धर्मDharmic Data

सौप्तिकपर्व · Sauptika Parva

अध्याय 11

  1. [व] स दृष्ट्वा निहतान संख्ये पुत्रान भरातॄन सखींस तथा महादुःखपरीतात्मा बभूव जनमेजय ॥ 1 ॥

  2. ततस तस्य महाञ शॊकः परादुरासीन महात्मनः समरतः पुत्रपौत्राणां भरातॄणां सवजनस्य ह ॥ 2 ॥

  3. तम अश्रुपरिपूर्णाक्षं वेपमानम अचेतसम सुहृदॊ भृशसंविग्नाः सान्त्वयां चक्रिरे तदा ॥ 3 ॥

  4. ततस तस्मिन कषणे काल्ये रथेनादित्यवर्चसा नकुलः कृष्णया सार्धम उपायात परमार्तया ॥ 4 ॥

  5. उपप्लव्य गता सा तु शरुत्वा सुमहद अप्रियम तदा विनाशं पुत्राणां सर्वेषां वयथिताभवत ॥ 5 ॥

  6. कम्पमानेव कदली वातेनाभिसमीरिता कृष्णा राजानम आसाद्य शॊकार्ता नयपतद भुवि ॥ 6 ॥

  7. बभूव वदनं तस्याः सहसा शॊककर्शितम फुल्लपद्मपलाशाक्ष्यास तमॊ धवस्त इवांशुमान ॥ 7 ॥

  8. ततस तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः बाहुभ्यां परिजग्राह समुपेत्य वृकॊदरः ॥ 8 ॥

  9. सा समाश्वासिता तेन भीमसेनेन भामिनी रुदती पाण्डवं कृष्णा सह भरातरम अब्रवीत ॥ 9 ॥

  10. दिष्ट्या राजंस तवम अद्येमाम अखिलां भॊक्ष्यसे महीम आत्मजान कषत्रधर्मेण संप्रदाय यमाय वै ॥ 10 ॥

  11. दिष्ट्या तवं पार्थ कुशली मत्तमातङ्गगामिनम अवाप्य पृथिवीं कृत्स्नां सौभद्रं न समरिष्यसि ॥ 11 ॥

  12. आत्मजांस तेन धर्मेण शरुत्वा शूरान निपातितान उपप्लव्ये मया सार्धं दिष्ट्या तवं न समरिष्यसि ॥ 12 ॥

  13. परसुप्तानां वधं शरुत्वा दरौणिना पापकर्मणा शॊकस तपति मां पार्थ हुताशन इवाशयम ॥ 13 ॥

  14. तस्य पापकृतॊ दरौणेर न चेद अद्य तवया मृधे हरियते सानुबन्धस्य युधि विक्रम्य जीवितम ॥ 14 ॥

  15. इहैव परायम आसिष्ये तन निबॊधत पाण्डवाः न चेत फलम अवाप्नॊति दरौणिः पापस्य कर्मणः ॥ 15 ॥

  16. एवम उक्त्वा ततः कृष्णा पाण्डवं परत्युपाविशत युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी ॥ 16 ॥

  17. दृष्ट्वॊपविष्टां राजर्षिः पाण्डवॊ महिषीं परियाम परत्युवाच स धर्मात्मा दरौपदीं चारुदर्शनाम ॥ 17 ॥

  18. धर्म्यं धर्मेण धर्मज्ञे पराप्तास ते निधनं शुभे पुत्रास ते भरातरश चैव तान न शॊचितुम अर्हसि ॥ 18 ॥

  19. दरॊणपुत्रः स कल्याणि वनं दूरम इतॊ गतः तस्य तवं पातनं संख्ये कथं जञास्यसि शॊभने ॥ 19 ॥

  20. [दरौ] दरॊणपुत्रस्य सहजॊ मणिः शिरसि मे शरुतः निहत्य संख्ये तं पापं पश्येयं मणिम आहृतम राजञ शिरसि तं कृत्वा जीवेयम इति मे मतिः ॥ 20 ॥

  21. [व] इत्य उक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना भीमसेनम अथाभ्येत्य कुपिता वाक्यम अब्रवीत ॥ 21 ॥

  22. तरातुम अर्हसि मां भीमक्षत्रधर्मम अनुस्मरन जहि तं पापकर्माणं शम्बरं मघवान इव न हि ते विक्रमे तुल्यः पुमान अस्तीह कश चन ॥ 22 ॥

  23. शरुतं तत सर्वलॊकेषु परमव्यसने यथा दवीपॊ ऽभूस तवं हि पार्थानां नगरे वारणावते हिडिम्बदर्शने चैव तथा तवम अभवॊ गतिः ॥ 23 ॥

  24. तथा विराटनगरे कीचकेन भृशार्दिताम माम अप्य उद्धृतवान कृच्छ्रात पौलॊमीं मघवान इव ॥ 24 ॥

  25. यथैतान्य अकृथाः पार्थ महाकर्माणि वै पुरा तथा दरौणिम अमित्रघ्न विनिहत्य सुखी भव ॥ 25 ॥

  26. तस्या बहुविधं दुःखान निशम्य परिदेवितम नामर्षयत कौन्तेयॊ भीमसेनॊ महाबलः ॥ 26 ॥

  27. स काञ्चनविचित्राङ्गम आरुरॊह महारथम आदाय रुचिरं चित्रं समार्गण गुणं धनुः ॥ 27 ॥

  28. नकुलं सारथिं कृत्वा दरॊणपुत्र वधे वृतः विस्फार्य सशरं चापं तूर्णम अश्वान अचॊदयत ॥ 28 ॥

  29. ते हयाः पुरुषव्याघ्र चॊदिता वातरंहसः वेगेन तवरिता जग्मुर हरयः शीघ्रगामिनः ॥ 29 ॥

  30. शिबिरात सवाद गृहीत्वा स रथस्य पदम अच्युतः दरॊणपुत्र रथस्याशु ययौ मार्गेण वीर्यवान ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 12

Previous: अध्याय 10