[धृ] दवारदेशे ततॊ दरौणिम अवस्थितम अवेक्ष्य तौ अकुर्वतां भॊजकृपौ किं संजय वदस्व मे ॥ 1 ॥
[स] कृतवर्माणम आमन्त्र्य कृपं च स महारथम दरौणिर मन्युपरीतात्मा शिबिर दवारम आसदत ॥ 2 ॥
तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम सॊ ऽपश्यद दवारम आवृत्य तिष्ठन्तं लॊमहर्षणम ॥ 3 ॥
वसानं चर्मवैयाघ्रं महारुधिरविस्रवम कृष्णाजिनॊत्तरासङ्गं नागयज्ञॊपवीतिनम ॥ 4 ॥
बाहुभिः सवायतैः पीनैर नानाप्रहरणॊद्यतैः बद्धाङ्गद महासर्पं जवालामाला कुलाननम ॥ 5 ॥
दंष्ट्राकराल वदनं वयादितास्यं भयावहम नयनानां सहस्रैश च विचित्रैर अभिभूषितम ॥ 6 ॥
नैव तस्य वपुः शक्यं परवक्तुं वेष एव वा सर्वथा तु तद आलक्ष्य सफुटेयुर अपि पर्वताः ॥ 7 ॥
तस्यास्यान नासिकाभ्यां च शरवणाभ्यां च सर्वशः तेभ्यश चाक्षि सहस्रेभ्यः परादुरासन महार्चिषः ॥ 8 ॥
तथा तेजॊ मरीचिभ्यः शङ्खचक्रगदाधराः परादुरासन हृषीकेशाः शतशॊ ऽथ सहस्रशः ॥ 9 ॥
तद अत्यद्भुतम आलॊक्य भूतं लॊकभयंकरम दरौणिर अव्यथितॊ दिव्यैर अस्त्रवर्षैर अवाकिरत ॥ 10 ॥
दरौणिमुक्ताञ शरांस तांस तु तद भूतं महद अग्रसत उदधेर इव वार्यॊघान पावकॊ वडवामुखः ॥ 11 ॥
अश्वत्थामा तु संप्रेक्ष्य ताञ शरौघान निरर्थकान रथशक्तिं मुमॊचास्मै दीप्ताम अग्निशिखाम इव ॥ 12 ॥
सा तदाहत्य दीप्ताग्रा रथशक्तिर अशीर्यत युगान्ते सूर्यम आहत्य महॊक्लेव दिवश चयुता ॥ 13 ॥
अथ हेमत्सरुं दिव्यं खड्गम आकाशवर्चसम कॊशात समुद्बबर्हाशु बिलाद दीप्तम इवॊरगम ॥ 14 ॥
ततः खड्गवरं धीमान भूताय पराहिणॊत तदा स तदासाद्य भूतं वै विलयं तूलवद ययौ ॥ 15 ॥
ततः स कुपितॊ दरौणिर इन्द्रकेतुनिभां गदाम जवलन्तीं पराहिणॊत तस्मै भूतं ताम अपि चाग्रसत ॥ 16 ॥
ततः सर्वायुधाभावे वीक्षमाणस ततस ततः अपश्यत कृतम आकाशम अनाकाशं जनार्दनैः ॥ 17 ॥
तद अद्भुततमं दृष्ट्वा दरॊणपुत्रॊ निरायुधः अब्रवीद अभिसंतप्तः कृप वाक्यम अनुस्मरन ॥ 18 ॥
बरुवताम अप्रियं पथ्यं सुहृदां न शृणॊति यः स शॊचत्य आपदं पराप्य यथाहम अतिवर्त्य तौ ॥ 19 ॥
शास्त्रदृष्टान अवध्यान यः समतीत्य जिघांसति स पथः परच्युतॊ धर्म्यात कुपथं परतिपद्यते ॥ 20 ॥
गॊब्राह्मण नृप सत्रीषु सख्युर मातुर गुरॊस तथा वृद्धबाल जडान्धेषु सुप्त भीतॊत्थितेषु च ॥ 21 ॥
मत्तॊन्मत्त परमत्तेषु न शस्त्राण्य उपधारयेत इत्य एवं गुरुभिः पूर्वम उपदिष्टं नृणां सदा ॥ 22 ॥
सॊ ऽहम उत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम अमार्गेणैवम आरभ्य घॊराम आपदम आगतः ॥ 23 ॥
तां चापदं घॊरतरां परवदन्ति मनीषिणः यद उद्यम्य महत कृत्यं भयाद अपि निवर्तते ॥ 24 ॥
अशक्यं चैव कः कर्तुं शक्तः शक्तिबलाद इह न हि दैवाद गरीयॊ वै मानुषं कर्म कथ्यते ॥ 25 ॥
मानुषं कुर्वतः कर्म यदि दैवान न सिध्यति स पथः परच्युतॊ धर्म्याद विपदं परतिपद्यते ॥ 26 ॥
परतिघातं हय अविज्ञातं परवदन्ति मनीषिणः यद आरभ्य करियां कां चिद भयाद इह निवर्तते ॥ 27 ॥
तद इदं दुष्प्रणीतेन भयं मां समुपस्थितम न हि दरॊण सुतः संख्ये निवर्तेत कथं चन ॥ 28 ॥
इदं च सुमहद भूतं दैवदण्डम इवॊद्यतम न चैतद अभिजानामि चिन्तयन्न अपि सर्वथा ॥ 29 ॥
धरुवं येयम अधर्मे मे परवृत्ता कलुषा मतिः तस्याः फलम इदं घॊरं परतिघाताय दृश्यते ॥ 30 ॥
तद इदं दैवविहितं मम संख्ये निवर्तनम नान्यत्र दैवाद उद्यन्तुम इह शक्यं कथं चन ॥ 31 ॥
सॊ ऽहम अद्य महादेवं परपद्ये शरणं परभुम दैवदण्डम इमं घॊरं स हि मे नाशयिष्यति ॥ 32 ॥
कपर्दिनं परपद्याथ देवदेवम उमापतिम कपालमालिनं रुद्रं भग नेत्रहरं हरम ॥ 33 ॥
स हि देवॊ ऽतयगाद देवांस तपसा विक्रमेण च तस्माच छरणम अभ्येष्ये गिरिशं शूलपाणिनम ॥ 34 ॥
सौप्तिकपर्व · Sauptika Parva
अध्याय 6
Reach this point to mark the section finished.
Continue to अध्याय 7