धर्मDharmic Data

सौप्तिकपर्व · Sauptika Parva

अध्याय 2

  1. [कृप] शरुतं ते वचनं सर्वं हेतुयुक्तं मया विभॊ ममापि तु वचः किं चिच छृणुष्वाद्य महाभुज ॥ 1 ॥

  2. आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणॊर दवयॊः दैवे पुरुषकारे च परं ताभ्यां न विद्यते ॥ 2 ॥

  3. न हि दैवेन सिध्यन्ति कर्माण्य एकेन सत्तम न चापि कर्मणैकेन दवाभ्यां सिद्धिस तु यॊगतः ॥ 3 ॥

  4. ताभ्याम उभाभ्यां सर्वार्था निबद्धा हय अधमॊत्तमाः परवृत्ताश चैव दृश्यन्ते निवृत्ताश चैव सर्वशः ॥ 4 ॥

  5. पर्जन्यः पर्वते वर्षन किं नु साधयते फलम कृष्टे कषत्रे तथावर्षन किं नु साधयते फलम ॥ 5 ॥

  6. उत्थानं चाप्य अदैवस्य हय अनुत्थानस्य दैवतम वयर्थं भवति सर्वत्र पूर्वं कस तत्र निश्चयः ॥ 6 ॥

  7. परवृष्टे च यथा देवे सम्यक कषेत्रे च कर्षिते बीजं महागुणं भूयात तथा सिद्धिर हि मानुषी ॥ 7 ॥

  8. तयॊर दैवं विनिश्चित्य सववशेनैव वर्तते पराज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यम आस्थिताः ॥ 8 ॥

  9. ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ विचेष्टन्तश च दृश्यन्ते निवृत्ताश च तथैव हि ॥ 9 ॥

  10. कृतः पुरुषकारः सन सॊ ऽपि दैवेन सिध्यति तथास्य कर्मणः कर्तुर अभिनिर्वर्तते फलम ॥ 10 ॥

  11. उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम अफलं दृश्यते लॊके सम्यग अप्य उपपादितम ॥ 11 ॥

  12. तत्रालसा मनुष्याणां ये भवन्त्य अमनस्विनः उत्थानं ते विगर्हन्ति पराज्ञानां तन न रॊचते ॥ 12 ॥

  13. परायशॊ हि कृतं कर्म अफलं दृश्यते भुवि अकृत्वा च पुनर दुःखं कर्म दृश्येन महाफलम ॥ 13 ॥

  14. चेष्टाम अकुर्वँल लभते यदि किं चिद यदृच्छया यॊ वा न लभते कृत्वा दुर्दशौ ताव उभाव अपि ॥ 14 ॥

  15. शक्नॊति जीवितुं दक्षॊ नालसः सुखम एधते दृश्यन्ते जीवलॊके ऽसमिन दक्षाः परायॊ हितैषिणः ॥ 15 ॥

  16. यदि दक्षः समारम्भात कर्मणां नाश्नुते फलम नास्य वाच्यं भवेत किं चित तत्त्वं चाप्य अधिगच्छति ॥ 16 ॥

  17. अकृत्वा कर्म यॊ लॊके फलं विन्दति विष्ठितः स तु वक्तव्यतां याति दवेष्यॊ भवति परायशः ॥ 17 ॥

  18. एवम एतद अनादृत्य वर्तते यस तव अतॊ ऽनयथा स करॊत्य आत्मनॊ ऽनर्थान नैष बुद्धिमतां नयः ॥ 18 ॥

  19. हीनं पुरुषकारेण यदा दैवेन वा पुनः कारणाभ्याम अथैताभ्याम उत्थानम अफलं भवेत हीनं पुरुषकारेण कर्म तव इह न सिध्यति ॥ 19 ॥

  20. दैवतेभ्यॊ नमस्कृत्य यस तव अर्थान सम्यग ईहते दक्षॊ दाक्षिण्यसंपन्नॊ न स मॊघं विहन्यते ॥ 20 ॥

  21. सम्यग ईहा पुनर इयं यॊ वृद्धान उपसेवते आपृच्छति च यच छरेयः करॊति च हितं वचः ॥ 21 ॥

  22. उत्थायॊत्थाय हि सदा परष्टव्या वृद्धसंमताः ते ऽसय यॊगे परं मूलं तन मूला सिद्धिर उच्यते ॥ 22 ॥

  23. वृद्धानां वचनं शरुत्वा यॊ हय उत्थानं परयॊजयेत उत्थानस्य फलं सम्यक तदा स लभते ऽचिरात ॥ 23 ॥

  24. रागात करॊधाद भयाल लॊभाद यॊ ऽरथान ईहेत मानवः अनीशश चावमानीच स शीघ्रं भरश्यते शरियः ॥ 24 ॥

  25. सॊ ऽयं दुर्यॊधनेनार्थॊ लुब्धेनादीर्घ दर्शिना असमर्थ्य समारब्धॊ मूढत्वाद अविचिन्तितः ॥ 25 ॥

  26. हितबुद्धीन अनादृत्य संमन्त्र्यासाधुभिः सह वार्यमाणॊ ऽकरॊद वैरं पाण्डवैर गुणवत्तरैः ॥ 26 ॥

  27. पूर्वम अप्य अतिदुःशीलॊ न दैन्यं कर्तुम अर्हति तपत्य अर्थे विपन्ने हि मित्राणाम अकृतं वचः ॥ 27 ॥

  28. अन्वावर्तामहि वयं यत तु तं पापपूरुषम अस्मान अप्य अनयस तस्मात पराप्तॊ ऽयं दारुणॊ महान ॥ 28 ॥

  29. अनेन तु ममाद्यापि वयसनेनॊपतापिता बुद्धिश चिन्तयतः किं चित सवं शरेयॊ नावबुध्यते ॥ 29 ॥

  30. मुह्यता तु मनुष्येण परष्टव्याः सुहृदॊ बुधाः ते च पृष्टा यथा बरूयुस तत कर्तव्यं तथा भवेत ॥ 30 ॥

  31. ते वयं धृतराष्ट्रं च गान्धारीं च समेत्य ह उपपृच्छामहे गत्वा विदुरं च महामतिम ॥ 31 ॥

  32. ते पृष्टाश च वदेयुर यच छरेयॊ नः समनन्तरम तद अस्माभिः पुनः कार्यम इति मे नैष्ठिकी मतिः ॥ 32 ॥

  33. अनारम्भात तु कार्याणां नार्थसंपद्यते कव चित कृते पुरुषकारे च येषां कार्यं न सिध्यति दैवेनॊपहतास ते तु नात्र कार्या विचारणा ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 3

Previous: अध्याय 1