[व] इङ्गितेनैव दाशार्हस तम अभिप्रायम आदितः दरौणेर बुद्ध्वा महाबाहुर अर्जुनं परत्यभाषत ॥ 1 ॥
अर्जुनार्जुन यद दिव्यम अस्त्रं ते हृदि वर्तते दरॊपॊपदिष्टं तस्यायं कालः संप्रति पाण्डव ॥ 2 ॥
भरातॄणाम आत्मनश चैव परित्राणाय भारत विसृजैतत तवम अप्य आजाव अस्त्रम अस्त्रनिवारणम ॥ 3 ॥
केशवेनैवम उक्तस तु पाण्डवः परवीरहा अवातरद रथात तूर्णं परगृह्य सशरं धनुः ॥ 4 ॥
पूर्वम आचार्य पुत्राय ततॊ ऽनन्तरम आत्मने भरातृभ्यश चैव सर्वेभ्यः सवस्तीत्य उक्त्वा परंतपः ॥ 5 ॥
देवताभ्यॊ नमस्कृत्य गुरुभ्यश चेव सर्वशः उत्ससर्ज शिवं धयायन्न अस्त्रम अस्त्रेण शाम्यताम ॥ 6 ॥
ततस तद अस्त्रं सहसा सृष्टं गाण्डीवधन्वना परजज्वाल महार्चिष्मद युगान्तानल संनिभम ॥ 7 ॥
तथैव दरॊणपुत्रस्य तद अस्त्रं तिग्मतेजसः परजज्वाल महाज्वालं तेजॊ मण्डलसंवृतम ॥ 8 ॥
निर्घाता बहवश चासन पेतुर उल्काः सहस्रशः महद भयं च भूतानां सर्वेषां समजायत ॥ 9 ॥
सशब्दम अभवद वयॊम जवालामाला कुलं भृशम चचाल च महीकृत्स्ना सपर्वतवनद्रुमा ॥ 10 ॥
ते अस्त्रे तेजसा लॊकांस तापयन्ती वयवस्थिते महर्षी सहितौ तत्र दर्शयाम आसतुस तदा ॥ 11 ॥
नारदः स च धर्मात्मा भरतानां पितामहः उभौ शमयितुं वीरौ भारद्वाज धनंजयौ ॥ 12 ॥
तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैषिणौ दीप्तयॊर अस्त्रयॊर मध्ये सथितौ परमतेजसौ ॥ 13 ॥
तदन्तरम अनाधृष्याव उपगम्य यशस्विनौ आस्ताम ऋषिवरौ तत्र जवलिताव इव पावकौ ॥ 14 ॥
पराणभृद्भिर अनाधृष्यौ देवदानव संमतौ अस्त्रतेजः शमयितुं लॊकानां हितकाम्यया ॥ 15 ॥
[रसी] नानाशस्त्रविदः पूर्वे ये ऽपय अतीता महारथाः नैतद अस्त्रं मनुष्येषु तैः परयुक्तं कथं चन ॥ 16 ॥
सौप्तिकपर्व · Sauptika Parva
अध्याय 14
Reach this point to mark the section finished.
Continue to अध्याय 15