[स] ते हत्वा सर्वपाञ्चालान दरौपदेयांश च सर्वशः अगच्छन सहितास तत्र यत्र दुर्यॊधनॊ हतः ॥ 1 ॥
गत्वा चैनम अपश्यंस ते किं चित पराणं नराधिपम ततॊ रथेभ्यः परस्कन्द्य परिवव्रुस तवात्मजम ॥ 2 ॥
तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणम अचेतसम वमन्तं रुधिरं वक्त्राद अपश्यन वसुधातले ॥ 3 ॥
वृतं समन्ताद बहुभिः शवापदैर घॊरदर्शनैः शाला वृकगडैश चैव भक्षयिष्यद्भिर अन्तिकात ॥ 4 ॥
निवारयन्तं कृच्छ्रात ताञ शवापदान संचिखादिषून विवेष्टमानं मह्यां च सुभृशं गाढवेदनम ॥ 5 ॥
तं शयानं महात्मानं भूमौ सवरुधिरॊक्षितम हतशिष्टास तरयॊ वीराः शॊकार्ताः पर्यवारयन अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः ॥ 6 ॥
तैस तरिभिः शॊणितादिग्धैर निःश्वसद्भिर महारथैः शुशुभे संवृतॊ राजा वेदी तरिभिर इवाग्निभिः ॥ 7 ॥
ते तं शयानं संप्रेक्ष्य राजानम अतथॊचितम अविषह्येन दुःखेन ततस ते रुरुदुस तरयः ॥ 8 ॥
ततस ते रुधिरं हस्तैर मुखान निर्मृज्य तस्य ह रणे राज्ञः शयानस्य कृपणं पर्यदेवयन ॥ 9 ॥
[कृप] न दैवस्यातिभारॊ ऽसति यद अयं रुधिरॊक्षितः एकादश चमू भर्ता शेते दुर्यॊधनॊ हतः ॥ 10 ॥
पश्य चामीकराभस्य चामीकरविभूषिताम गदां गदा परियस्येमां समीपे पतितां भुवि ॥ 11 ॥
इयम एनं गदा शूरं न जहाति रणे रणे सवर्गायापि वरजन्तं हि न जहाति यशस्विनम ॥ 12 ॥
पश्येमां सह वीरेण जाम्बूनदविभूषिताम शयानां शयने धर्मे भार्यां परीतिमतीम इव ॥ 13 ॥
यॊ वै मूर्धावसिक्तानाम अग्रे यातः परंतपः स हतॊ गरसते पांसून पश्य कालस्य पर्ययम ॥ 14 ॥
येनाजौ निहता भूमाव अशेरत पुरा दविषः स भूमौ निहतः शेते कुरुराजः परैर अयम ॥ 15 ॥
भयान नमन्ति राजानॊ यस्य सम शतसंघशः स वीरशयने शेते करव्याद्भिः परिवारितः ॥ 16 ॥
उपासत नृपाः पूर्वम अर्थहेतॊर यम ईश्वरम धिक सद्यॊ निहतः शेते पश्य कालस्य पर्ययम ॥ 17 ॥
[स] तं शयानं नृपश्रेष्ठं ततॊ भरतसत्तम अश्वत्थामा समालॊक्य करुणं पर्यदेवयत ॥ 18 ॥
आहुस तवां राजशार्दूल मुख्यं सर्वधनुष्मताम धनाध्यक्षॊपमं युद्धे शिष्यं संकर्षणस्य ह ॥ 19 ॥
कथं विवरम अद्राक्षीद भीमसेनस तवानघ बलिनः कृतिनॊ नित्यं स च पापात्मवान नृप ॥ 20 ॥
कालॊ नूनं महाराज लॊके ऽसमिन बलवत्तरः पश्यामॊ निहतं तवां चेद भीमसेनेन संयुगे ॥ 21 ॥
कथं तवां सर्वधर्मज्ञं कषुद्रः पापॊ वृकॊदरः निकृत्या हतवान मन्दॊ नूनं कालॊ दुरत्ययः ॥ 22 ॥
धर्मयुद्धे हय अधर्मेण समाहूयौजसा मृधे गदया भीमसेनेन निर्भिन्ने सक्थिनी तव ॥ 23 ॥
अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः यद उपेक्षितवान कषुद्रॊ धिक तम अस्तु युधिष्ठिरम ॥ 24 ॥
युद्धेष्व अपवदिष्यन्ति यॊधा नूनं वृकॊदरम यावत सथास्यन्ति भूतानि निकृत्या हय असि पातितः ॥ 25 ॥
ननु रामॊ ऽबरवीद राजंस तवां सदा यदुनन्दनः दुर्यॊधन समॊ नास्ति गदया इति वीर्यवान ॥ 26 ॥
शलाघते तवां हि वार्ष्णेयॊ राजन संसत्सु भारत सुशिष्यॊ मम कौरव्यॊ गदायुद्ध इति परभॊ ॥ 27 ॥
यां गतिं कषत्रियस्याहुः परशस्तां परमर्षयः हतस्याभिमुखस्याजौ पराप्तस तवम असि तां गतिम ॥ 28 ॥
दुर्यॊधन न शॊचामि तवाम अहं पुरुषर्षभ हतपुत्रां तु शॊचामि गान्धारीं पितरं च ते भिक्षुकौ विचरिष्येते शॊचन्तौ पृथिवीम इमाम ॥ 29 ॥
धिग अस्तु कृष्णं वार्ष्णेयम अर्जुनं चापि दुर्मतिम धर्मज्ञ मानिनौ यौ तवां वध्यमानम उपेक्षताम ॥ 30 ॥
पाण्डवाश चापि ते सर्वे किं वक्ष्यन्ति नराधिपान कथं दुर्यॊधनॊ ऽसमाभिर हत इत्य अनपत्रपाः ॥ 31 ॥
धन्यस तवम असि गान्धारे यस तवम आयॊधने हतः परयातॊ ऽभिमुखः शत्रून धर्मेण पुरुषर्षभ ॥ 32 ॥
हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा परज्ञा चक्षुश च दुर्धर्षः कां गतिं परतिपत्स्यते ॥ 33 ॥
धिग अस्तु कृतवर्माणं मां कृपं च महारथम ये वयं न गताः सवर्गं तवां पुरस्कृत्य पार्थिवम ॥ 34 ॥
दातारं सर्वकामानां रक्षितारं परजाहितम यद वयं नानुगच्छामस तवां धिग अस्मान नराधमान ॥ 35 ॥
कृपस्य तव वीर्येण मम चैव पितुश च मे सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च ॥ 36 ॥
भवत्प्रसादाद अस्माभिः समित्रैः सह बान्धवैः अवाप्ताः करतवॊ मुख्या बहवॊ भूरिदक्षिणाः ॥ 37 ॥
कुतश चापीदृशं सार्थम उपलप्स्यामहे वयम यादृशेन पुरस्कृत्य तवं गतः सर्वपार्थिवान ॥ 38 ॥
वयम एव तरयॊ राजन गच्छन्तं परमां गतिम यद वै तवां नानुगच्छामस तेन तप्स्यामहे वयम ॥ 39 ॥
तवत सवर्गहीना हीनार्थाः समरन्तः सुकृतस्य ते किंनाम तद भवेत कर्म यन तवानुव्रजेम वै ॥ 40 ॥
दुःखं नूनं कुरुश्रेष्ठ चरिष्यामॊ महीम इमाम हीनानां नस तवया राजन कुतः शान्तिः कुतः सुखम ॥ 41 ॥
गत्वैतांस तु महाराज समेत्य तवं महारथान यथा शरेष्ठं यथा जयेष्ठं पूजयेर वचनान मम ॥ 42 ॥
आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम हतं मयाद्य शंसेथा धृष्टद्युम्नं नराधिप ॥ 43 ॥
परिष्वजेथा राजानं बाह्लिकं सुमहारथम सैन्धवं सॊमदत्तं च भूरिश्रवसम एव च ॥ 44 ॥
तथा पूर्वगतान अन्यान सवर्गं पार्थिव सत्तमान अस्मद वाक्यात परिष्वज्य पृच्छेथास तवम अनामयम ॥ 45 ॥
इत्य एवम उक्त्वा राजानं भग्नसक्थम अचेतसम अश्वत्थामा समुद्वीक्ष्य पुनर वचनम अब्रवीत ॥ 46 ॥
दुर्यॊधन जीवसि चेद वाचं शरॊत्रसुखां शृणु सप्त पाण्डवतः शेषा धार्तराष्ट्रास तरयॊ वयम ॥ 47 ॥
ते चैव भरातरः पञ्च वासुदेवॊ ऽथ सात्यकिः अहं च कृतवर्मा च कृपः शारद्वतस तथा ॥ 48 ॥
दरौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः पाञ्चाला निहताः सर्वे मत्स्यशेषं च भारत ॥ 49 ॥
कृते परतिकृतं पश्य हतपुत्रा हि पाण्डवाः सौप्तिके शिबिरं तेषां हतं सनर वाहनम ॥ 50 ॥
मया च पापकर्मासौ धृष्टद्युम्नॊ महीपते परविश्य शिबिरं रात्रौ पशुमारेण मारितः ॥ 51 ॥
दुर्यॊधनस तु तां वाचं निशम्य मनसः परियाम परतिलभ्य पुनश चेत इदं वचनम अब्रवीत ॥ 52 ॥
न मे ऽकरॊत तद गानेयॊ न कर्णॊ न च ते पिता यत तवया कृप भॊजाभ्यां सहितेनाद्य मे कृतम ॥ 53 ॥
स चेत सेनापतिः कषुद्रॊ हतः सार्धं शिखण्डिना तेन मन्ये मघवता समम आत्मानम अद्य वै ॥ 54 ॥
सवस्ति पराप्नुत भद्रं वः सवर्गे नः संगमः पुनः इत्य एवम उक्त्वा तूष्णीं स कुरुराजॊ महामनाः पराणान उदसृजद वीरः सुहृदां शॊकम आदधत ॥ 55 ॥
तथेति ते परिष्वक्ताः परिष्वज्य च तं नृपम पुनः पुनः परेक्षमाणाः सवकान आरुरुहू रथान ॥ 56 ॥
इत्य एवं तव पुत्रस्य निशम्य करुणां गिरम परत्यूषकाले शॊकार्तः पराधावं नगरं परति ॥ 57 ॥
तव पुत्रे गते सवर्गे शॊकार्तस्य ममानघ ऋषिदत्तं परनष्टं तद दिव्यदर्शित्वम अद्य वै ॥ 58 ॥
[व] इति शरुत्वा स नृपतिः पुत्र जञातिवधं तदा निःश्वस्य दीर्घम उष्णं च ततश चिन्तापरॊ ऽभवत ॥ 59 ॥
सौप्तिकपर्व · Sauptika Parva
अध्याय 9
Reach this point to mark the section finished.
Continue to अध्याय 10