[व] एवम उक्त्वा युधां शरेष्ठः सर्वयादवनन्दनः सर्वायुधवरॊपेतम आरुरॊह महारथम युक्तं परमकाम्बॊजैस तुरगैर हेममालिभिः ॥ 1 ॥
आदित्यॊदयवर्णस्य दुरं रथवरस्य तु दक्षिणाम अवहत सैन्यः सुग्रीवः सव्यतॊ ऽवहत पार्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ ॥ 2 ॥
विश्वकर्म कृता दिव्या नानारत्नविभूषिता उच्छ्रितेव रथे माया धवजयष्टिर अदृश्यत ॥ 3 ॥
वैनतेयः सथितस तस्यां परभा मण्डलरश्मिवान तस्य सत्यवतः केतुर भुजगारिर अदृश्यत ॥ 4 ॥
अन्वारॊहद द धृषीकेशः केतुः सर्वधनुष्मताम अर्जुनः सत्यकर्मा च कुरुराजॊ युधिष्ठिरः ॥ 5 ॥
अशॊभेतां महात्मानौ दाशार्हम अभितः सथितौ रथस्थं शार्ङ्गधन्वानम अश्विनाव इव वासवम ॥ 6 ॥
ताव उपारॊप्य दाशार्हः सयन्दनं लॊकपूजितम परतॊदेन जवॊपेतान परमाश्वान अचॊदयत ॥ 7 ॥
ते हयाः सहसॊत्पेतुर गृहीत्वा सयन्दनॊत्तमम आस्थितं पाण्डवेयाभ्यां यदूनाम ऋषभेण च ॥ 8 ॥
वहतां शार्ङ्गधन्वानम अश्वानां शीघ्रगामिनाम परादुरासीन महाञ शब्दः पक्षिणां पतताम इव ॥ 9 ॥
ते समार्छन नरव्याघ्राः कषणेन भरतर्षभ भीमसेनं महेष्वासं समनुद्रुत्य वेगिताः ॥ 10 ॥
करॊधदीप्तं तु कौन्तेयं दविषद अर्थे समुद्यतम नाशक्नुवन वारयितुं समेत्यापि महारथाः ॥ 11 ॥
स तेषां परेक्षताम एव शरीमतां दृढधन्विनाम ययौ भागिरथी कच्छं हरिभिर भृशवेगितैः यत्र सम शरूयते दरौणिः पुत्र हन्ता महात्मनाम ॥ 12 ॥
स ददर्श महात्मानम उदकान्ते यशस्विनम कृष्णद्वैपायनं वयासम आसीनम ऋषिभिः सह ॥ 13 ॥
तं चैव करूरकर्माणं घृताक्तं कुशचीरिणम रजसा धवस्तकेशान्तं ददर्श दरौणिम अन्तिके ॥ 14 ॥
तम अभ्यधावत कौन्तेयः परगृह्य सशरं धनुः भीमसेनॊ महाबाहुस तिष्ठ तिष्ठेति चाब्रवीत ॥ 15 ॥
स दृष्ट्वा भीमधन्वानं परगृहीतशरासनम भरातरौ पृष्ठतश चास्य जनार्दन रथे सथितौ वयथितात्माभवद दरौणिः पराप्तं चेदम अमन्यत ॥ 16 ॥
स तद दिव्यम अदीनात्मा परमास्त्रम अचिन्तयत जग्राह च स चैषीकां दरौणिः सव्येन पाणिना स ताम आपदम आसाद्य विद्यम अस्त्रम उदीरयत ॥ 17 ॥
अमृष्यमाणस ताञ शूरान दिव्यायुध धरान सथितान अपाण्ड्दवायेति रुषा वयसृजद दारुणं वचः ॥ 18 ॥
इत्य उक्त्वा राजशार्दूल दरॊणपुत्रः परतापवान सर्वलॊकप्रमॊहार्थं तद अस्त्रं परमुमॊच ह ॥ 19 ॥
ततस तस्याम इषीकायां पावकः समजायत परधक्ष्यन्न इव लॊकांस तरीन कालान्तकयमॊपमः ॥ 20 ॥
सौप्तिकपर्व · Sauptika Parva
अध्याय 13
Reach this point to mark the section finished.
Continue to अध्याय 14