धर्मDharmic Data

सौप्तिकपर्व · Sauptika Parva

अध्याय 3

  1. [स] कृपस्य वचनं शरुत्वा धर्मार्थसहितं शुभम अश्वत्थामा महाराज दुःखशॊकसमन्वितः ॥ 1 ॥

  2. दह्यमानस तु शॊकेन परदीप्तेनाग्निना यथा करूरं मनस ततः कृत्वा ताव उभौ परत्यभाषत ॥ 2 ॥

  3. पुरुषे पुरुषे बुद्धिः सा सा भवति शॊभना तुष्यन्ति च पृथक सर्वे परज्ञया ते सवया सवया ॥ 3 ॥

  4. सर्वॊ हि मन्यते लॊक आत्मानं बुद्धिमत्तरम सर्वस्यात्मा बहुमतः सर्वात्मानं परशंसति ॥ 4 ॥

  5. सर्वस्य हि सवका परज्ञा साधुवादे परतिष्ठिता परबुद्धिं च निन्दन्ति सवां परशंसन्ति चासकृत ॥ 5 ॥

  6. कारणान्तर यॊगेन यॊगे येषां समा मतिः ते ऽनयॊन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत ॥ 6 ॥

  7. तस्यैव तु मनुष्यस्य सा सा बुद्धिस तदा तदा कालयॊगविपर्यासं पराप्यान्यॊन्यं विपद्यते ॥ 7 ॥

  8. अचिन्त्यत्वाद धि चित्तानां मनुष्याणां विशेषतः चित्तवैकल्यम आसाद्य सा सा बुद्धिः परजायते ॥ 8 ॥

  9. यथा हि वैद्यः कुशलॊ जञात्वा वयाधिं यथाविधि भेषजं कुरुते यॊगात परशमार्थम इहाभिभॊ ॥ 9 ॥

  10. एवं कार्यस्य यॊगार्थं बुद्धिं कुर्वन्ति मानवाः परज्ञया हि सवया युक्तास तां च निन्दति मानवाः ॥ 10 ॥

  11. अन्यया यौवने मर्त्यॊ बुद्ध्या भवति मॊहितः मध्ये ऽनयया जरायां तु सॊ ऽनयां रॊचयते मतिम ॥ 11 ॥

  12. वयसनं वा पुनर घॊरं समृद्धिं वापि तादृशीम अवाप्य पुरुषॊ भॊज कुरुते बुद्धिवैकृतम ॥ 12 ॥

  13. एकस्मिन्न एव पुरुषे सा सा बुद्धिस तदा तदा भवत्य अनित्य परज्ञत्वात सा तस्यैव न रॊचते ॥ 13 ॥

  14. निश्चित्य तु यथा परज्ञं यां मतिं साधु पश्यति तस्यां परकुरुते भावं सा तस्यॊद्यॊग कारिका ॥ 14 ॥

  15. सर्वॊ हि पुरुषॊ भॊज साध्व एतद इति निश्चितः कर्तुम आरभते परीतॊ मरणादिषु कर्मसु ॥ 15 ॥

  16. सर्वे हि युक्तिं विज्ञाय परज्ञां चापि सवकां नराः चेष्टन्ते विविधाश चेष्टा हितम इत्य एव जानते ॥ 16 ॥

  17. उपजाता वयसनजा येयम अद्य मतिर मम युवयॊस तां परवक्ष्यामि मम शॊकविनाशिनीम ॥ 17 ॥

  18. परजापतिः परजाः सृष्ट्वा कर्म तासु विधाय च वर्णे वर्णे समाद्धत्त एकैकं गुणवत्तरम ॥ 18 ॥

  19. बराह्मणे दमम अव्यग्रं कषत्रिये तेज उत्तमम दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम ॥ 19 ॥

  20. अदान्तॊ बराह्मणॊ ऽसाधुर निस्तेजाः कषत्रियॊ ऽधमः अदक्षॊ निन्द्यते वैश्यः शूद्रश च परतिकूलवान ॥ 20 ॥

  21. सॊ ऽसमि जातः कुले शरेष्ठे बराह्मणानां सुपूजिते मन्दभाग्यतयास्म्य एतं कषत्रधर्मम अनु षठितः ॥ 21 ॥

  22. कषत्रधर्मं विदित्वाहं यदि बराह्मण्य असंश्रितम परकुर्यां सुमहत कर्म न मे तत साधु संमतम ॥ 22 ॥

  23. धारयित्वा धनुर विद्यं दिव्यान्य अस्त्राणि चाहवे पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि ॥ 23 ॥

  24. सॊ ऽहम अद्य यथाकामं कषत्रधर्मम उपास्य तम गन्तास्मि पदवीं राज्ञः पितुश चापि महाद्युतेः ॥ 24 ॥

  25. अद्य सवप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः विमुक्तयुग्य कवचा हर्षेण च समन्विताः वयं जिता मताश चैषां शरान्ता वयायम अनेन च ॥ 25 ॥

  26. तेषां निशि परसुप्तानां सवस्थानां शिबिरे सवके अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम ॥ 26 ॥

  27. तान अवस्कन्द्य शिबिरे परेतभूतान विचेतसः सूदयिष्यामि विक्रम्य मघवान इव दानवान ॥ 27 ॥

  28. अद्य तान सहितान सर्वान धृष्टद्युम्नपुरॊगमान सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः निहत्य चैव पाञ्चालाञ शान्तिं लब्धास्मि सत्तम ॥ 28 ॥

  29. पाञ्चालेषु चरिष्यामि सूदयन्न अद्य संयुगे पिनाक पाणिः संक्रुद्धः सवयं रुद्रः पशुष्व इव ॥ 29 ॥

  30. अद्याहं सर्वपाञ्चालान निहत्य च निकृत्य च अर्दयिष्यामि संक्रुद्धॊ रणे पाण्डुसुतांस तथा ॥ 30 ॥

  31. अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम परहृत्यैकैकशस तेभ्यॊ भविष्याम्य अनृणः पितुः ॥ 31 ॥

  32. दुर्यॊधनस्य कर्णस्य भीष्म सैन्धवयॊर अपि गमयिष्यामि पाञ्चालान पदवीम अद्य दुर्गमाम ॥ 32 ॥

  33. अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि विरात्रे परमथिष्यामि पशॊर इव शिरॊ बलात ॥ 33 ॥

  34. अद्य पाञ्चाल पाण्डूनां शयितान आत्मजान निशि खड्गेन निशितेनाजौ परमथिष्यामि गौतम ॥ 34 ॥

  35. अद्य पाञ्चाल सेनां तां निहत्य निशि सौप्तिके कृतकृत्यः सुखी चैव भविष्यामि महामते ॥ 35 ॥

Reach this point to mark the section finished.

Continue to अध्याय 4

Previous: अध्याय 2