[धृ] तथा परयाते शिबिरं दरॊणपुत्रे महारथे कच चित कृपश च भॊजश च भयार्तौ न नयवर्तताम ॥ 1 ॥
कच चिन न वारितौ कषुद्रै रक्षिभिर नॊपलक्षितौ असह्यम इति वा मत्वा न निवृत्तौ महारथौ ॥ 2 ॥
कच चित परमथ्य शिबिरं हत्वा सॊमक पाण्डवान दुर्यॊधनस्य पदवीं गतौ परमिकां रणे ॥ 3 ॥
पाञ्चालैर वा विनिहतौ कच चिन नास्वपतां कषितौ कच चित ताभ्यां कृतं कर्म तन ममाचक्ष्व संजय ॥ 4 ॥
[स] तस्मिन परयाते शिबिरं दरॊणपुत्रे महात्मनि कृपश च कृतवर्मा च शिबिर दवार्य अतिष्ठताम ॥ 5 ॥
अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ परहृष्टः शनकै राजन्न इदं वचनम अब्रवीत ॥ 6 ॥
यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने किं पुनर यॊधशेषस्य परसुप्तस्य विशेषतः ॥ 7 ॥
अहं परवेक्ष्ये शिबिरं चरिष्यामि च कालवत यथा न कश चिद अपि मे जीवन मुच्येत मानवः ॥ 8 ॥
इत्य उक्त्वा पराविशद दरौणिः पार्थानां शिबिरं महत अद्वारेणाभ्यवस्कन्द्य विहाय भयम आत्मनः ॥ 9 ॥
स परविश्य महाबाहुर उद्देशज्ञश च तस्य ह धृष्टद्युम्नस्य निलयं शनकैर अभ्युपागमत ॥ 10 ॥
ते तु कृत्वा महत कर्म शरान्ताश च बलवद रणे परसुप्ता वै सुविश्वस्ताः सवसैन्यपरिवारिताः ॥ 11 ॥
अथ परविश्य तद वेश्म धृष्टद्युम्नस्य भारत पाञ्चाल्यं शयने दरौणिर अपश्यत सुप्तम अन्तिकात ॥ 12 ॥
कषौमावदाते महति सपर्ध्यास्तरण संवृते माल्यप्रवर संयुक्ते धूपैश चूर्णैश च वासिते ॥ 13 ॥
तं शयानं महात्मानं विस्रब्धम अकुतॊभयम पराबॊधयत पादेन शयनस्थं महीपते ॥ 14 ॥
स बुद्ध्वा चरणस्पर्शम उत्थाय रणदुर्मदः अभ्यजानद अमेयात्मा दरॊणपुत्रं महारथम ॥ 15 ॥
तम उत्पतन्तं शयनाद अश्वत्थामा महाबलः केशेष्व आलम्ब्य पाणिभ्यां निष्पिपेष मही तके ॥ 16 ॥
सबलात तेन निष्पिष्टः साध्वसेन च भारत निद्रया चैव पाञ्चाल्यॊ नाशकच चेष्टितुं तदा ॥ 17 ॥
तम आक्रम्य तदा राजन कण्ठे चॊरसि चॊभयॊः नदन्तं विस्फुरन्तं च पशुमारम अमारयत ॥ 18 ॥
तुदन नखैस तु स दरौणिं नातिव्यक्तम उदाहरत आचार्य पुत्र शस्त्रेण जहि मा मां चिरं कृथाः तवत्कृते सुकृताँल लॊकान गच्छेयं दविपदां वर ॥ 19 ॥
तस्याव्यक्तां तु तां वाचं संश्रुत्य दरौणिर अब्रवीत आचार्य घातिनां लॊका न सन्ति कुलपांसन तस्माच छस्त्रेण निधनं न तवम अर्हसि दुर्मते ॥ 20 ॥
एवं बरुवाणस तं वीरं सिंहॊ मत्तम इव दविपम मर्मस्व अभ्यवधीत करुद्धः पादाष्ठीलैः सुदारुणैः ॥ 21 ॥
तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि अबुध्यन्त महाराज सत्रियॊ ये चास्य रक्षिणः ॥ 22 ॥
ते दृष्ट्वा वर्ष्मवन्तं तम अतिमानुष विक्रमम भूतम एव वयवस्यन्तॊ न सम परव्याहरन भयात ॥ 23 ॥
तं तु तेन भयुपायेन गमयित्वा यमक्षयम अध्यतिष्ठत स तेजस्वी रथं पराप्य सुदर्शनम ॥ 24 ॥
स तस्य भवनाद राजन निष्क्रम्यानादयन दिशः रथेन शिबिरं परायाज जिघांसुर दविषतॊ बली ॥ 25 ॥
अपक्रान्ते ततस तस्मिन दरॊणपुत्रे महारथे सह तै रक्षिभिः सर्वैः परणेदुर यॊषितस तदा ॥ 26 ॥
राजानं निहतं दृष्ट्वा भृशं शॊकपरायणाः वयाक्रॊशन कषत्रियाः सर्वे धृष्टद्युम्नस्य भारत ॥ 27 ॥
तासां तु तेन शब्देन समीपे कषत्रियर्षभाः कषिप्रं च समनह्यन्त किम एतद इति चाब्रुवन ॥ 28 ॥
सत्रियस तु राजन वित्रस्ता भरद्वाजं निरीक्ष्य तम अब्रुवन दीनकण्ठेन कषिप्रम आद्रवतेति वै ॥ 29 ॥
राक्षसॊ वा मनुष्यॊ वा नैनं जानीमहे वयम हत्वा पाञ्चालराजं यॊ रथम आरुह्य तिष्ठति ॥ 30 ॥
ततस ते यॊधमुख्यास तं सहसा पर्यवारयन स तान आपततः सर्वान रुद्रास्त्रेण वयपॊथयत ॥ 31 ॥
धृष्टद्युम्नं च हत्वा स तांश चैवास्य पदानुगान अपश्यच छयने सुप्तम उत्तमौजसम अन्तिके ॥ 32 ॥
तम अप्य आक्रम्य पादेन कण्ठे चॊरसि चौजसा तथैव मारयाम आस विनर्दन्तम अरिंदमम ॥ 33 ॥
युधामन्युस तु संप्राप्तॊ मत्त्वा तं रक्षसा हतम गदाम उद्यम्य वेगेन हृदि दरौणिम अताडयत ॥ 34 ॥
तम अभिद्रुत्य जग्राह कषितौ चैनम अपातयत विस्फुरन्तं च पशुवत तथैवैनम अमारयत ॥ 35 ॥
तथा स वीरॊ हत्वा तं ततॊ ऽनयान समुपाद्रवत संसुप्तान एव राजेन्द्र तत्र तत्र महारथान सफुरतॊ वेपमानांश च शमितेव पशून मखे ॥ 36 ॥
ततॊ निस्त्रिंशम आदाय जघानान्यान पृथग्जनान भागशॊ विचरन मार्गान असियुद्धविशारदः ॥ 37 ॥
तथैव गुल्मे संप्रेक्ष्य शयानान मध्यगौल्मिकान शरान्तान नयस्तायुधान सर्वान कषणेनैव वयपॊथयत ॥ 38 ॥
यॊधान अश्वान दविपांश चैव पराच्छिनत स वरासिना रुधिरॊक्षितसर्वाङ्गः कालसृष्ट इवान्तकः ॥ 39 ॥
विस्फुरद्भिश च तैर दरैणिर निस्त्रिंशस्यॊद्यमेन च आक्षेपेण तथैवासेस तरिधा रक्तॊक्षितॊ ऽभवत ॥ 40 ॥
तस्य लॊहितसिक्तस्य दीप्तखड्गस्य युध्यतः अमानुष इवाकारॊ बभौ परमभीषणः ॥ 41 ॥
ये तव अजाग्रत कौरव्य ते ऽपि शब्देन मॊहिताः निरीक्ष्यमाणा अन्यॊन्यं दरौणिं दृष्ट्वा परविव्यथुः ॥ 42 ॥
तद रूपं तस्य ते दृष्ट्वा कषत्रियाः शत्रुकर्शनाः राक्षसं मन्यमानास तं नयनानि नयमीलयन ॥ 43 ॥
स घॊररूपॊ वयचरत कालवच छिबिरे ततः अपश्यद दरौपदीपुत्रान अवशिष्टांश च सॊमकान ॥ 44 ॥
तेन शब्देन वित्रस्ता धनुर हस्ता महारथाः धृष्टद्युम्नं हतं शरुत्वा दरौपदेया विपां पते अवाकिरञ शरव्रातैर भारद्वाजम अभीतवत ॥ 45 ॥
ततस तेन निनादेन संप्रबुद्धाः परभद्रकाः शिली मिखैः शिखण्डी च दरॊणपुत्रं समार्दयन ॥ 46 ॥
भरद्वाजस तु तान दृष्ट्वा शरवर्षाणि वर्षतः ननाद बलवान नादं जिघांसुस तान सुदुर्जयान ॥ 47 ॥
ततः परमसंक्रुद्धः पितुर वधम अनुस्मरन अवरुह्य रथॊपस्थात तवरमाणॊ ऽभिदुद्रुवे ॥ 48 ॥
सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संयुगे खड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम दरौपदेयान अभिद्रुत्य खड्गेन वयचरद बली ॥ 49 ॥
ततः स नरशार्दूलः परतिबिन्ध्यं तम आहवे कुक्षि देशे ऽवधीद राजन स हतॊ नयपतद भुवि ॥ 50 ॥
परासेन विद्ध्वा दरौणिं तु सुत सॊमः परतापवान पुनश चासिं समुद्यम्य दरॊणपुत्रम उपाद्रवत ॥ 51 ॥
सुत सॊमस्य सासिं तु बाहुं छित्त्वा नरर्षभः पुनर अभ्यहनत पार्श्वे स भिन्नहृदयॊ ऽपतत ॥ 52 ॥
नाकुलिस तु शतानीकॊ रथचक्रेण वीर्यवान दॊर्भ्याम उत्क्षिप्य वेगेन वक्षस्य एनम अताडयत ॥ 53 ॥
अताडयच छतानीकं मुक्तचक्रं दविजस तु सः स विह्वलॊ ययौ भूमिं ततॊ ऽसयापाहरच छिरः ॥ 54 ॥
शरुतकर्मा तु परिघं गृहीत्वा समताडयत अभिद्रुत्य ततॊ दरौणिं सव्ये सफलके भृशम ॥ 55 ॥
स तु तं शरुतकर्माणम आस्ये जघ्ने वरासिना स हतॊ नयपतद भूमौ विमूढॊ विकृताननः ॥ 56 ॥
तेन शब्देन वीरस तु शरुतकीर्तिर महाधनुः अश्वत्थामानम आसाद्य शरवर्षैर अवाकिरत ॥ 57 ॥
तस्यापि शरवर्षाणि चर्मणा परतिवार्य सः सकुण्डलं शिरः कायाद भराजमानम अपाहरत ॥ 58 ॥
ततॊ भीष्म निहन्ता तं सह सर्वैः परभद्रकैः अहनत सर्वतॊ वीरं नानाप्रहरणैर बली शिलीमुखेन चाप्य एनं भरुवॊर मध्ये समार्दयत ॥ 59 ॥
स तु करॊधसमाविष्टॊ दरॊणपुत्रॊ महाबलः शिखण्डिनं समासाद्य दविधा चिच्छेद सॊ ऽसिना ॥ 60 ॥
शिखण्डिनं ततॊ हत्वा करॊधाविष्टः परंतपः परभद्रक गडान सर्वान अभिदुद्राव वेगवान यच च शिष्टं विराटस्य बलं तच च समाद्रवत ॥ 61 ॥
दरुपदस्य च पुत्राणां पौत्राणां सुहृदाम अपि चकार कदनं घॊरं दृष्ट्वा दृष्ट्वा महाबलः ॥ 62 ॥
अन्यान अन्यांश च पुरुषान अभिसृत्याभिसृत्य च नयकृन्तद असिना दरौणिर असि मार्गविशारदः ॥ 63 ॥
कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम रक्ताम्बरधराम एकां पाशहस्तां शिखण्डिनीम ॥ 64 ॥
ददृशुः कालरात्रिं ते समयमानाम अवस्थिताम नराश्वकुञ्जरान पाशैर बद्ध्वा घॊरैः परतस्थुषीम हरन्तीं विविधान परेतान पाशबद्धान विमूर्धजान ॥ 65 ॥
सवप्ने सुप्तान नयन्तीं तां रात्रिष्व अन्यासु मारिष ददृशुर यॊधमुख्यास ते घनन्तं दरौणिं च नित्यदा ॥ 66 ॥
यतः परवृत्तः संग्रामः कुरुपाण्डवसेनयॊः ततः परभृति तां कृत्याम अपश्यन दरौणिम एव च ॥ 67 ॥
तांस तु दैवहतान पूर्वं पश्चाद दरौणिर नयपातयत तरासयन सर्वभूतानि विनदन भैरवान रवान ॥ 68 ॥
तद अनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम इदं तद इत्य अमन्यन्त दैवेनॊपनिपीडिताः ॥ 69 ॥
ततस तेन निनादेन परत्यबुध्यन्त धन्विनः शिबिरे पाण्डवेयानां शतशॊ ऽथ सहस्रशः ॥ 70 ॥
सॊ ऽचछिनत कस्य चित पादौ जघनं चैव कस्य चित कांश चिद बिभेद पार्श्वेषु कालसृष्ट इवान्तकः ॥ 71 ॥
अत्युग्र परतिपिष्टैश च नदद्भिश च भृशातुरैः गजाश्वमथितैश चान्यैर मही कीर्णाभवत परभॊ ॥ 72 ॥
करॊशतां किम इदं कॊ ऽयं किं शब्दः किं नु किं कृतम एवं तेषां तदा दरौणिर अन्तकः समपद्यत ॥ 73 ॥
अपेतशस्त्रसंनाहान संरब्धान पाण्डुसृञ्जयान पराहिणॊन मृत्युलॊकाय दरौणिः परहरतां वरः ॥ 74 ॥
ततस तच छस्त्र वित्रस्ता उत्पतन्तॊ भयातुराः निद्रान्धा नष्टसंज्ञाश च तत्र तत्र निलिल्यिरे ॥ 75 ॥
ऊरुस्तम्भगृहीताश च कश्मलाभिहतौजसः विनदन्तॊ भृशं तरस्ताः संन्यपेषन परस्परम ॥ 76 ॥
ततॊ रथं पुनर दरौणिर आस्थितॊ भीमनिस्वनम धनुष्पाणिः शरैर अन्यान परेषयद वै यमक्षयम ॥ 77 ॥
पुनर उत्पततः कांश चिद दूराद अपि नरॊत्तमान शूरान संपततश चान्यान कालरात्र्यै नयवेदयत ॥ 78 ॥
तथैव सयन्दनाग्रेण परमथन स विधावति शरवर्षैश च विविधैर अवर्षच छात्रवांस ततः ॥ 79 ॥
पुनश च सुविचित्रेण शतचन्द्रेण चर्मणा तेन चाकाशवर्णेन तदाचरत सॊ ऽसिना ॥ 80 ॥
तथा स शिबिरं तेषां दरौणिर आहवदुर्मदः वयक्षॊभयत राजेन्द्र महाह्रदम इव दविपः ॥ 81 ॥
उत्पेतुस तेन शब्देन यॊधा राजन विचेतसः निद्रार्ताश च भयार्ताश च वयधावन्त ततस ततः ॥ 82 ॥
विस्वरं चुक्रुशुश चान्ये बह्वबद्धं तथावदन न च सम परतिपद्यन्ते शस्त्राणि वसनानि च ॥ 83 ॥
विमुक्तकेशाश चाप्य अन्ये नाभ्यजानन परस्परम उत्पतन्तः परे भीताः के चित तत्र तथाभ्रमन पुरीषम असृजन के चित के चिन मूत्रं परसुस्रुवुः ॥ 84 ॥
बन्धनानि च राजेन्द्र संछिद्य तुरगा दविपाः समं पर्यपतंश चान्ये कुर्वन्तॊ महद आकुलम ॥ 85 ॥
तत्र के चिन नरा भीता वयलीयन्त महीतले तथैव तान निपतितान अपिंषन गजवाजिनः ॥ 86 ॥
तस्मिंस तथा वर्तमाने रक्षांसि पुरुषर्षभ तृप्तानि वयनदन्न उच्चैर मुदा भरतसत्तम ॥ 87 ॥
स शब्दः परेरितॊ राजन भूतसंघैर मुदा युतैः अपूरयद दिशः सर्वा दिवं चापि महास्वनः ॥ 88 ॥
तेषाम आर्तस्वरं शरुत्वा वित्रस्ता गजवाजिनः मुक्ताः पर्यपतन राजन मृद्नन्तः शिबिरे जनम ॥ 89 ॥
तैस तत्र परिधावद्भिश चरणॊदीरितं रजः अकरॊच छिबिरे तेषां रजन्यां दविगुणं तमः ॥ 90 ॥
तस्मिंस तमसि संजाते परमूढाः सर्वतॊ जनाः नाजानन पितरः पुत्रान भरातॄन भरातर एव च ॥ 91 ॥
गजा गजान अतिक्रम्य निर्मनुष्या हया हयान अताडयंस तथाभञ्जंस तथामृद्नंश च भारत ॥ 92 ॥
ते भग्नाः परपतन्तश च निघ्नन्तश च परस्परम नयपातयन्त च परान पातयित्वा तथापिषन ॥ 93 ॥
विचेतसः सनिद्राश च तमसा चावृता नराः जघ्नुः सवान एव तत्राथ कालेनाभिप्रचॊदिताः ॥ 94 ॥
तयक्त्वा दवाराणि च दवाःस्थास तथा गुल्मांश च गौल्मिकाः पराद्रवन्त यथाशक्ति कांदिशीका विचेतसः ॥ 95 ॥
विप्रनष्टाश च ते ऽनयॊन्यं नाजानन्त तदा विभॊ करॊशन्तस तात पुत्रेति दैवॊपहतचेतसः ॥ 96 ॥
पलायतां दिशस तेषां सवान अप्य उत्सृज्य बान्धवान गॊत्र नामभिर अन्यॊन्यम आक्रन्दन्त ततॊ जनाः ॥ 97 ॥
हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे तान बुद्ध्वा रणमत्तॊ ऽसौ दरॊणपुत्रॊ वयपॊथयत ॥ 98 ॥
तत्रापरे वध्यमाना मुहुर मुहुर अचेतसः शिबिरान निष्पतन्ति सम कषत्रिया भयपीडिताः ॥ 99 ॥
तांस तु निष्पततस तरस्ताञ शिबिराञ जीवितैषिणः कृतवर्मा कृपश चैव दवारदेशे निजघ्नतुः ॥ 100 ॥
विशस्त्र यन्त्रकवचान मुक्तकेशान कृताञ्जलीन वेपमानान कषितौ भीतान नैव कांश चिद अमुञ्चताम ॥ 101 ॥
नामुच्यत तयॊः कश चिन निष्क्रान्तः शिबिराद बहिः कृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः ॥ 102 ॥
भूयश चैव चिकीर्षन्तौ दरॊणपुत्रस्य तौ परियम तरिषु देशेषु ददतुः शिबिरस्य हुताशनम ॥ 103 ॥
ततः परकाशे शिबिरे खड्गेन पितृनन्दनः अश्वत्थामा महाराज वयचरत कृतहस्तवत ॥ 104 ॥
कांश चिद आपततॊ वीरान अपरांश च परधावतः वययॊजयत खड्गेन पराणैर दविज वरॊ नरान ॥ 105 ॥
कांश चिद यॊधान स खड्गेन मध्ये संछिद्य वीर्यवान अपातयद दरॊणसुतः संरब्धस तिलकाण्डवत ॥ 106 ॥
विनदद्भिर भृशायास तैर नराश्वद्विरदॊत्तमैः पतितैर अभवत कीर्णा मेदिनी भरतर्षभ ॥ 107 ॥
मानुषाणां सहस्रेषु हतेषु पतितेषु च उदतिष्ठन कबन्धानि बहून्य उत्थाय चापतन ॥ 108 ॥
सायुधान साङ्गदान बाहून निचकर्त शिरांसि च हस्तिहस्तॊपमान ऊरून हस्तान पादांश च भारत ॥ 109 ॥
पृष्ठच छिन्नाञ शिरश छिन्नान पार्श्वच छिन्नांस तथापरान समासाद्याकरॊद दरौणिः कांश चिच चापि पराङ्मुखान ॥ 110 ॥
मध्यकायान नरान अन्यांश चिछेदान्यांश च कर्णतः अंसदेशे निहत्यान्यान काये परावेशयच छिरः ॥ 111 ॥
एवं विचरतस तस्य निघ्नतः सुबहून नरान तमसा रजनी घॊरा बभौ दारुणदर्शना ॥ 112 ॥
किं चित पराणैश च पुरुषैर हतैश चान्यैः सहस्रशः बहुना च गजाश्वेन भूर अभूद भीमदर्शना ॥ 113 ॥
यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे करुद्धेन दरॊणपुत्रेण संछिन्नाः परापतन भुवि ॥ 114 ॥
मातॄर अन्ये पितॄन अन्ये भरातॄन अन्ये विचुक्रुशुः के चिद ऊचुर न तत करुद्धैर धार्तराष्ट्रैः कृतं रणे ॥ 115 ॥
यत्कृतं नः परसुप्तानां रक्षॊभिः करूरकर्मभिः असांनिध्याद धि पार्थानाम इदं नः कदनं कृतम ॥ 116 ॥
न देवासुरगन्धर्वैर न यक्षैर न च राक्षसैः शक्यॊ विजेतुं कौन्तेयॊ गॊप्ता यस्य जनार्दनः ॥ 117 ॥
बरह्मण्यः सत्यवाग दान्तः सर्वभूतानुकम्पकः न च सुप्तं परमत्तं वा नयस्तशस्त्रं कृताञ्जलिम धावन्तं मुक्तकेशं वा हन्ति पार्थॊ धनंजयः ॥ 118 ॥
तद इदं नः कृतं घॊरं रक्षॊभिः करूरकर्मभिः इति लालप्यमानाः सम शेरते बहवॊ जनाः ॥ 119 ॥
सतनतां च मनुष्याणाम अपरेषां च कूजताम ततॊ मुहूर्तात पराशाम्यत स शब्दस तुमुलॊ महान ॥ 120 ॥
शॊणितव्यतिषिक्तायां वसुधायां च भूमिप तद रजस तुमुलं घॊरं कषणेनान्तर अधीयत ॥ 121 ॥
संवेष्टमानान उद्विग्नान निरुत्साहान सहस्रशः नयपातयन नरान करुद्धः पशून पशुपतिर यथा ॥ 122 ॥
अन्यॊन्यं संपरिष्वज्य शयानान दरवतॊ ऽपरान संलीनान युध्यमानांश च सर्वान दरौणिर अपॊथयत ॥ 123 ॥
दह्यमाना हुताशेन वध्यमानाश च तेन ते परस्परं तदा यॊधा अनयन यमसादनम ॥ 124 ॥
तस्या रजन्यास तव अर्धेन पाण्डवानां महद बलम गमयाम आस राजेन्द्र दरौणिर यम निवेशनम ॥ 125 ॥
निशाचराणां सत्त्वानां स रात्रिर हर्षवर्धिनी आसीन नरगजाश्वानां रौद्री कषयकरी भृशम ॥ 126 ॥
तत्रादृश्यन्त रक्षांसि पिशाचाश च पृथग्विधाः खादन्तॊ नरमांसानि पिबन्तः शॊणितानि च ॥ 127 ॥
करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः जटिला दीर्घसक्थाश च पञ्च पादा महॊदराः ॥ 128 ॥
पश्चाद अङ्गुलयॊ रूक्षा विरूपा भैरवस्वनाः घटजानवॊ ऽतिह्रस्वाश च नीलकण्ठा विभीषणाः ॥ 129 ॥
सपुत्रदाराः सुक्रूरा दुर्दर्शन सुनिर्घृणाः विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम ॥ 130 ॥
पीत्वा च शॊणितं हृष्टाः परानृत्यन गणशॊ ऽपरे इदं वरम इदं मेध्यम इदं सवाद्व इति चाब्रुवन ॥ 131 ॥
मेदॊ मज्जास्थि रक्तानां वसानां च भृशासिताः परमांसानि खादन्तः करव्यादा मांसजीविनः ॥ 132 ॥
वसां चाप्य अपरे पीत्वा पर्यधावन विकुक्षिलाः नाना वक्त्रास तथा रौद्राः करव्यादाः पिशिताशिनः ॥ 133 ॥
अयुतानि च तत्रासन परयुतान्य अर्बुदानि च रक्षसां घॊररूपाणां महतां करूरकर्मणाम ॥ 134 ॥
मुदितानां वितृप्तानां तस्मिन महति वैशसे समेतानि बहून्य आसन भूतानि च जनाधिप ॥ 135 ॥
परत्यूषकाले शिबिरात परतिगन्तुम इयेष सः नृशॊणितावसिक्तस्य दरौणेर आसीद असि तसरुः पाणिना सह संश्लिष्ट एकीभूत इव परभॊ ॥ 136 ॥
स निःशेषान अरीन कृत्वा विरराज जनक्षये युगान्ते सर्वभूतानि भस्मकृत्वेव पावकः ॥ 137 ॥
यथाप्रतिज्ञं तत कर्मकृत्वा दरौणायनिः परभॊ दुर्गमां पदवीं कृत्वा पितुर आसीद गतज्वरः ॥ 138 ॥
यथैव संसुप्त जने शिबिरे पराविशन निशि तथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः ॥ 139 ॥
निष्क्रम्य शिबिरात तस्मात ताभ्यां संगम्य वीर्यवान आचख्यौ कर्म तत सर्वं हृष्टः संहर्षयन विभॊ ॥ 140 ॥
ताव अप्य आचख्यतुस तस्मै परियं परियकरौ तदा पाञ्चालान सृञ्जयांश चैव विनिकृत्तान सहस्रशः परीत्या चॊच्चैर उदक्रॊशंस तथैवास्फॊटयंस तलान ॥ 141 ॥
एवंविधा हि सा रात्रिः सॊमकानां जनक्षये परसुप्तानां परमत्तानाम आसीत सुभृशदारुणा ॥ 142 ॥
असंशयं हि कालस्य पर्यायॊ दुरतिक्रमः तादृशा निहता यत्र कृत्वास्माकं जनक्षयम ॥ 143 ॥
[धृ] पराग एव सुमहत कर्म दरौणिर एतन महारथः नाकरॊद ईदृशं कस्मान मत पुत्र विजये धृतः ॥ 144 ॥
अथ कस्माद धते कषत्रे कर्मेदं कृतवान असौ दरॊणपुत्रॊ महेष्वासस तन मे शंसितुम अर्हसि ॥ 145 ॥
[स] तेषां नूनं भयान नासौ कृतवान कुरुनन्दन असांनिध्याद धि पार्थानां केशवस्य च धीमतः ॥ 146 ॥
सात्यकेश चापि कर्मेदं दरॊणपुत्रेण साधितम न हि तेषां समक्षं तान हन्याद अपि मरुत्पतिः ॥ 147 ॥
एतद ईदृशकं वृत्तं राजन सुप्त जने विभॊ ततॊ जनक्षयं कृत्वा पाण्डवानां महात्ययम दिष्ट्या दिष्ट्येति चान्यॊन्यं समेत्यॊचुर महारथाः ॥ 148 ॥
पर्यष्वजत ततॊ दरौणिस ताभ्यां च परतिनन्दितः इदं हर्षाच च सुमहद आददे वाक्यम उत्तमम ॥ 149 ॥
पाञ्चाला निहताः सर्वे दरौपदेयाश च सर्वशः सॊमका मत्स्यशेषाश च सर्वे विनिहता मया ॥ 150 ॥
इदानीं कृतकृत्याः सम यामतत्रैव माचिरम यदि जीवति नॊ राजा तस्मै शंसामहे परियम ॥ 151 ॥
सौप्तिकपर्व · Sauptika Parva
अध्याय 8
Reach this point to mark the section finished.
Continue to अध्याय 9