[भस] पुनर भरत वंशस्य हेतुं संतानवृद्धये वक्ष्यामि नियतं मातस तन मे निगदतः शृणु ॥ 1 ॥
बराह्मणॊ गुणवान कश चिद धनेनॊपनिमन्त्र्यताम विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत परजाः ॥ 2 ॥
[व] ततः सत्यवती भीष्मं वाचा संसज्जमानया विहसन्तीव सव्रीडम इदं वचनम अब्रवीत ॥ 3 ॥
सत्यम एतन महाबाहॊ यथा वदसि भारत विश्वासात ते परवक्ष्यामि संतानाय कुलस्य च न ते शक्यम अनाख्यातुम आपद धीयं तथाविधा ॥ 4 ॥
तवम एव नः कुले धर्मस तवं सत्यं तवं परा गतिः तस्मान निशम्य वाक्यं मे कुरुष्व यद अनन्तरम ॥ 5 ॥
धर्मयुक्तस्य धर्मात्मन पितुर आसीत तरी मम सा कदा चिद अहं तत्र गता परथमयौवने ॥ 6 ॥
अथ धर्मभृतां शरेष्ठः परमर्षिः पराशरः आजगाम तरीं धीमांस तरिष्यन यमुनां नदीम ॥ 7 ॥
स तार्यमाणॊ यमुनां माम उपेत्याब्रवीत तदा सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तॊ मधुरं बहु ॥ 8 ॥
तम अहं शापभीता च पितुर भीता च भारत वरैर असुलभैर उक्ता न परत्याख्यातुम उत्सहे ॥ 9 ॥
अभिभूय स मां बालां तेजसा वशम आनयत तमसा लॊकम आवृत्य नौ गताम एव भारत ॥ 10 ॥
मत्स्यगन्धॊ महान आसीत पुरा मम जुगुप्सितः तम अपास्य शुभं गन्धम इमं परादात स मे मुनिः ॥ 11 ॥
ततॊ माम आह स मुनिर गर्भम उत्सृज्य मामकम दवीपे ऽसया एव सरितः कन्यैव तवं भविष्यसि ॥ 12 ॥
पाराशर्यॊ महायॊगी स बभूव महान ऋषिः कन्या पुत्रॊ मम पुरा दवैपायन इति समृतः ॥ 13 ॥
यॊ वयस्य वेदांश चतुरस तपसा भगवान ऋषिः लॊके वयासत्वम आपेदे कार्ष्ण्यात कृष्णत्वम एव च ॥ 14 ॥
सत्यवादी शम परस तपस्वी दग्धकिल्बिषः स नियुक्तॊ मया वयक्तं तवया च अमितद्युते भरातुः कषेत्रेषु कल्याणम अपत्यं जनयिष्यति ॥ 15 ॥
स हि माम उक्तवांस तत्र समरेः कृत्येषु माम इति तं समरिष्ये महाबाहॊ यदि भीष्म तवम इच्छसि ॥ 16 ॥
तव हय अनुमते भीष्म नियतं स महातपाः विचित्रवीर्यक्षेत्रेषु पुत्रान उत्पादयिष्यति ॥ 17 ॥
महर्षेः कीर्तने तस्य भीष्मः पराञ्जलिर अब्रवीत धर्मम अर्थं च कामं च तरीन एतान यॊ ऽनुपश्यति ॥ 18 ॥
अर्थम अर्थानुबन्धं च धर्मं धर्मानुबन्धनम कामं कामानुबन्धं च विपरीतान पृथक पृथक यॊ विचिन्त्य धिया सम्यग वयवस्यति स बुद्धिमान ॥ 19 ॥
तद इदं धर्मयुक्तं च हितं चैव कुलस्य नः उक्तं भवत्या यच छरेयः परमं रॊचते मम ॥ 20 ॥
ततस तस्मिन परतिज्ञाते भीष्मेण कुरुनन्दन कृष्णद्वैपायनं काली चिन्तयाम आस वै मुनिम ॥ 21 ॥
स वेदान विब्रुवन धीमान मातुर विज्ञाय चिन्तितम परादुर्बभूवाविदितः कषणेन कुरुनन्दन ॥ 22 ॥
तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम परिष्वज्य च बाहुभ्यां परस्नवैर अभिषिच्य च मुमॊच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम ॥ 23 ॥
ताम अद्भिः परिषिच्यार्तां महर्षिर अभिवाद्य च मातरं पूर्वजः पुत्रॊ वयासॊ वचनम अब्रवीत ॥ 24 ॥
भवत्या यद अभिप्रेतं तद अहं कर्तुम आगतः शाधि मां धर्मतत्त्वज्ञे करवाणि परियं तव ॥ 25 ॥
तस्मै पूजां ततॊ ऽकार्षीत पुरॊधाः परमर्षये स च तां परतिजग्राह विधिवन मन्त्रपूर्वकम ॥ 26 ॥
तम आसनगतं माता पृष्ट्वा कुशलम अव्ययम सत्यवत्य अभिवीक्ष्यैनम उवाचेदम अनन्तरम ॥ 27 ॥
मातापित्रॊः परजायन्ते पुत्राः साधारणाः कवे तेषां पिता यथा सवामी तथा माता न संशयः ॥ 28 ॥
विधातृविहितः स तवं यथा मे परथमः सुतः विचित्रवीर्यॊ बरह्मर्षे तथा मे ऽवरजः सुतः ॥ 29 ॥
यथैव पितृतॊ भीष्मस तथा तवम अपि मातृतः भराता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ॥ 30 ॥
अयं शांतनवः सत्यं पालयन सत्यविक्रमः बुद्धिं न कुरुते ऽपत्ये तथा राज्यानुशासने ॥ 31 ॥
स तवं वयपेक्षया भरातुः संतानाय कुलस्य च भीष्मस्य चास्य वचनान नियॊगाच च ममानघ ॥ 32 ॥
अनुक्रॊशाच च भूतानां सर्वेषां रक्षणाय च आनृशंस्येन यद बरूयां तच छरुत्वा कर्तुम अर्हसि ॥ 33 ॥
यवीयसस तव भरातुर भार्ये सुरसुतॊपमे रूपयौवन संपन्ने पुत्र कामे च धर्मतः ॥ 34 ॥
तयॊर उत्पादयापत्यं समर्थॊ हय असि पुत्रक अनुरूपं कुलस्यास्य संतत्याः परसवस्य च ॥ 35 ॥
[वय] वेत्थ धर्मं सत्यवति परं चापरम एव च यथा च तव धर्मज्ञे धर्मे परणिहिता मतिः ॥ 36 ॥
तस्माद अहं तवन नियॊगाद धर्मम उद्दिश्य कारणम ईप्सितं ते करिष्यामि दृष्टं हय एतत पुरातनम ॥ 37 ॥
भरातुः पुत्रान परदास्यामि मित्रा वरुणयॊः समान वरतं चरेतां ते देव्यौ निर्दिष्टम इह यन मया ॥ 38 ॥
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः न हि माम अव्रतॊपेता उपेयात का चिद अङ्गना ॥ 39 ॥
[स] यथा सद्यः परपद्येत देवी गर्भं तथा कुरु अराजकेषु राष्ट्रेषु नास्ति वृष्टिर न देवताः ॥ 40 ॥
कथम अराजकं राष्ट्रं शक्यं धारयितुं परभॊ तस्माद गर्भं समाधत्स्व भीष्मस तं वर्धयिष्यति ॥ 41 ॥
[वय] यदि पुत्रः परदातव्यॊ मया कषिप्रम अकालिकम विरूपतां मे सहताम एतद अस्याः परं वरतम ॥ 42 ॥
यदि मे सहते गन्धं रूपं वेषं तथा वपुः अद्यैव गर्भं कौसल्या विशिष्टं परतिपद्यताम ॥ 43 ॥
[व] समागमनम आकाङ्क्षन्न इति सॊ ऽनतर्हितॊ मुनिः ततॊ ऽभिगम्य सा देवी सनुषां रहसि संगताम धर्म्यम अर्थसमायुक्तम उवाच वचनं हितम ॥ 44 ॥
कौसल्ये धर्मतन्त्रं यद बरवीमि तवां निबॊध मे भरतानां समुच्छेदॊ वयक्तं मद्भाग्यसंक्षयात ॥ 45 ॥
वयथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम भीष्मॊ बुद्धिम अदान मे ऽतर धर्मस्य च विवृद्धये ॥ 46 ॥
सा च बुद्धिस तवाधीना पुत्रि जञातं मयेति ह नष्टं च भारतं वंशं पुनर एव समुद्धर ॥ 47 ॥
पुत्रं जनय सुश्रॊणि देवराजसमप्रभम स हि राज्यधुरं गुर्वीम उद्वक्ष्यति कुलस्य नः ॥ 48 ॥
सा धर्मतॊ ऽनुनीयैनां कथं चिद धर्मचारिणीम भॊजयाम आस विप्रांश च देवर्षीन अतिथींस तथा ॥ 49 ॥
आदिपर्व · Adi Parva
अध्याय 99
Reach this point to mark the section finished.
Continue to अध्याय 100