिभिश च परार्ध्याभिर उपचारैश च शिक्षिताः ॥ 41 ॥
तान इमाः परिदेवन्ति दुःखार्ताः परमाङ्गनाः कृपणं वृष्णिशार्दूल दुःखशॊकार्दिता भृशम ॥ 42 ॥
रक्तॊत्पलवनानीव विभान्ति रुचिराणि वै मुखानि परमस्त्रीणां परिशुष्काणि केशव ॥ 43 ॥
रुदितॊपरता हय एता धयायन्त्यः संपरिप्लुताः कुरु सत्रियॊ ऽभिगच्छन्ति तेन तेनैव दुःखिताः ॥ 44 ॥
एतान्य आदित्यवर्णानि तपनीयनिभानि च रॊषरॊदन ताम्राणि वक्त्राणि कुरु यॊषिताम ॥ 45 ॥
आ साम परिपूर्णार्थं निशम्य परिदेवितम इतरेतर संक्रन्दान न विजानन्ति यॊषितः ॥ 46 ॥
एता दीर्घम इवॊच्छ्वस्य विक्रुश्य च विलप्य च विस्पन्दमाना दुःखेन वीरा जहति जीवितम ॥ 47 ॥
बह्व्यॊ दृष्ट्वा शरीराणि करॊशन्ति विलपन्ति च पाणिभिश चापरा घनन्ति शिरांसि मृदु पाणयः ॥ 48 ॥
शिरॊभिः पतितैर हस्तैः सर्वाङ्गैर यूथशः कृतैः इतरेतर संपृक्तैर आकीर्णा भाति मेदिनी ॥ 49 ॥
विशिरस्कान अथॊ कायान दृष्ट्वा घॊराभिनन्दिनः मुह्यन्त्य अनुचिता नार्यॊ विदेहानि शिरांसि च ॥ 50 ॥
शिरः कायेन संधाय परेक्षमाणा विचेतसः अपश्यन्त्यॊ परं तत्र नेदम अस्येति दुःखिताः ॥ 51 ॥
बाहूरुचरणान अन्यान विशिखॊन्मथितान पृथक संदधत्यॊ ऽसुखाविष्टा मूर्छन्त्य एताः पुनः पुनः ॥ 52 ॥
उत्कृत्त शिरसश चान्यान विजग्धान मृगपक्षिभिः दृष्ट्वा काश चिन न जानन्ति भर्तॄन भरत यॊषितः ॥ 53 ॥
पाणिभिश चापरा घनन्ति शिरांसि मधुसूदन परेक्ष्य भरातॄन पितॄन पुत्रान पतींश च निहतान परैः ॥ 54 ॥
बाहुभिश च स खड्गैश च शिरॊभिश च सकुण्डलैः अगम्यकल्पा पृथिवी मांसशॊणितकर्दमा ॥ 55 ॥
न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्य अनिन्दिताः भरातृभिः पितृभिः पुत्रैर उपकीर्णां वसुंधराम ॥ 56 ॥
यूथानीव किशॊरीणां सुकेशीनां जनार्दन सनुषाणां धृतराष्ट्रस्य पश्य वृन्दान्य अनेकशः ॥ 57 ॥
अतॊ दुःखतरं कुं नु केशव परतिभाति मे यद इमाः कुर्वते सर्वा रूपम उच्चावचं सत्रियः ॥ 58 ॥
नूनम आचरितं पापं मया पूर्वेषु जन्मसु या पश्यामि हतान पुत्रान पौत्रान भरातॄंश च केशव एवम आर्ता विलपती ददर्श निहतं सुतम ॥ 59 ॥
स्त्रीपर्व · Stri Parva
अध्याय 16
Reach this point to mark the section finished.
Continue to अध्याय 17