[व] ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी पुत्रस्य कृत्वा कार्याणि सनुषाभ्यां सह भारत ॥ 1 ॥
धर्मं च पितृवंशं च मातृवंशं च मानिनी परसमीक्ष्य महाभागा गाङ्गेयं वाक्यम अब्रवीत ॥ 2 ॥
शंतनॊर धर्मनित्यस्य कौरव्यस्य यशस्विनः तवयि पिण्डश च कीर्तिश च संतानं च परतिष्ठितम ॥ 3 ॥
यथा कर्म शुभं कृत्वा सवर्गॊपगमनं धरुवम यथा चायुर धरुवं सत्ये तवयि धर्मस तथा धरुवः ॥ 4 ॥
वेत्थ धर्मांश च धर्मज्ञ समासेनेतरेण च विविधास तवं शरुतीर वेत्थ वेत्थ वेदांश च सर्वशः ॥ 5 ॥
वयवस्थानं च ते धर्मे कुलाचारं च लक्षये परतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयॊर इव ॥ 6 ॥
तस्मात सुभृशम आश्वस्य तवयि धर्मभृतां वर कार्ये तवां विनियॊक्ष्यामि तच छरुत्वा कर्तुम अर्हसि ॥ 7 ॥
मम पुत्रस तव भराता वीर्यवान सुप्रियश च ते बाल एव गतः सवर्गम अपुत्रः पुरुषर्षभ ॥ 8 ॥
इमे महिष्यौ भरातुस ते काशिराजसुते शुभे रूपयौवन संपन्ने पुत्र कामे च भारत ॥ 9 ॥
तयॊर उत्पादयापत्यं संतानाय कुलस्य नः मन्नियॊगान महाभाग धर्मं कर्तुम इहार्हसि ॥ 10 ॥
राज्ये चैवाभिषिच्यस्व भारतान अनुशाधि च दारांश च कुरु धर्मेण मा निमज्जीः पितामहान ॥ 11 ॥
तथॊच्यमानॊ मात्रा च सुहृद्भिश च परंतपः परत्युवाच स धर्मात्मा धर्म्यम एवॊत्तरं वचः ॥ 12 ॥
असंशयं परॊ धर्मस तवया मातर उदाहृतः तवम अपत्यं परति च मे परतिज्ञां वेत्थ वै पराम ॥ 13 ॥
जानासि च यथावृत्थं शुल्क हेतॊस तवद अन्तरे स सत्यवति सत्यं ते परतिजानाम्य अहं पुनः ॥ 14 ॥
परित्यजेयं तरैलॊक्यं राज्यं देवेषु वा पुनः यद वाप्य अधिकम एताभ्यां न तु सत्यं कथं चन ॥ 15 ॥
तयजेच च पृथिवी गन्धम आपश च रसम आत्मनः जयॊतिस तथा तयजेद रूपं वायुः सपर्शगुणं तयजेत ॥ 16 ॥
परभां समुत्सृजेद अर्कॊ धूमकेतुस तथॊष्णताम तयजेच छब्दम अथाकाशः सॊमः शीतांशुतां तयजेत ॥ 17 ॥
विक्रमं वृत्रहा जह्याद धर्मं जह्याच च धर्मराट न तव अहं सत्यम उत्स्रष्टुं वयवसेयं कथं चन ॥ 18 ॥
एवम उक्ता तु पुत्रेण भूरि दरविण तेजसा माता सत्यवती भीष्मम उवाच तदनन्तरम ॥ 19 ॥
जानामि ते सथितिं सत्ये परां सत्यपराक्रम इच्छन सृजेथास तरीँल लॊकान अन्यांस तवं सवेन तेजसा ॥ 20 ॥
जानामि चैव सत्यं तन मदर्थं यद अभाषथाः आपद धर्मम अवेक्षस्व वह पैतामहीं धुरम ॥ 21 ॥
यथा ते कुलतन्तुश च धर्मश च न पराभवेत सुहृदश च परहृष्येरंस तथा कुरु परंतप ॥ 22 ॥
लालप्यमानां ताम एवं कृपणां पुत्रगृद्धिनीम धर्माद अपेतं बरुवतीं भीष्मॊ भूयॊ ऽबरवीद इदम ॥ 23 ॥
राज्ञि धर्मान अवेक्षस्व मा नः सर्वान वयनीनशः सत्याच चयुतिः कषत्रियस्य न धर्मेषु परशस्यते ॥ 24 ॥
शंतनॊर अपि संतानं यथा सयाद अक्षयं भुवि तत ते धर्मं परवक्ष्यामि कषात्रं राज्ञि सनातनम ॥ 25 ॥
शरुत्वा तं परतिपद्येथाः पराज्ञैः सह पुरॊहितैः आपद धर्मार्थकुशलैर लॊकतन्त्रम अवेक्ष्य च ॥ 26 ॥
आदिपर्व · Adi Parva
अध्याय 97
Reach this point to mark the section finished.
Continue to अध्याय 98