धर्मDharmic Data

स्त्रीपर्व · Stri Parva

अध्याय 15

  1. [व] एवम उक्त्वा तु गान्धारी युधिष्ठिरम अपृच्छत कव स राजेति सक्रॊधा पुत्रपौत्र वधार्दिता ॥ 1 ॥

  2. ताम अभ्यगच्छद राजेन्द्रॊ वेपमानः कृताञ्जलिः युधिष्ठिर इदं चैनां मधुरं वाक्यम अब्रवीत ॥ 2 ॥

  3. पुत्र हन्ता नृशंसॊ ऽहं तव देवि युधिष्ठिरः शापार्हः पृथिवी नाशे हेतुभूतः शपस्व माम ॥ 3 ॥

  4. न हि मे जीवितेनार्थॊ न राज्येन धनेन वा तादृशान सुहृदॊ हत्वा मूढस्यास्य सुहृद दरुहः ॥ 4 ॥

  5. तम एवं वादिनं भीतं संनिकर्ष गतं तदा नॊवाच किं चिद गान्धारी निःश्वासपरमा भृशम ॥ 5 ॥

  6. तस्यावनत देहस्य पादयॊर निपतिष्यतः युधिष्ठिरस्य नृपतेर धर्मज्ञा धर्मदर्शिनी अङ्गुल्य अग्राणि ददृशे देवी पट्टान्तरेण सा ॥ 6 ॥

  7. ततः स कु नकी भूतॊ दर्शनीयनखॊ नृपः तं दृष्ट्वा चार्जुनॊ ऽगच्छद वासुदेवस्य पृष्ठतः ॥ 7 ॥

  8. एवं संचेष्टमानांस तान इतश चेतश च भारत गान्धारी विगतक्रॊधा सान्त्वयाम आस मातृवत ॥ 8 ॥

  9. तया ते समनुज्ञाता मातरं वीरमातरम अभ्यगच्छन्त सहिताः पृथां पृथुल वक्षसः ॥ 9 ॥

  10. चिरस्य दृष्ट्वा पुत्रान सा पुत्राधिभिर अभिप्लुता बाष्पम आहारयद देवी वस्त्रेणावृत्य वै मुखम ॥ 10 ॥

  11. ततॊ बाष्पं समुत्सृज्य सह पुत्रैस तथा पृथा अपश्यद एताञ शस्त्रौघैर बहुधा परिविक्षतान ॥ 11 ॥

  12. सा तान एकैकशः पुत्रान संस्पृशन्ती पुनः पुनः अन्वशॊचन्त दुःखार्ता दरौपदीं च हतात्मजाम रुदतीम अथ पाञ्चालीं ददर्श पतितां भुवि ॥ 12 ॥

  13. [दर] आर्ये पौत्राः कव ते सर्वे सौभद्र सहिता गताः न तवां ते ऽदयाभिगच्छन्ति चिरदृष्टां तपस्विनीम किं नु राज्येन वै कार्यं विहीनायाः सुतैर मम ॥ 13 ॥

  14. [व] तां समाश्वासयाम आस पृथा पृथुल लॊचना उत्थाप्य याज्ञसेनीं तु रुदतीं शॊककर्शिताम ॥ 14 ॥

  15. तयैव सहिता चापि पुत्रैर अनुगता पृथा अभ्यगच्छत गान्धारीम आर्ताम आर्ततरा सवयम ॥ 15 ॥

  16. ताम उवाचाथ गान्धारी सह वध्वा यशस्विनीम मैवं पुत्रीति शॊकार्ता पश्य माम अपि दुःखिताम ॥ 16 ॥

  17. मन्ये लॊकविनाशॊ ऽयं कालपर्याय चॊदितः अवश्य भावी संप्राप्तः सवभावाल लॊमहर्षणः ॥ 17 ॥

  18. इदं तत समनुप्राप्तं विदुरस्य वचॊ महत असिद्धानुनये कृष्णे यद उवाच महामतिः ॥ 18 ॥

  19. तस्मिन्न अपरिहार्ये ऽरथे वयतीते च विशेषतः मा शुचॊ न हि शॊच्यास ते संग्रामे निधनं गताः ॥ 19 ॥

  20. यथैव तवं तथैवाहं कॊ वा माश्वासयिष्यति ममैव हय अपराधेन कुलम अग्र्यं विनाशितम ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 16

Previous: अध्याय 14