धर्मDharmic Data

सौप्तिकपर्व · Sauptika Parva

अध्याय 10

  1. [व] तस्यां रात्र्यां वयतीतायां धृष्टद्युम्नस्य सारथिः शशंस धर्मराजाय सौप्तिके कदनं कृतम ॥ 1 ॥

  2. दरौपदेया महाराज दरुपदस्यात्मजैः सह परमत्ता निशि विश्वस्ताः सवपन्तः शिबिरे सवके ॥ 2 ॥

  3. कृतवर्मणा नृशंसेन गौतमेन कृपेण च अश्वत्थाम्ना च पापेन हतं वः शिबिरं निशि ॥ 3 ॥

  4. एतैर नरगजाश्वानां परासशक्तिपरश्वधैः सहस्राणि निकृन्तद्भिर निःशेषं ते बलं कृतम ॥ 4 ॥

  5. छिद्यमानस्य महतॊ वनस्येव परश्वधैः शुश्रुवे सुमहाञ शब्दॊ बलस्य तव भारत ॥ 5 ॥

  6. अहम एकॊ ऽवशिष्टस तु तस्मात सैन्यान महीपते मुक्तः कथं चिद धर्मात्मन वयग्रस्य कृतवर्मणः ॥ 6 ॥

  7. तच छरुत्वा वाक्यम अशिवं कुन्तीपुत्रॊ युधिष्ठिरः पपात मह्यां दुर्धर्षः पुत्रशॊकसमन्वितः ॥ 7 ॥

  8. तं पतन्तम अभिक्रम्य परिजग्राह सात्यकिः भीमसेनॊ ऽरजुनश चैव माद्रीपुत्रौ च पाण्डवौ ॥ 8 ॥

  9. लब्धचेतास तु कौन्तेयः शॊकविह्वलया गिरा जित्वा शत्रूञ जितः पश्यात पर्यदेवयद आतुरः ॥ 9 ॥

  10. दुर्विदा गतिर अर्थानाम अपि ये दिव्यचक्षुषः जीयमाना जयन्त्य अन्ये जयमाना वयं जिताः ॥ 10 ॥

  11. हत्वा भरातॄन वयस्यांश च पितॄन पुत्रान सुहृद्गणान बन्धून अमात्यान पौत्रांश च जित्वा सर्वाञ जिता वयम ॥ 11 ॥

  12. अनर्थॊ हय अर्थसंकाशस तथार्थॊ ऽनर्थदर्शनः जयॊ ऽयम अजयाकारॊ जयस तस्मात पराजयः ॥ 12 ॥

  13. यं हित्वा तप्यते पश्चाद आपन्न इव दुर्मतिः अक्थं मन्येत विजयं ततॊ जिततरः परैः ॥ 13 ॥

  14. येषाम अर्थाय पापस्य धिग जयस्य सुहृद वधे निर्जितैर अप्रमत्तैर हि विजिता जितकाशिनः ॥ 14 ॥

  15. कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे चापव्यात्तस्य रौद्रस्य जयातलस्वननादिनः ॥ 15 ॥

  16. करुद्धस्य नरसिंहस्य संग्रामेष्व अपलायिनः ये वयमुच्यन्त कर्णस्य परमादात त इमे हताः ॥ 16 ॥

  17. रथह्रदं शरवर्षॊर्मि मन्तं; रत्नाचितं वाहन राजियुक्तम शक्त्यृष्टि मीनध्वजनागनक्रं; शरासनावर्त महेषु फेनम ॥ 17 ॥

  18. संग्रामचन्द्रॊदय वेगवेलं; दरॊणार्णवं जयातलनेमि घॊषम ये तेरुर उच्चावचशस्त्रनौभिस; ते राजपुत्रा निहताः परमादात ॥ 18 ॥

  19. न हि परमादात परमॊ ऽसति कश चिद; वधॊ नराणाम इह जीवलॊके परमत्तम अर्था हि नरं समन्तात; तयजन्त्य अनर्थाश च समाविशन्ति ॥ 19 ॥

  20. धवजॊत्तम गरॊच्छ्रितधूमकेतुं; शरार्चिषं कॊपमहासमीरम महाधनुर जयातलनेमि घॊषं; तनुत्र नानाविध शस्त्रहॊमम ॥ 20 ॥

  21. महाचमू कक्षवराभिपन्नं; महाहवे भीष्म महादवाग्निम ये सेहुर आत्तायत शस्त्रवेगं; ते राजपुत्रा निहताः परमादात ॥ 21 ॥

  22. न हि परमत्तेन नरेण लभ्या; विद्या तपः शरीर विपुलं यशॊ वा पश्याप्रमादेन निहत्य शत्रून; सर्वान महेन्द्रं सुखम एधमानम ॥ 22 ॥

  23. इन्द्रॊपमान पार्थिव पुत्रपौत्रान; पश्याविशेषेण हतान परमादात तीर्त्वा समुद्रं वणिजः समृद्धाः; सन्नाः कु नद्याम इव हेलमानाः अमर्षितैर ये निहताः शयाना; निःसंशयं ते तरिदिवं परपन्नाः ॥ 23 ॥

  24. कृष्णां नु शॊचामि कथं न साध्वीं; शॊकार्णवे साद्य विनङ्क्ष्यतीति भरातॄंश च पुत्रांश च हतान निशम्य; पाञ्चालराजं पितरं च वृद्धम धरुवं विसंज्ञा पतिता पृथिव्यां; सा शेष्यते शॊककृशाङ्गयष्टिः ॥ 24 ॥

  25. तच छॊकजं दुःखम अपारयन्ती; कथं भविष्यत्य उचिता सुखानाम पुत्रक्षयभ्रातृवध परणुन्ना; परदह्यमानेव हुताशनेन ॥ 25 ॥

  26. इत्य एवम आर्तः परिदेवयन स; राजा कुरूणां नकुलं बभाषे गच्छानयैनाम इह मन्दभाग्यां; समातृपक्षाम इति राजपुत्रीम ॥ 26 ॥

  27. माद्रीर उतस तत्परिगृह्य वाक्यं; धर्मेण धर्मप्रतिमस्य राज्ञः ययौ रथेनालयम आशु देव्याः; पाञ्चालराजस्य च यत्र दाराः ॥ 27 ॥

  28. परस्थाप्य माद्रीसुतम आजमीढः; शॊकार्दितस तैः सहितः सुहृद्भिः रॊरूयमाणः परययौ सुतानाम; आयॊधनं भूतगणानुकीर्णम ॥ 28 ॥

  29. स तत परविशाशिवम उग्ररूपं; ददर्श पुत्रान सुहृदः सखींश च भूमौ शयानान रुधिरार्द्रगात्रान; विभिन्नभग्नापहृतॊत्तमाङ्गान ॥ 29 ॥

  30. स तांस तु दृष्ट्वा भृशम आर्तरूपॊ; युधिष्ठिरॊ धर्मभृतां वरिष्ठः उच्चैः पचुक्रॊश च कौरवाग्र्यः; पपात चॊर्व्यां सगणॊ विसंज्ञः ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 11

Previous: अध्याय 9