[व] तस्मिन परयाते दुर्धर्षे यदूनाम ऋषभस ततः अब्रवीत पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम ॥ 1 ॥
एष पाण्डव ते भराता पुत्रशॊकम अपारयन जिघांसुर दरौणिम आक्रन्दे याति भारत भारतः ॥ 2 ॥
भीमः परियस ते सर्वेभ्यॊ भरातृभ्यॊ भरतर्षभ तं कृच्छ्रगतम अद्य तवं कस्मान नाभ्यवपद्यसे ॥ 3 ॥
यत तद आचष्ट पुत्राय दरॊणः परपुरंजयः अस्त्रं बरह्मशिरॊ नाम दहेद यत पृथिवीम अपि ॥ 4 ॥
तन महात्मा महाभागः केतुः सर्वधनुष्मताम परत्यपादयद आचार्यः परीयमाणॊ धनंजयम ॥ 5 ॥
तत पुत्रॊ ऽसयैवम एवैनम अन्वयाचद अमर्षणः ततः परॊवाच पुत्राय नातिहृष्टमना इव ॥ 6 ॥
विदितं चापलं हय आसीद आत्मजस्य महात्मनः सर्वधर्मविद आचार्यॊ नान्विषत सततं सुतम ॥ 7 ॥
परमापद गतेनापि न सम तात तवया रणे इदम अस्त्रं परयॊक्तव्यं मानुषेषु विशेषतः ॥ 8 ॥
इत्य उक्तवान गुरुः पुत्रं दरॊणः पश्चाद अथॊक्तवान न तवं जातु सतां मार्गे सथातेति पुरुषर्षभ ॥ 9 ॥
स तद आज्ञाय दुष्टात्मा पितुर वचनम अप्रियम निराशः सर्वकल्याणैः शॊचन पर्यपतन महीम ॥ 10 ॥
ततस तदा कुरुश्रेष्ठ वनस्थे तवयि भारत अवसद दवारकाम एत्य वृष्णिभिः परमार्चितः ॥ 11 ॥
स कदा चित समुद्रान्ते वसन दरारवतीम अनु एक एकं समागम्य माम उवाच हसन्न इव ॥ 12 ॥
यत तद उग्रं तपः कृष्ण चरन सत्यपराक्रमः अगस्याद भारताचार्यः परत्यपद्यत मे पिता ॥ 13 ॥
अस्त्रं बरह्मशिरॊ नाम देवगन्धर्वपूजितम तद अद्य मयि दाशार्ह यथा पितरि मे तथा ॥ 14 ॥
अस्मत्तस तद उपादाय विद्यम अस्त्रं यदूत्तम ममाप्य अस्त्रं परयच्छ तवं चक्रं रिपुहरं रणे ॥ 15 ॥
स राजन परीयमाणेन मयाप्य उक्तः कृताञ्जलिः याचमानः परयत्नेन मत्तॊ ऽसत्रं भरतर्षभ ॥ 16 ॥
देवदानवगन्धर्वमनुष्यपतगॊरगाः न समा मम वीर्यस्य शतांशेनापि पिण्डिताः ॥ 17 ॥
इदं धनुर इयं शक्तिर इदं चक्रम इयं गदा यद यद इच्छसि चेद अस्त्रं मत्तस तत तद ददानि ते ॥ 18 ॥
यच छक्नॊषि समुद्यन्तुं परयॊक्तुम अपि वा रणे तद्गृहाण विनास्त्रेण यन मे दातुम अभीप्ससि ॥ 19 ॥
स सुनाभं सहस्रारं वज्रनाभम अयस्मयम वव्रे चक्रं महाबाहॊ सपर्धमानॊ मया सह ॥ 20 ॥
गृहाण चक्रम इत्य उक्तॊ मया तु तदनन्तरम जग्राहॊपेत्य सहसा चक्रं सव्येन पाणिना न चैतद अशकत सथानात संचालयितुम अच्युत ॥ 21 ॥
अथ तद दक्षिणेनापि गरहीतुम उपचक्रमे सर्वयत्नेन तेनापि गृह्णन्न एतद अकल्पयत ॥ 22 ॥
ततः सर्वबलेनापि यच चैतन न शशाक सः उद्धर्तुं वा चालयितुं दरौणिः परमदुर्मनाः कृत्वा यत्नं परं शरान्तः स नयवर्तत भारत ॥ 23 ॥
निवृत्तम अथ तं तस्माद अभिप्रायाद विचेतसम अहम आमन्त्र्य सुस्निग्धम अश्वत्थामानम अब्रुवम ॥ 24 ॥
यः स देवमनुष्येषु परमाणं परमं गतः गाण्डीवधन्वा शवेताश्वः कपिप्रवर केतनः ॥ 25 ॥
यः साक्षाद देवदेवेशं शितिकण्ठम उमापतिम दवंद्व युद्धे पराजिष्णुस तॊषयाम आस शंकरम ॥ 26 ॥
यस्मात परियतरॊ नास्ति ममान्यः पुरुषॊ भुवि नादेयं यस्य मे किं चिद अपि दाराः सुतास तथा ॥ 27 ॥
तेनापि सुहृदा बरह्मन पार्थेनाक्लिष्ट कर्मणा नॊक्तपुर्वम इदं वाक्यं यत तवं माम अभिभाषसे ॥ 28 ॥
बरह्मचर्यं महद घॊरं चीर्त्वा दवादश वार्षिकम हिमवत्पार्श्वम अभ्येत्य यॊ मया तपसार्चितः ॥ 29 ॥
समानव्रतचारिण्यां रुक्मिण्यां यॊ ऽनवजायत सनत्कुमारस तेजस्वी परद्युम्नॊ नाम मे सुतः ॥ 30 ॥
तेनाप्य एतन महद दिव्यं चक्रम अप्रतिमं मम न परार्थितम अभून मूढ यद इदं परार्थितं तवया ॥ 31 ॥
रामेणातिबलेनैतन नॊक्तपूर्वं कदा चन न गदेन न साम्बेन यद इदं परार्थितं तवया ॥ 32 ॥
दवारकावासिभिश चान्यैर वृष्ण्यन्धकमहारथैः नॊक्तपूर्वम इदं जातु यद इदं परार्थितं तवया ॥ 33 ॥
भारताचार्य पुत्रः सन मानितः सर्वयादवैः चक्रेण रथिनां शरेष्ठ किं नु तात युयुत्ससे ॥ 34 ॥
एवम उक्तॊ मया दरौणिर माम इदं परत्युवाच ह परयुज्य भवते पूजां यॊत्स्ये कृष्ण तवयेत्य उत ॥ 35 ॥
ततस ते परार्थितं चक्रं देवदानव पूजितम अजेयः सयाम इति विभॊ सत्यम एतद बरवीमि ते ॥ 36 ॥
तवत्तॊ ऽयं दुर्लभं कामम अनवाप्यैव केशव परतियास्यामि गॊविन्द शिवेनाभिवदस्व माम ॥ 37 ॥
एतत सुनाभं वृष्णीनाम ऋषभेण तवया धृतम चक्रम अप्रतिचक्रेण भुवि नान्यॊ ऽभिपद्यते ॥ 38 ॥
एतावद उक्त्वा दरौणिर मां युग्मम अश्वान धनानि च आदायॊपययौ बालॊ रत्नानि विविधानि च ॥ 39 ॥
स संरम्भी दुरात्मा च चपलः करूर एव च वेद चास्त्रं बरह्मशिरस तस्माद रक्ष्यॊ वृकॊदरः ॥ 40 ॥
सौप्तिकपर्व · Sauptika Parva
अध्याय 12
Reach this point to mark the section finished.
Continue to अध्याय 13