[व] हते चित्राङ्गदे भीष्मॊ बाले भरातरि चानघ पालयाम आस तद राज्यं सत्यवत्या मते सथितः ॥ 1 ॥
संप्राप्तयौवनं पश्यन भरातरं धीमतां वरम भीष्मॊ विचित्रवीर्यस्य विवाहायाकरॊन मतिम ॥ 2 ॥
अथ काशिपतेर भीष्मः कन्यास तिस्रॊ ऽपसरः समाः शुश्राव सहिता राजन वृण्वतीर वै सवयंवरम ॥ 3 ॥
ततः स रथिनां शरेष्ठॊ रथेनैकेन वर्म भृत जगामानुमते मातुः पुरीं वाराणसीं परति ॥ 4 ॥
तत्र राज्ञः समुदितान सर्वतः समुपागतान ददर्श कन्यास ताश चैव भीष्मः शंतनुनन्दनः ॥ 5 ॥
कीर्त्यमानेषु राज्ञां तु नामस्व अथ सहस्रशः भीष्मः सवयं तदा राजन वरयाम आस ताः परभुः ॥ 6 ॥
उवाच च महीपालान राजञ जलदनिःस्वनः रथम आरॊप्य ताः कन्या भीष्मः परहरतां वरः ॥ 7 ॥
आहूय दानं कन्यानां गुणवद्भ्यः समृतं बुधैः अलंकृत्य यथाशक्ति परदाय च धनान्य अपि ॥ 8 ॥
परयच्छन्त्य अपरे कन्यां मिथुनेन गवाम अपि वित्तेन कथितेनान्ये बलेनान्ये ऽनुमान्य च ॥ 9 ॥
परमत्ताम उपयान्त्य अन्ये सवयम अन्ये च विन्दते अष्टमं तम अथॊ वित्तविवाहं कविभिः समृतम ॥ 10 ॥
सवयंवरं तु राजन्याः परशंसन्त्य उपयान्ति च परमथ्य तु हृताम आहुर जयायसीं धर्मवादिनः ॥ 11 ॥
ता इमाः पृथिवीपाला जिहीर्षामि बलाद इतः ते यतध्वं परं शक्त्या विजयायेतराय वा सथितॊ ऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ॥ 12 ॥
एवम उक्त्वा महीपालान काशिराजं च वीर्यवान सर्वाः कन्याः स कौरव्यॊ रथम आरॊपयत सवकम आमन्त्र्य च स तान परायाच छीघ्रं कन्याः परगृह्य ताः ॥ 13 ॥
ततस ते पार्थिवाः सर्वे समुत्पेतुर अमर्षिताः संस्पृशन्तः सवकान बाहून दशन्तॊ दशनच छदान ॥ 14 ॥
तेषाम आभरणान्य आशु तवरितानां विमुञ्चताम आमुञ्चतां च वर्माणि संभ्रमः सुमहान अभूत ॥ 15 ॥
ताराणाम इव संपातॊ बभूव जनमेजय भूषणानां च शुभ्राणां कवचानां च सर्वशः ॥ 16 ॥
सवर्मभिर भूषणैस ते दराग भराजद्भिर इतस ततः सक्रॊधामर्ष जिह्मभ्रू सकषाय दृशस तथा ॥ 17 ॥
सूतॊपकॢप्तान रुचिरान सदश्वॊद्यत धूर गतान रथान आस्थाय ते वीराः सर्वप्रहरणान्विताः परयान्तम एकं कौरव्यम अनुसस्रुर उदायुधाः ॥ 18 ॥
ततः समभवद युद्धं तेषां तस्य च भारत एकस्य च बहूनां च तुमुलं लॊमहर्षणम ॥ 19 ॥
ते तव इषून दशसाहस्रांस तस्मै युगपद आक्षिपन अप्राप्तांश चैव तान आशु भीष्मः सर्वांस तदाच्छिनत ॥ 20 ॥
ततस ते पार्थिवाः सर्वे सर्वतः परिवारयन ववर्षुः शरवर्षेण वर्षेणेवाद्रिम अम्बुदाः ॥ 21 ॥
स तद बाणमयं वर्षं शरैर आवार्य सर्वतः ततः सर्वान महीपालान परत्यविध्यत तरिभिस तरिभिः ॥ 22 ॥
तस्याति पुरुषान अन्याँल लाघवं रथचारिणः रक्षणं चात्मनः संख्ये शत्रवॊ ऽपय अभ्यपूजयन ॥ 23 ॥
तान विनिर्जित्य तु रणे सर्वशास्त्रविशारदः कन्याभिः सहितः परायाद भारतॊ भारतान परति ॥ 24 ॥
ततस तं पृष्ठतॊ राजञ शाल्वराजॊ महारथः अभ्याहनद अमेयात्मा भीष्मं शांतनवं रणे ॥ 25 ॥
वारणं जघने निघ्नन दन्ताभ्याम अपरॊ यथा वाशिताम अनुसंप्राप्तॊ यूथपॊ बलिनां वरः ॥ 26 ॥
सत्री कामतिष्ठ तिष्ठेति भीष्मम आह स पार्थिवः शाल्वराजॊ महाबाहुर अमर्षेणाभिचॊदितः ॥ 27 ॥
ततः स पुरुषव्याघ्रॊ भीष्मः परबलार्दनः तद वाक्याकुलितः करॊधाद विधूमॊ ऽगनिर इव जवलन ॥ 28 ॥
कषत्रधर्मं समास्थाय वयपेतभयसंभ्रमः निवर्तयाम आस रथं शाल्वं परति महारथः ॥ 29 ॥
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते परेक्षकाः समपद्यन्त भीष्म शाल्व समागमे ॥ 30 ॥
तौ वृषाव इव नर्दन्तौ बलिनौ वाशितान्तरे अन्यॊन्यम अभिवर्तेतां बलविक्रम शालिनौ ॥ 31 ॥
ततॊ भीष्मं शांतनवं शरैः शतसहस्रशः शाल्वराजॊ नरश्रेष्ठः समवाकिरद आशुगैः ॥ 32 ॥
पूर्वम अभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः विस्मिताः समपद्यन्त साधु साध्व इति चाभ्रुवन ॥ 33 ॥
लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः ॥ 34 ॥
कषत्रियाणां तदा वाचः शरुत्वा परपुरंजयः करुद्धः शांतनवॊ भीष्मस तिष्ठ तिष्ठेत्य अभाषत ॥ 35 ॥
सारथिं चाब्रवीत करुद्धॊ याहि यत्रैष पार्थिवः यावद एनं निहन्म्य अद्य भुजंगम इव पक्षिराट ॥ 36 ॥
ततॊ ऽसत्रं वारुणं सम्यग यॊजयाम आस कौरवः तेनाश्वांश चतुरॊ ऽमृद्नाच छाल्व राज्ञॊ नराधिप ॥ 37 ॥
अस्त्रैर अस्त्राणि संवार्य शाल्वराज्ञः स कौरवः भीष्मॊ नृपतिशार्दूल नयवधीत तस्य सारथिम अस्त्रेण चाप्य अथैकेन नयवधीत तुरगॊत्तमान ॥ 38 ॥
कन्या हेतॊर नरश्रेष्ठ भीष्मः शांतनवस तदा जित्वा विसर्जयाम आस जीवन्तं नृपसत्तमम ततः शाल्वः सवनगरं परययौ भरतर्षभ ॥ 39 ॥
राजानॊ ये च तत्रासन सवयंवरदिदृक्षवः सवान्य एव ते ऽपि राष्ट्राणि जग्मुः परपुरंजय ॥ 40 ॥
एवं विजित्य ताः कन्या भीष्मः परहरतां वरः परययौ हास्तिनपुरं यत्र राजा स कौरवः ॥ 41 ॥
सॊ ऽचिरेणैव कालेन अत्यक्रामन नराधिप वनानि सरितश चैव शैलांश च विविधद्रुमान ॥ 42 ॥
अक्षतः कषपयित्वारीन संख्ये ऽसंख्येयविक्रमः आनयाम आस काश्यस्य सुताः सागरगासुतः ॥ 43 ॥
सनुषा इव स धर्मात्मा भगिन्य इव चानुजाः यथा दुहितरश चैव परतिगृह्य ययौ कुरून ॥ 44 ॥
ताः सर्वा गुणसंपन्ना भराता भरात्रे यवीयसे भीष्मॊ विचित्रवीर्याय परददौ विक्रमाहृताः ॥ 45 ॥
सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम भरातुर विचित्रवीर्यस्य विवाहायॊपचक्रमे सत्यवत्या सह मिथः कृत्वा निश्चयम आत्मवान ॥ 46 ॥
विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता जयेष्ठा तासाम इदं वाक्यम अब्रवीद धि सती तदा ॥ 47 ॥
मया सौभपतिः पूर्वं मनसाभिवृतः पतिः तेन चास्मि वृता पूर्वम एष कामश च मे पितुः ॥ 48 ॥
मया वरयितव्यॊ ऽभूच छाल्वस तस्मिन सवयंवरे एतद विज्ञाय धर्मज्ञ ततस तवं धर्मम आचर ॥ 49 ॥
एवम उक्तस तया भीष्मः कन्यया विप्र संसदि चिन्ताम अभ्यगमद वीरॊ युक्तां तस्यैव कर्मणः ॥ 50 ॥
स विनिश्चित्य धर्मज्ञॊ बराह्मणैर वेदपारगैः अनुजज्ञे तदा जयेष्टाम अम्बां काशिपतेः सुताम ॥ 51 ॥
अम्बिकाम्बालिके भार्ये परादाद भरात्रे यवीयसे भीष्मॊ विचित्रवीर्याय विधिदृष्टेन कर्मणा ॥ 52 ॥
तयॊः पाणिं गृहीत्वा स रूपयौवन दर्पितः विचित्रवीर्यॊ धर्मात्मा कामात्मा समपद्यत ॥ 53 ॥
ते चापि बृहती शयामे नीलकुञ्चित मूर्धजे रक्ततुङ्ग नखॊपेते पीनश्रेणि पयॊधरे ॥ 54 ॥
आत्मनः परतिरूपॊ ऽसौ लब्धः पतिर इति सथिते विचित्रवीर्यं कल्याणं पूजयाम आसतुस तु ते ॥ 55 ॥
स चाश्वि रूपसदृशॊ देव सत्त्वपराक्रमः सर्वासाम एव नारीणां चित्तप्रमथनॊ ऽभवत ॥ 56 ॥
ताभ्यां सह समाः सप्त विहरन पृथिवीपतिः विचित्रवीर्यस तरुणॊ यक्ष्माणं समपद्यत ॥ 57 ॥
सुहृदां यतमानानाम आप्तैः सह चिकित्सकैः जगामास्तम इवादित्यः कौरव्यॊ यमसादनम ॥ 58 ॥
परेतकार्याणि सर्वाणि तस्य सम्यग अकारयत राज्ञॊ विचित्रवीर्यस्य सत्यवत्या मते सथितः ऋत्विग्भिः सहितॊ भीष्मः सर्वैश च कुरुपुंगवैः ॥ 59 ॥
आदिपर्व · Adi Parva
अध्याय 96
Reach this point to mark the section finished.
Continue to अध्याय 97