धर्मDharmic Data

सौप्तिकपर्व · Sauptika Parva

अध्याय 15

  1. [व] दृष्ट्वैव नरशार्दूलस ताव अग्निसमतेजसौ संजहार शरं दिव्यं तवरमाणॊ धनंजयः ॥ 1 ॥

  2. उवाच वदतां शरेष्ठस ताव ऋषी पराञ्जलिस तदा परयुक्तम अस्त्रम अस्त्रेण शाम्यताम इति वै मया ॥ 2 ॥

  3. संहृते परमास्त्रे ऽसमिन सर्वान अस्मान अशेषतः पापकर्मा धरुवं दरौणिः परधक्ष्यत्य अस्त्रतेजसा ॥ 3 ॥

  4. अत्र यद धितम अस्माकं लॊकानां चैव सर्वथा भवन्तौ देवसंकाशौ तथा संहर्तुम अर्हतः ॥ 4 ॥

  5. इत्य उक्त्वा संजहारास्त्रं पुनर एव धनंजयः संहारॊ दुष्करस तस्य देवैर अपि हि संयुगे ॥ 5 ॥

  6. विसृष्टस्य रणे तस्य परमास्त्रस्य संग्रहे न शक्तः पाण्डवाद अन्यः साक्षाद अपि शतक्रतुः ॥ 6 ॥

  7. बरह्मतेजॊ भवं तद धि विसृष्टम अकृतात्मना न शक्यम आवर्तयितुं बरह्म चारि वरताद ऋते ॥ 7 ॥

  8. अचीर्ण बरह्मचर्यॊ यः सृष्ट्वावर्तयते पुनः तद अस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति ॥ 8 ॥

  9. बरह्म चारी वरती चापि दुरवापम अवाप्य तत परमव्यसनार्तॊ ऽपि नार्जुनॊ ऽसत्रं वयमुञ्चत ॥ 9 ॥

  10. सत्यव्रतधरः शूरॊ बरह्म चारी च पाण्डवः गुरुवर्ती च तेनास्त्रं संजहारार्जुनः पुनः ॥ 10 ॥

  11. दरौणिर अप्य अथ संप्रेक्ष्य ताव ऋषी पुरतः सथितौ न शशाक पुनर घॊरम अस्त्रं संहर्तुम आहवे ॥ 11 ॥

  12. अशक्तः परतिसंहारे परमास्त्रस्य संयुगे दरौणिर दीनमना राजन दवैपायनम अभाषत ॥ 12 ॥

  13. उक्तम अव्यसनार्तेन पराणत्राणम अभीप्सुना मयैतद अस्त्रम उत्सृष्टं भीमसेन भयान मुने ॥ 13 ॥

  14. अधर्मश च कृतॊ ऽनेन धार्तराष्ट्रं जिघांसता मिथ्याचारेण भगवन भीमसेनेन संयुगे ॥ 14 ॥

  15. अतः सृष्टम इदं बरह्मन मयास्त्रम अकृतात्मना तस्य भूयॊ ऽदय संहारं कर्तुं नाहम इहॊत्सहे ॥ 15 ॥

  16. विसृष्टं हि मया दिव्यम एतद अस्त्रं दुरासदम अपाण्डवायेति मुने वह्नि तेजॊ ऽनुमन्त्र्य वै ॥ 16 ॥

  17. तद इदं पाण्डवेयानाम अन्तकायाभिसंहितम अद्य पाण्डुसुतान सर्वाञ जीविताद भरंशयिष्यति ॥ 17 ॥

  18. कृतं पापम इदं बरह्मन रॊषाविष्टेन चेतसा वधम आशास्य पार्थानां मयास्त्रं सृजता रणे ॥ 18 ॥

  19. [व] अस्त्रं बरह्मशिरस तात विद्वान पार्थॊ धनंजयः उत्सृष्टवान न रॊषेण न वधाय तवाहवे ॥ 19 ॥

  20. अस्त्रम अस्त्रेण तु रणे तव संशमयिष्यता विसृष्टम अर्जुनेनेदं पुनश च परतिसंहृतम ॥ 20 ॥

  21. बरह्मास्त्रम अप्य अवाप्यैतद उपदेशात पितुस तव कषत्रधर्मान महाबाहुर नाकम्पत धनंजयः ॥ 21 ॥

  22. एवं धृतिमतः साधॊः सर्वास्त्रविदुषः सतः सभ्रातृबन्धॊः कस्मात तवं वधम अस्य चिकीर्षसि ॥ 22 ॥

  23. अस्त्रं बरह्मशिरॊ यत्र परमास्त्रेण वध्यते समा दवादश पर्जन्यस तद राष्ट्रं नाभिवर्षति ॥ 23 ॥

  24. एतदर्थं महाबाहुः शक्तिमान अपि पाण्डवः न विहन्त्य एतद अस्त्रं ते परजाहितचिकीर्षया ॥ 24 ॥

  25. पाण्डवास तवं च राष्ट्रं च सदा संरक्ष्यम एव नः तस्मात संहर दिव्यं तवम अस्त्रम एतन महाभुज ॥ 25 ॥

  26. अरॊषस तव चैवास्तु पार्थाः सन्तु निरामयाः न हय अधर्मेण राजर्षिः पाण्डवॊ जेतुम इच्छति ॥ 26 ॥

  27. मणिं चैतं परयच्छैभ्यॊ यस ते शिरसि तिष्ठति एतद आदाय ते पराणान परतिदास्यन्ति पाण्डवाः ॥ 27 ॥

  28. [दरौडि] पाण्डवैर यानि रत्नानि यच चान्यत कौरवैर धनम अवाप्तानीह तेभ्यॊ ऽयं मणिर मम विशिष्यते ॥ 28 ॥

  29. यम आबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम देवेभ्यॊ दानवेभ्यॊ वा नागेभ्यॊ वा कथं चन ॥ 29 ॥

  30. न च रक्षॊगणभयं न तस्कर भयं तथा एवं वीर्यॊ मणिर अयं न मे तयाज्यः कथं चन ॥ 30 ॥

  31. यत तु मे भगवान आह तन मे कार्यम अनन्तरम अयं मणिर अयं चाहम इषीका निपतिष्यति गर्भेषु पाण्डवेयानाम अमॊघं चैतद उद्यतम ॥ 31 ॥

  32. [व] एवं कुरु न चान्या ते बुद्धिः कार्या कदा चन गर्भेषु पाण्डवेयानां विसृज्यैतद उपारम ॥ 32 ॥

  33. [व] ततः परमम अस्त्रं तद अश्वत्थामा भृशातुरः दवैपायन वचः शरुत्वा गर्भेषु परमुमॊच ह ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 16

Previous: अध्याय 14