[व] ततः सत्यवती काले वधूं सनाताम ऋतौ तदा संवेशयन्ती शयने शनकैर वाक्यम अब्रवीत ॥ 1 ॥
कौसल्ये देवरस ते ऽसति सॊ ऽदय तवानुप्रवेक्ष्यति अप्रमत्ता परतीक्षैनं निशीथे आगमिष्यति ॥ 2 ॥
शवश्र्वास तद वचनश्रुत्वा शयाना शयने शुभे साचिन्तयत तदा भीष्मम अन्यांश च कुरुपुंगवान ॥ 3 ॥
ततॊ ऽमबिकायां परथमं नियुक्तः सत्यवाग ऋषिः दीप्यमानेषु दीपेषु शयनं परविवेश ह ॥ 4 ॥
तस्य कृष्णस्य कपिला जटा दीप्ते च लॊचने बभ्रूणि चैव शमश्रूणि दृष्ट्वा देवी नयमीलयत ॥ 5 ॥
संबभूव तया रात्रौ मातुः परियचिकीर्षया भयात काशिसुता तं तु नाशक्नॊद अभिवीक्षितुम ॥ 6 ॥
ततॊ निष्क्रान्तम आसाद्य मातापुत्रम अथाब्रवीत अप्य अस्यां गुणवान पुत्र राजपुत्रॊ भविष्यति ॥ 7 ॥
निशम्य तद वचॊ मातुर वयासः परमबुद्धिमान परॊवाचातीन्द्रिय जञानॊ विधिना संप्रचॊदितः ॥ 8 ॥
नागायुग समप्राणॊ विद्वान राजर्षिसत्तमः महाभागॊ महावीर्यॊ महाबुद्धिर भविष्यति ॥ 9 ॥
तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः किं तु मातुः स वैगुण्याद अन्ध एव भविष्यति ॥ 10 ॥
तस्य तद वचनं शरुत्वा मातापुत्रम अथाब्रवीत नान्धः कुरूणां नृपतिर अनुरूपस तपॊधन ॥ 11 ॥
जञातिवंशस्य गॊप्तारं पितॄणां वंशवर्धनम दवितीयं कुरुवंशस्य राजानं दातुम अर्हसि ॥ 12 ॥
स तथेति परतिज्ञाय निश्चक्राम महातपाः सापि कालेन कौसल्या सुषुवे ऽनधं तम आत्मजम ॥ 13 ॥
पुनर एव तु सा देवी परिभाष्य सनुषां ततः ऋषिम आवाहयत सत्या यथापूर्वम अनिन्दिता ॥ 14 ॥
ततस तेनैव विधिना महर्षिस ताम अपद्यत अम्बालिकाम अथाभ्यागाद ऋषिं दृष्ट्वा च सापि तम विषण्णा पाण्डुसंकाशा समपद्यत भारत ॥ 15 ॥
तां भीतां पाण्डुसंकाशां विषण्णां परेक्ष्य पार्थिव वयासः सत्यवती पुत्र इदं वचनम अब्रवीत ॥ 16 ॥
यस्मात पाण्डुत्वम आपन्ना विरूपं परेक्ष्य माम अपि तस्माद एष सुतस तुभ्यं पाण्डुर एव भविष्यति ॥ 17 ॥
नाम चास्य तद एवेह भविष्यति शुभानने इत्य उक्त्वा स निराक्रामद भगवान ऋषिसत्तमः ॥ 18 ॥
ततॊ निष्क्रान्तम आलॊक्य सत्या पुत्रम अभाषत शशंस स पुनर मात्रे तस्य बालस्य पाण्डुताम ॥ 19 ॥
तं माता पुनर एवान्यम एकं पुत्रम अयाचत तथेति च महर्षिस तां मातरं परत्यभाषत ॥ 20 ॥
ततः कुमारं सा देवी पराप्तकालम अजीजनत पाण्डुं लक्षणसंपन्नं दीप्यमानम इव शरिया तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः ॥ 21 ॥
ऋतुकाले ततॊ जयेष्ठां वधूं तस्मै नययॊजयत सा तु रूपं च गन्धं च महर्षेः परविचिन्त्य तम नाकरॊद वचनं देव्या भयात सुरसुतॊपमा ॥ 22 ॥
ततः सवैर भूषणैर दासीं भूषयित्वाप्सर उपमाम परेषयाम आस कृष्णाय ततः काशिपतेः सुता ॥ 23 ॥
दासी ऋषिम अनुप्राप्तं परत्युद्गम्याभिवाद्य च संविवेशाभ्यनुज्ञाता सत्कृत्यॊपचचार ह ॥ 24 ॥
कामॊपभॊगेन तु स तस्यां तुष्टिम अगाद ऋषिः तया सहॊषितॊ रात्रिं महर्षिः परीयमाणया ॥ 25 ॥
उत्तिष्ठन्न अब्रवीद एनाम अभुजिष्या भविष्यसि अयं च ते शुभे गर्भः शरीमान उदरम आगतः धर्मात्मा भविता लॊके सर्वबुद्धिमतां वरः ॥ 26 ॥
स जज्ञे विदुरॊ नाम कृष्णद्वैपायनात्मजः धृतराष्ट्रस्य च भराता पाण्डॊश चामितबुद्धिमान ॥ 27 ॥
धर्मॊ विदुर रूपेण शापात तस्य महात्मनः माण्डव्यस्यार्थ तत्त्वज्ञः कामक्रॊधविवर्जितः ॥ 28 ॥
स धर्मस्यानृणॊ भूत्वा पुनर मात्रा समेत्य च तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ॥ 29 ॥
एवं विचित्रवीर्यस्य कषेत्रे दवैपायनाद अपि जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ॥ 30 ॥
आदिपर्व · Adi Parva
अध्याय 100
Reach this point to mark the section finished.
Continue to अध्याय 101