[व] स एवं शंतनुर धीमान देवराजर्षिसत्कृतः धर्मात्मा सर्वलॊकेषु सत्यवाग इति विश्रुतः ॥ 1 ॥
दमॊ दानं कषमा बुद्धिर हरीर धृतिस तेज उत्तमम नित्यान्य आसन महासत्त्वे शंतनौ पुरुषर्षभे ॥ 2 ॥
एवं स गुणसंपन्नॊ धर्मार्थकुशलॊ नृपः आसीद भरत वंशस्य गॊप्ता साधु जनस्य च ॥ 3 ॥
कम्बुग्रीवः पृथु वयंसॊ मत्तवारणविक्रमः धर्म एव परः कामाद अर्थाच चेति वयवस्थितः ॥ 4 ॥
एतान्य आसन महासत्त्वे शंतनौ भरतर्षभ न चास्य सदृशः कश चित कषत्रियॊ धर्मतॊ ऽभवत ॥ 5 ॥
वर्तमानं हि धर्मे सवे सर्वधर्मविदां वरम तं महीपा महीपालं राजराज्ये ऽभयषेचयन ॥ 6 ॥
वीतशॊकभयाबाधाः सुखस्वप्नविबॊधनाः परति भारत गॊप्तारं समपद्यन्त भूमिपाः ॥ 7 ॥
शंतनु परमुखैर गुप्ते लॊके नृपतिभिस तदा नियमात सर्ववर्णानां बरह्मॊत्तरम अवर्तत ॥ 8 ॥
बरह्म पर्यचरत कषत्रं विशः कषत्रम अनुव्रताः बरह्मक्षत्रानुरक्ताश च शूद्राः पर्यचरन विशः ॥ 9 ॥
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने वसन सागरपर्यन्ताम अन्वशाद वै वसुंधराम ॥ 10 ॥
स देवराजसदृशॊ धर्मज्ञः सत्यवाग ऋजुः दानधर्मतपॊ यॊगाच छरिया परमया युतः ॥ 11 ॥
अरागद्वेषसंयुक्तः सॊमवत परियदर्शनः तेजसा सूर्यसंकाशॊ वायुवेगसमॊ जवे अन्तकप्रतिमः कॊपे कषमया पृथिवीसमः ॥ 12 ॥
वधः पशुवराहाणां तथैव मृगपक्षिणाम शंतनौ पृथिवीपाले नावर्तत वृथा नृपः ॥ 13 ॥
धर्मब्रह्मॊत्तरे राज्ये शंतनुर विनयात्मवान समं शशास भूतानि कामरागविवर्जितः ॥ 14 ॥
देवर्षिपितृयज्ञार्थम आरभ्यन्त तदा करियाः न चाधर्मेण केषां चित पराणिनाम अभवद वधः ॥ 15 ॥
असुखानाम अनाथानां तिर्यग्यॊनिषु वर्तताम स एव राजा भूतानां सर्वेषाम अभवत पिता ॥ 16 ॥
तस्मिन कुरुपतिश्रेष्ठे राजराजेश्वरे सति शरिता वाग अभवत सत्यं दानधर्माश्रितं मनः ॥ 17 ॥
स समाः षॊडशाष्टौ च चतस्रॊ ऽषटौ तथापराः रतिम अप्राप्नुवन सत्रीषु बभूव वनगॊचरः ॥ 18 ॥
तथारूपस तथाचारस तथा वृत्तस तथा शरुतः गाङ्गेयस तस्य पुत्रॊ ऽभून नाम्ना देवव्रतॊ वसुः ॥ 19 ॥
सर्वास्त्रेषु स निष्णातः पार्थिवेष्व इतरेषु च महाबलॊ महासत्त्वॊ महावीर्यॊ महारथः ॥ 20 ॥
स कदा चिन मृगं विद्ध्वा गङ्गाम अनुसरन नदीम भागीरथीम अल्पजलां शंतनुर दृष्टवान नृपः ॥ 21 ॥
तां दृष्ट्वा चिन्तयाम आस शंतनुः पुरुषर्षभः सयन्दते किं नव इयं नाद्य सरिच्छ्रेष्ठा यथा पुरा ॥ 22 ॥
ततॊ निमित्तम अन्विच्छन ददर्श स महामनाः कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम ॥ 23 ॥
दिव्यम अस्त्रं विकुर्वाणं यथा देवं पुरंदरम कृत्स्नां गङ्गां समावृत्य शरैस तीक्ष्णैर अवस्थितम ॥ 24 ॥
तां शरैर आवृतां दृष्ट्वा नदीं गङ्गां तद अन्तिके अभवद विस्मितॊ राजा कर्म दृष्ट्वातिमानुषम ॥ 25 ॥
जातमात्रं पुरा दृष्टं तं पुत्रं शंतनुस तदा नॊपलेभे समृतिं धीमान अभिज्ञातुं तम आत्मजम ॥ 26 ॥
स तु तं पितरं दृष्ट्वा मॊहयाम आस मायया संमॊह्य तु ततः कषिप्रं तत्रैवान्तरधीयत ॥ 27 ॥
तद अद्भुतं तदा दृष्ट्वा तत्र राजा स शंतनुः शङ्कमानः सुतं गङ्गाम अब्रवीद दर्शयेति ह ॥ 28 ॥
दर्शयाम आस तं गङ्गा बिभ्रती रूपम उत्तमम गृहीत्वा दक्षिणे पाणौ तं कुमारम अलंकृतम ॥ 29 ॥
अलंकृताम आभरणैर अरजॊ ऽमबरधारिणीम दृष्टपूर्वाम अपि सतीं नाभ्यजानात स शंतनुः ॥ 30 ॥
[ग] यं पुत्रम अष्टमं राजंस तवं पुरा मय्य अजायिथाः स ते ऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम ॥ 31 ॥
वेदान अधिजगे साङ्गान वसिष्ठाद एव वीर्यवान कृतास्त्रः परमेष्वासॊ देवराजसमॊ युधि ॥ 32 ॥
सुराणां संमतॊ नित्यम असुराणां च भारत उशना वेद यच छास्त्रम अयं तद वेद सर्वशः ॥ 33 ॥
तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः यद वेद शास्त्रं तच चापि कृत्स्नम अस्मिन परतिष्ठितम तव पुत्रे महाबाहौ साङ्गॊपाङ्गं महात्मनि ॥ 34 ॥
ऋषिः परैर अनाधृष्यॊ जामदग्न्यः परतापवान यद अस्त्रं वेद रामश च तद अप्य अस्मिन परतिष्ठितम ॥ 35 ॥
महेष्वासम इमं राजन राजधर्मार्थकॊविदम मया दत्तं निजं पुत्रं वीरं वीर गृहान नय ॥ 36 ॥
[व] तयैवं समनुज्ञातः पुत्रम आदाय शंतनुः भराजमानं यथादित्यम आययौ सवपुरं परति ॥ 37 ॥
पौरवः सवपुरं गत्वा पुरंदर पुरॊपमम सर्वकामसमृद्धार्थं मेने आत्मानम आत्मना पौरवेषु ततः पुत्रं यौवराज्ये ऽभयषेचयत ॥ 38 ॥
पौरवाञ शंतनॊः पुत्रः पितरं च महायशाः राष्ट्रं च रञ्जयाम आस वृत्तेन भरतर्षभ ॥ 39 ॥
स तथा सह पुत्रेण रममाणॊ महीपतिः वर्तयाम आस वर्षाणि चत्वार्य अमितविक्रमः ॥ 40 ॥
स कदा चिद वनं यातॊ यमुनाम अभितॊ नदीम महीपतिर अनिर्देश्यम आजिघ्रद गन्धम उत्तमम ॥ 41 ॥
तस्य परभवम अन्विच्छन विचचार समन्ततः स ददर्श तदा कन्यां दाशानां देवरूपिणीम ॥ 42 ॥
ताम अपृच्छत स दृष्ट्वैव कन्याम असितलॊचनाम कस्य तवम असि का चासि किं च भीरु चिकीर्षसि ॥ 43 ॥
साब्रवीद दाशकन्यास्मि धर्मार्थं वाहये तरीम पितुर नियॊगाद भद्रं ते दाशराज्ञॊ महात्मनः ॥ 44 ॥
रूपमाधुर्य गन्धैस तां संयुक्तां देवरूपिणीम समीक्ष्य राजा दाशेयीं कामयाम आस शंतनुः ॥ 45 ॥
स गत्वा पितरं तस्या वरयाम आस तां तदा पर्यपृच्छत ततस तस्याः पितरं चात्मकारणात ॥ 46 ॥
स च तं परत्युवाचेदं दाशराजॊ महीपतिम जातमात्रैव मे देया वराय वरवर्णिनी हृदि कामस तु मे कश चित तं निबॊध जनेश्वर ॥ 47 ॥
यदीमां धर्मपत्नीं तवं मत्तः परार्थयसे ऽनघ सत्यवाग असि सत्येन समयं कुरु मे ततः ॥ 48 ॥
समयेन परदद्यां ते कन्याम अहम इमां नृप न हि मे तवत्समः कश चिद वरॊ जातु भविष्यति ॥ 49 ॥
[ष] शरुत्वा तव वरं दाशव्यवस्येयम अहं न वा दातव्यं चेत परदास्यामि न तव अदेयं कथं चन ॥ 50 ॥
[दाष] अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः तवद ऊर्ध्वम अभिषेक्तव्यॊ नान्यः कश चन पार्थिव ॥ 51 ॥
[व] नाकामयत तं दातुं वरं दाशाय शंतनुः शरीरजेन तीव्रेण दह्यमानॊ ऽपि भारत ॥ 52 ॥
स चिन्तयन्न एव तदा दाशकन्यां महीपतिः परत्ययाद धास्तिन पुरं शॊकॊपहतचेतनः ॥ 53 ॥
ततः कदा चिच छॊचन्तं शंतनुं धयानम आस्थितम पुत्रॊ देवव्रतॊ ऽभयेत्य पितरं वाक्यम अब्रवीत ॥ 54 ॥
सर्वतॊ भवतः कषेमं विधेयाः सर्वपार्थिवाः तत किमर्थम इहाभीक्ष्णं परिशॊचसि दुःखितः धयायन्न इव च किं राजन नाभिभाषसि किं चन ॥ 55 ॥
एवम उक्तः सपुत्रेण शंतनुः परत्यभाषत असंशयं धयानपरं यथा मात्थ तथास्म्य उत ॥ 56 ॥
अपत्यं नस तवम एवैकः कुले महति भारत अनित्यता च मर्त्यानाम अतः शॊचामि पुत्रक ॥ 57 ॥
कथं चित तव गाङ्गेय विपत्तौ नास्ति नः कुलम असंशयं तवम एवैकः शताद अपि वरः सुतः ॥ 58 ॥
न चाप्य अहं वृथा भूयॊ दारान कर्तुम इहॊत्सहे संतानस्याविनाशाय कामये भद्रम अस्तु ते अनपत्यतैक पुत्रत्वम इत्य आहुर धर्मवादिनः ॥ 59 ॥
अग्निहॊत्रं तरयॊ वेदा यज्ञाश च सहदक्षिणाः सर्वाण्य एतान्य अपत्यस्य कलां नार्हन्ति षॊडशीम ॥ 60 ॥
एवम एव मनुष्येषु सयाच च सर्वप्रजास्व अपि यद अपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः एषा तरयी पुराणानाम उत्तमानां च शाश्वती ॥ 61 ॥
तवं च शूरः सदामर्षी शस्त्रनित्यश च भारत नान्यत्र शस्त्रात तस्मात ते निधनं विद्यते ऽनघ ॥ 62 ॥
सॊ ऽसमि संशयम आपन्नस तवयि शान्ते कथं भवेत इति ते कारणं तात दुःखस्यॊक्तम अशेषतः ॥ 63 ॥
ततस तत कारणं जञात्वा कृत्स्नं चैवम अशेषतः देवव्रतॊ महाबुद्धिः परययाव अनुचिन्तयन ॥ 64 ॥
अभ्यगच्छत तदैवाशु वृद्धामात्यं पितुर हितम तम अपृच्छत तदाभ्येत्य पितुस तच छॊककारणम ॥ 65 ॥
तस्मै स कुरुमुख्याय यथावत परिपृच्छते वरं शशंस कन्यां ताम उद्दिश्य भरतर्षभ ॥ 66 ॥
ततॊ देवव्रतॊ वृद्धैः कषत्रियैः सहितस तदा अभिगम्य दाशराजानं कन्यां वव्रे पितुः सवयम ॥ 67 ॥
तं दाशः परतिजग्राह विधिवत परतिपूज्य च अब्रवीच चैनम आसीनं राजसंसदि भारत ॥ 68 ॥
तवम एव नाथः पर्याप्तः शंतनॊः पुरुषर्षभ पुत्रः पुत्रवतां शरेष्ठः किं नु वक्ष्यामि ते वचः ॥ 69 ॥
कॊ हि संबन्धकं शलाघ्यम ईप्सितं यौनम ईदृशम अतिक्रामन न तप्येत साक्षाद अपि शतक्रतुः ॥ 70 ॥
अपत्यं चैतद आर्यस्य यॊ युष्माकं समॊ गुणैः यस्य शुक्रात सत्यवती परादुर्भूता यशस्विनी ॥ 71 ॥
तेन मे बहुशस तात पिता ते परिकीर्तितः अर्हः सत्यवतीं वॊढुं सर्वराजसु भारत ॥ 72 ॥
असितॊ हय अपि देवर्षिः परत्याख्यातः पुरा मया सत्यवत्या भृशं हय अर्थी स आसीद ऋषिसत्तमः ॥ 73 ॥
कन्यापितृत्वात किं चित तु वक्ष्यामि भरतर्षभ बलवत सपत्नताम अत्र दॊषं पश्यामि केवलम ॥ 74 ॥
यस्य हि तवं सपत्नः सया गन्धर्वस्यासुरस्य वा न स जातु सुखं जीवेत तवयि करुद्धे परंतप ॥ 75 ॥
एतावान अत्र दॊषॊ हि नान्यः कश चन पार्थिव एतज जानीहि भद्रं ते दानादाने परंतप ॥ 76 ॥
एवम उक्तस तु गाङ्गेयस तद युक्तं परत्यभाषत शृण्वतां भूमिपालानां पितुर अर्थाय भारत ॥ 77 ॥
इदं मे मतम आदत्स्व सत्यं सत्यवतां वर नैव जातॊ न वाजात ईदृशं वक्तुम उत्सहेत ॥ 78 ॥
एवम एतत करिष्यामि यथा तवम अनुभाषसे यॊ ऽसयां जनिष्यते पुत्रः स नॊ राजा भविष्यति ॥ 79 ॥
इत्य उक्तः पुनर एवाथ तं दाशः परत्यभाषत चिकीर्षुर दुष्करं कर्म राज्यार्थे भरतर्षभ ॥ 80 ॥
तवम एव नाथः पर्याप्तः शंतनॊर अमितद्युतेः कन्यायाश चैव धर्मात्मन परभुर दानाय चेश्वरः ॥ 81 ॥
इदं तु वचनं सौम्य कार्यं चैव निबॊध मे कौमारिकाणां शीलेन वक्ष्याम्य अहम अरिंदम ॥ 82 ॥
यत तवया सत्यवत्य अर्थे सत्यधर्मपरायण राजमध्ये परतिज्ञातम अनुरूपं तवैव तत ॥ 83 ॥
नान्यथा तन महाबाहॊ संशयॊ ऽतर न कश चन तवापत्यं भवेद यत तु तत्र नः संशयॊ महान ॥ 84 ॥
तस्य तन मतम आज्ञाय सत्यधर्मपरायणः परत्यजानात तदा राजन पितुः परियचिकीर्षया ॥ 85 ॥
[देवव्रत] दाशराजनिबॊधेदं वचनं मे नृपॊत्तम शृण्वतां भूमिपालानां यद बरवीमि पितुः कृते ॥ 86 ॥
राज्यं तावत पूर्वम एव मया तयक्तं नराधिप अपत्यहेतॊर अपि च करॊम्य एष विनिश्चयम ॥ 87 ॥
अद्य परभृति मे दाशब्रह्मचर्यं भविष्यति अपुत्रस्यापि मे लॊका भविष्यन्त्य अक्षया दिवि ॥ 88 ॥
[व] तस्य तद वचनं शरुत्वा संप्रहृष्टतनू रुहः ददानीत्य एव तं दाशॊ धर्मात्मा परत्यभाषत ॥ 89 ॥
ततॊ ऽनतरिक्षे ऽपसरसॊ देवाः सर्षिगणास तथा अभ्यवर्षन्त कुसुमैर भीष्मॊ ऽयम इति चाब्रुवन ॥ 90 ॥
ततः स पितुर अर्थाय ताम उवाच यशस्विनीम अधिरॊह रथं मातर गच्छावः सवगृहान इति ॥ 91 ॥
एवम उक्त्वा तु भीष्मस तां रथम आरॊप्य भामिनीम आगम्य हास्तिनपुरं शंतनॊः संन्यवेदयत ॥ 92 ॥
तस्य तद दुष्करं कर्म परशशंसुर नराधिपाः समेताश च पृथक चैव भीष्मॊ ऽयम इति चाब्रुवन ॥ 93 ॥
तद दृष्ट्वा दुष्करं कर्मकृतं भीष्मेण शंतनुः सवच्छन्दमरणं तस्मै ददौ तुष्टः पिता सवयम ॥ 94 ॥
आदिपर्व · Adi Parva
अध्याय 94
Reach this point to mark the section finished.
Continue to अध्याय 95