[भस] जामदग्न्येन रामेण पितुर वधम अमृष्यता करुद्धेन च महाभागे हैहयाधिपतिर हतः शतानि दश बाहूनां निकृत्तान्य अर्जुनस्य वै ॥ 1 ॥
पुनश च धनुर आदाय महास्त्राणि परमुञ्चता निर्दग्धं कषत्रम असकृद रथेन जयता महीम ॥ 2 ॥
एवम उच्चावचैर अस्त्रैर भार्गवेण महात्मना तरिः सप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥ 3 ॥
ततः संभूय सर्वाभिः कषत्रियाभिः समन्ततः उत्पादितान्य अपत्यानि बराह्मणैर नियतात्मभिः ॥ 4 ॥
पाणिग्राहस्य तनय इति वेदेषु निश्चितम धर्मं मनसि संस्थाप्य बराह्मणांस ताः समभ्ययुः लॊके ऽपय आचरितॊ दृष्टः कषत्रियाणां पुनर भवः ॥ 5 ॥
अथॊतथ्य इति खयात आसीद धीमान ऋषिः पुरा ममता नाम तस्यासीद भार्या परमसंमिता ॥ 6 ॥
उतथ्यस्य यवीयांस तु पुरॊधास तरिदिवौकसाम बृहस्पतिर बृहत तेजा ममतां सॊ ऽनवपद्यत ॥ 7 ॥
उवाच ममता तं तु देवरं वदतां वरम अन्तर्वत्नी अहं भरात्रा जयेष्ठेनारम्यताम इति ॥ 8 ॥
अयं च मे महाभाग कुक्षाव एव बृहस्पते औतथ्यॊ वेदम अत्रैव षडङ्गं परत्यधीयत ॥ 9 ॥
अमॊघरेतास तवं चापि नूनं भवितुम अर्हसि तस्माद एवंगते ऽदय तवम उपारमितुम अर्हसि ॥ 10 ॥
एवम उक्तस तया सम्यग बृहत तेजा बृहस्पतिः कामात्मानं तदात्मानं न शशाक नियच्छितुम ॥ 11 ॥
संबभूव ततः कामी तया सार्धम अकामया उत्सृजन्तं तु तं रेतः स गर्भस्थॊ ऽभयभाषत ॥ 12 ॥
भॊस तात कन्यस वदे दवयॊर नास्त्य अत्र संभवः अमॊघशुक्रश च भवान पूर्वं चाहम इहागतः ॥ 13 ॥
शशाप तं ततः करुद्ध एवम उक्तॊ बृहस्पतिः उतथ्य पुत्रं गर्भस्थं निर्भर्त्स्य भगवान ऋषिः ॥ 14 ॥
यस्मात तवम ईदृशे काले सर्वभूतेप्सिते सति एवम आत्थ वचस तस्मात तमॊ दीर्घं परवेक्ष्यसि ॥ 15 ॥
स वै दीर्घतमा नाम शापाद ऋषिर अजायत बृहस्पतेर बृहत कीर्तेर बृहस्पतिर इवौजसा ॥ 16 ॥
सपुत्राञ जनयाम आस गौतमादीन महायशाः ऋषेर उतथ्यस्य तदा संतानकुलवृद्धये ॥ 17 ॥
लॊभमॊहाभिभूतास ते पुत्रास तं गौतमादयः काष्ठे समुद्रे परक्षिप्य गङ्गायां समवासृजन ॥ 18 ॥
न सयाद अन्धश च वृद्धश च भर्तव्यॊ ऽयम इति सम ते चिन्तयित्वा ततः करूराः परतिजग्मुर अथॊ गृहान ॥ 19 ॥
सॊ ऽनुस्रॊतस तदा राजन पलवमान ऋषिस ततः जगाम सुबहून देशान अन्धस तेनॊडुपेन ह ॥ 20 ॥
तं तु राजा बलिर नाम सर्वधर्मविशारदः अपश्यन मज्जन गतः सरॊतसाभ्याशम आगतम ॥ 21 ॥
जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः जञात्वा चैनं स वव्रे ऽथ पुत्रार्थं मनुजर्षभ ॥ 22 ॥
संतानार्थं महाभाग भार्यासु मम मानद पुत्रान धर्मार्थकुशलान उत्पादयितुम अर्हसि ॥ 23 ॥
एवम उक्तः स तेजस्वी तं तथेत्य उक्तवान ऋषिः तस्मै स राजा सवां भार्यां सुदेष्णां पराहिणॊत तदा ॥ 24 ॥
अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह सवां तु धात्रेयिकां तस्मै वृद्धाय पराहिणॊत तदा ॥ 25 ॥
तस्यां काक्षीवद आदीन स शूद्रयॊनाव ऋषिर वशी जनयाम आस धर्मात्मा पुत्रान एकादशैव तु ॥ 26 ॥
काक्षीवद आदीन पुत्रांस तान दृष्ट्वा सर्वान अधीयतः उवाच तम ऋषिं राजा ममैत इति वीर्यवाः ॥ 27 ॥
नेत्य उवाच महर्षिस तं ममैवैत इति बरुवन शूद्रयॊनौ मया हीमे जाताः काक्षीवद आदयः ॥ 28 ॥
अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे ॥ 29 ॥
ततः परसादयाम आस पुनस तम ऋषिसत्तमम बलिः सुदेष्णां भार्यां च तस्मै तां पराहिणॊत पुनः ॥ 30 ॥
तां स दीर्घतमाङ्गेषु सपृष्ट्वा देवीम अथाब्रवीत भविष्यति कुमारस ते तेजस्वी सत्यवाग इति ॥ 31 ॥
तत्राङ्गॊ नाम राजर्षिः सुदेष्णायाम अजायत एवम अन्ये महेष्वासा बराह्मणैः कषत्रिया भुवि ॥ 32 ॥
जाताः परमधर्मज्ञा वीर्यवन्तॊ महाबलाः एतच छरुत्वा तवम अप्य अत्र मातः कुरु यथेप्सितम ॥ 33 ॥
आदिपर्व · Adi Parva
अध्याय 98
Reach this point to mark the section finished.
Continue to अध्याय 99