[व] ततॊ विवाहे निर्वृत्ते स राजा शंतनुर नृपः तां कन्यां रूपसंपन्नां सवगृहे संन्यवेशयत ॥ 1 ॥
ततः शांतनवॊ धीमान सत्यवत्याम अजायत वीरश चित्राङ्गदॊ नाम वीर्येण मनुजान अति ॥ 2 ॥
अथापरं महेष्वासं सत्यवत्यां पुनः परभुः विचित्रवीर्यं राजानं जनयाम आस वीर्यवान ॥ 3 ॥
अप्राप्तवति तस्मिंश च यौवनं भरतर्षभ स राजा शंतनुर धीमान कालधर्मम उपेयिवान ॥ 4 ॥
सवर्गते शंतनौ भीष्मश चित्राङ्गदम अरिंदमम सथापयाम आस वै राज्ये सत्यवत्या मते सथितः ॥ 5 ॥
स तु चित्राङ्गदः शौर्यात सर्वांश चिक्षेप पार्थिवान मनुष्यं न हि मेने स कं चित सदृशम आत्मनः ॥ 6 ॥
तं कषिपन्तं सुरांश चैव मनुष्यान असुरांस तथा गन्धर्वराजॊ बलवांस तुल्यनामाभ्ययात तदा तेनास्य सुमहद युद्धं कुरुक्षेत्रे बभूव ह ॥ 7 ॥
तयॊर बलवतॊस तत्र गन्धर्वकुरुमुख्ययॊः नद्यास तीरे हिरण्वत्याः समास तिस्रॊ ऽभवद रणः ॥ 8 ॥
तस्मिन विमर्दे तुमुले शस्त्रवृष्टिं समाकुले मायाधिकॊ ऽवधीद वीरं गन्धर्वः कुरुसत्तमम ॥ 9 ॥
चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम अन्ताय कृत्वा गन्धर्वॊ दिवम आचक्रमे ततः ॥ 10 ॥
तस्मिन नृपतिशार्दूले निहते भूरि वर्चसि भीष्मः शांतनवॊ राजन परेतकार्याण्य अकारयत ॥ 11 ॥
विचित्रवीर्यं च तदा बालम अप्राप्तयौवनम कुरुराज्ये महाबाहुर अभ्यषिञ्चद अनन्तरम ॥ 12 ॥
विचित्रवीर्यस तु तदा भीष्मस्य वचने सथितः अन्वशासन महाराज पितृपैतामहं पदम ॥ 13 ॥
स धर्मशास्त्रकुशलॊ भीष्मं शांतनवं नृपः पूजयाम आस धर्मेण स चैनं परत्यपालयत ॥ 14 ॥
आदिपर्व · Adi Parva
अध्याय 95
Reach this point to mark the section finished.
Continue to अध्याय 96