[कृप] दिष्ट्या ते परतिकर्तव्ये मतिर जातेयम अच्युत न तवा वारयितुं शक्तॊ वज्रपाणिर अपि सवयम ॥ 1 ॥
अनुयास्यावहे तवां तु परभाते सहिताव उभौ अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः ॥ 2 ॥
अहं तवाम अनुयास्म्यामि कृतवर्मा च सात्वतह परान अभिमुखं यान्तं रथाव आस्थाय दंशितौ ॥ 3 ॥
आवाभ्यां सहितः शत्रूञ शवॊ ऽसि हन्ता समागमे विक्रम्य रथिनां शरेष्ठ पाञ्चालान सपदानुगान ॥ 4 ॥
शक्तस तवम असि विक्रान्तुं विश्रमस्व निशाम इमाम चिरं ते जाग्रतस तात सवप तावन निशाम इमाम ॥ 5 ॥
विश्रान्तश च विनिद्रश च सवस्थचित्तश च मानद समेत्य समरे शत्रून वधिष्यसि न संशयः ॥ 6 ॥
न हि तवा रथिनां शरेष्ठ परगृहीतवयायुधम जेतुम उत्सहते कश चिद अपि देवेषु पावकिः ॥ 7 ॥
कृपेण सहितं यान्तं युक्तं च कृतवर्मणा कॊ दरौणिं युधि संरब्धं यॊधयेद अपि देवराट ॥ 8 ॥
ते वयं परिविश्रान्ता विनिद्रा विगतज्वराः परभातायां रजन्यां वै निहनिष्याम शात्रवान ॥ 9 ॥
तव हय अस्त्राणि दिव्यानि मम चैव न संशयः सात्वतॊ ऽपि महेष्वासॊ नित्यं युद्धेषु कॊविदः ॥ 10 ॥
ते वयं सहितास तात सर्वाञ शत्रून समागतान परसह्य समरे हत्वा परीतिं पराप्स्याम पुष्कलाम विश्रमस्व तवम अव्यग्रः सवप चेमां निशां सुखम ॥ 11 ॥
अहं च कृतवर्मा च परयान्तं तवां नरॊत्तम अनुयास्याव सहितौ धन्विनौ परतापिनौ रथिनं तवरया यान्तं रथाव आस्थाय दंशितौ ॥ 12 ॥
स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे ततः कर्तासि शत्रूणां युध्यतां कदनं महत ॥ 13 ॥
कृत्वा च कदनं तेषां परभाते विमले ऽहनि विहरस्व यथा शक्रः सूदयित्वा महासुरान ॥ 14 ॥
तवं हि शक्तॊ रणे जेतुं पाञ्चालानां वरूथिनीम दैत्य सेनाम इव करुद्धः सर्वदानव सूदनः ॥ 15 ॥
मया तवां सहितं संख्ये गुप्तं च कृतवर्त्मणा न सहेत विभुः साक्षाद वज्रपाणिर अपि सवयम ॥ 16 ॥
न चाहं समरे तात कृतवर्मा तथैव च अनिर्जित्य रणे पाण्ड्दून वयपयास्याव कर्हि चित ॥ 17 ॥
हत्वा च समरे कषुद्रान पाञ्चालान पाण्डुभिः सह निवर्तिष्यामहे सर्वे हता वा सवर्गगा वयम ॥ 18 ॥
सर्वॊपायैः सहायास ते परभाते वयम एव हि सत्यम एतन महाबाहॊ परब्रवीमि तवानघ ॥ 19 ॥
एवम उक्तस ततॊ दरौणिर मातुलेन हितं वचः अब्रवीन मातुलं राजन करॊधाद उद्वृत्य लॊचने ॥ 20 ॥
आतुरस्य कुतॊ निद्रा नरस्यामर्षितस्य च अर्थांश चिन्तयतश चापि कामयानस्य वा पुनः ॥ 21 ॥
तद इदं समनुप्राप्तं पश्य मे ऽदय चतुष्टयम यस्य भागश चतुर्थॊ मे सवप्नम अह्नाय नाशयेत ॥ 22 ॥
किंनाम दुःखं लॊके ऽसमिन पितुर वधम अनुस्मरन हृदयं निर्दहन मे ऽदय रात्र्यहानि न शाम्यति ॥ 23 ॥
यथा च निहतः पापैः पिता मम विशेषतः परत्यक्षम अपि ते सर्वं तन मे मर्माणि कृन्तति ॥ 24 ॥
कथं हि मादृशॊ लॊके मुहूर्तम अपि जीवति दरॊणॊ हतेति यद वाचः पाञ्चालानां शृणॊम्य अहम ॥ 25 ॥
दृष्टद्युम्नम अहत्वाजौ नाहं जीवितुम उत्सहे स मे पितृवधाद वध्यः पाञ्चाला ये च संगताः ॥ 26 ॥
विलापॊ भग्नसक्थस्य यस तु राज्ञॊ मया शरुतः स पुनर हृदयं कस्य करूरस्यापि न निर्दहेत ॥ 27 ॥
कस्य हय अकरुणस्यापि नेत्राभ्याम अश्नु नाव्रजेत नृपतेर भग्नसक्थस्य शरुत्वा तादृग वचः पुनः ॥ 28 ॥
यश चायं मित्र पक्षॊ मे मयि जीवति निर्जितः शॊकं मे वर्धयत्य एष वारिवेग इवार्णवम एकाग्रमनसॊ मे ऽदय कुतॊ निद्रा कुतः सुखम ॥ 29 ॥
वासुदेवार्जुनाभ्यां हि तान अहं परिरक्षितान अविषह्यतमान मन्ये महेन्द्रेणापि मातुल ॥ 30 ॥
न चास्मि शक्यः संयन्तुम अस्मात कार्यात कथं चन न तं पश्यामि लॊके ऽसमिन यॊ मां कार्यान निवर्तयेत इति मे निश्चिता बुद्धिर एषा साधुमता च मे ॥ 31 ॥
वार्त्तिकैः कथ्यमानस तु मित्राणां मे पराभवः पाण्डवानां च विजयॊ हृदयं दहतीव मे ॥ 32 ॥
अहं तु कदनं कृत्वा शत्रूणाम अद्य सौप्तिके ततॊ विश्रमिता चैव सवप्ता च विगतज्वरः ॥ 33 ॥
सौप्तिकपर्व · Sauptika Parva
अध्याय 4
Reach this point to mark the section finished.
Continue to अध्याय 5