धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 93

  1. [षम्तनु] आपवॊ नाम कॊ नव एष वसूनां किं च दुष्कृतम यस्याभिशापात ते सर्वे मानुषीं तनुम आगताः ॥ 1 ॥

  2. अनेन च कुमारेण गङ्गा दत्तेन किं कृतम यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ॥ 2 ॥

  3. ईशानाः सर्वलॊकस्य वसवस ते च वै कृतम मानुषेषूदपद्यन्त तन ममाचक्ष्व जाह्नवि ॥ 3 ॥

  4. [व] सैवम उक्ता ततॊ गङ्गा राजानम इदम अब्रवीत भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम ॥ 4 ॥

  5. यं लेभे वरुणः पुत्रं पुरा भरतसत्तम वसिष्ठॊ नाम स मुनिः खयात आपव इत्य उत ॥ 5 ॥

  6. तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम मेरॊः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम ॥ 6 ॥

  7. स वारुणिस तपस तेपे तस्मिन भरतसत्तम वने पुण्यकृतां शरेष्ठः सवादुमूलफलॊदके ॥ 7 ॥

  8. दक्षस्य दुहिता या तु सुरभीत्य अतिगर्विता गां परजाता तु सा देवी कश्यपाद भरतर्षभ ॥ 8 ॥

  9. अनुग्रहार्थं जगतः सर्वकामदुघां वराम तां लेभे गां तु धर्मात्मा हॊमधेनुं स वारुणिः ॥ 9 ॥

  10. सा तस्मिंस तापसारण्ये वसन्ती मुनिसेविते चचार रम्ये धर्म्ये च गौर अपेतभया तदा ॥ 10 ॥

  11. अथ तद वनम आजग्मुः कदा चिद भरतर्षभ पृथ्व आद्या वसवः सर्वे देवदेवर्षिसेवितम ॥ 11 ॥

  12. ते सदारा वनं तच च वयचरन्त समन्ततः रेमिरे रमणीयेषु पर्वतेषु वनेषु च ॥ 12 ॥

  13. तत्रैकस्य तु भार्या वै वसॊर वासव विक्रम सा चरन्ती वने तस्मिन गां ददर्श सुमध्यमा या सा वसिष्ठस्य मुनेः सर्वकामधुग उत्तमा ॥ 13 ॥

  14. सा विस्मयसमाविष्टा शीलद्रविण संपदा दिवे वै दर्शयाम आस तां गां गॊवृषभेक्षण ॥ 14 ॥

  15. सवापीनां च सुदॊग्ध्रीं च सुवालधि मुखां शुभाम उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ॥ 15 ॥

  16. एवंगुणसमायुक्तां वसवे वसु नन्दिनी दर्शयाम आस राजेन्द्र पुरा पौरवनन्दन ॥ 16 ॥

  17. दयौस तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्र विक्रम उवाच राजंस तां देवीं तस्या रूपगुणान वदन ॥ 17 ॥

  18. एषा गौर उत्तमा देवि वारुणेर असितेक्षणे ऋषेस तस्य वरारॊहे यस्येदं वनम उत्तमम ॥ 18 ॥

  19. अस्याः कषीरं पिबेन मर्त्यः सवादु यॊ वै सुमध्यमे दशवर्षसहस्राणि स जीवेत सथिरयौवनः ॥ 19 ॥

  20. एतच छरुत्वा तु सा देवी नृपॊत्तम सुमध्यमा तम उवाचानवद्याङ्गी भर्तारं दीप्ततेजसम ॥ 20 ॥

  21. अस्ति मे मानुषे लॊके नरदेवात्मजा सखी नाम्ना जिनवती नाम रूपयौवन शालिनी ॥ 21 ॥

  22. उशीनरस्य राजर्षेः सत्यसंधस्य धीमतः दुहिता परथिता लॊके मानुषे रूपसंपदा ॥ 22 ॥

  23. तस्या हेतॊर महाभाग सवत्सां गां ममेप्सिताम आनयस्वामर शरेष्ठ तवरितं पुण्यवर्धन ॥ 23 ॥

  24. यावद अस्याः पयः पीत्वा सा सखी मम मानद मानुषेषु भवत्व एका जरा रॊगविवर्जिता ॥ 24 ॥

  25. एतन मम महाभाग कर्तुम अर्हस्य अनिन्दित परियं परियतरं हय अस्मान नासि मे ऽनयत कथं चन ॥ 25 ॥

  26. एतच छरुत्वा वचस तस्या देव्याः परियचिकीर्षया पृथ्व आद्यैर भरातृभिः सार्धं दयौस तदा तां जहार गाम ॥ 26 ॥

  27. तया कमलपत्राक्ष्या नियुक्तॊ दयौस तदा नृपः ऋषेस तस्य तपस तीव्रं न शशाक निरीक्षितुम हृता गौः सा तदा तेन परपातस तु न तर्कितः ॥ 27 ॥

  28. अथाश्रमपदं पराप्तः फलान्य आदाय वारुणिः न चापश्यत गां तत्र सवत्सां काननॊत्तमे ॥ 28 ॥

  29. ततः स मृगयाम आस वने तस्मिंस तपॊधनः नाध्यगच्छच च मृगयंस तां गां मुनिर उदारधीः ॥ 29 ॥

  30. जञात्वा तथापनीतां तां वसुभिर दिव्यदर्शनः ययौ करॊधवशं सद्यः शशाप च वसूंस तदा ॥ 30 ॥

  31. यस्मान मे वसवॊ जह्रुर गां वै दॊग्ध्रीं सुवालधिम तस्मात सर्वे जनिष्यन्ति मानुषेषु न संशयः ॥ 31 ॥

  32. एवं शशाप भगवान वसूंस तान मुनिसत्तमः वशं कॊपस्य संप्राप्त आपवॊ भरतर्षभ ॥ 32 ॥

  33. शप्त्वा च तान महाभागस तपस्य एव मनॊ दधे एवं स शप्तवान राजन वसून अष्टौ तपॊधनः महाप्रभावॊ बरह्मर्षिर देवान रॊषसमन्वितः ॥ 33 ॥

  34. अथाश्रमपदं पराप्य तं सम भूयॊ महात्मनः शप्ताः सम इति जानन्त ऋषिं तम उपचक्रमुः ॥ 34 ॥

  35. परसादयन्तस तम ऋषिं वसवः पार्थिवर्षभ न लेभिरे च तस्मात ते परसादम ऋषिसत्तमात आपवात पुरुषव्याघ्र सर्वधर्मविशारदात ॥ 35 ॥

  36. उवाच च स धर्मात्मा सप्त यूयं धरादयः अनुसंवत्सराच छापमॊक्षं वै समवाप्स्यथ ॥ 36 ॥

  37. अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति दयौस तदा मानुषे लॊके दीर्घकालं सवकर्मणा ॥ 37 ॥

  38. नानृतं तच चिकीर्षामि युष्मान करुद्धॊ यद अब्रुवम न परजास्यति चाप्य एष मानुषेषु महामनाः ॥ 38 ॥

  39. भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः पितुः परियहिते युक्तः सत्री भॊगान वर्जयिष्यति एवम उक्त्वा वसून सर्वाञ जगाम भगवान ऋषिः ॥ 39 ॥

  40. ततॊ माम उपजग्मुस ते समस्ता वसवस तदा अयाचन्त च मां राजन वरं स च मया कृतः जाताञ जातान परक्षिपास्मान सवयं गङ्गे तवम अम्भसि ॥ 40 ॥

  41. एवं तेषाम अहं सम्यक शप्तानां राजसत्तम मॊक्षार्थं मानुषाल लॊकाद यथावत कृतवत्य अहम ॥ 41 ॥

  42. अयं शापाद ऋषेस तस्य एक एव नृपॊत्तम दयौ राजन मानुषे लॊके चिरं वत्स्यति भारत ॥ 42 ॥

  43. एतद आख्याय सा देवी तत्रैवान्तरधीयत आदाय च कुमारं तं जगामाथ यथेप्सितम ॥ 43 ॥

  44. स तु देवव्रतॊ नाम गाङ्गेय इति चाभवत दविनामा शंतनॊः पुत्रः शंतनॊर अधिकॊ गुणैः ॥ 44 ॥

  45. शंतनुश चापि शॊकार्तॊ जगाम सवपुरं ततः तस्याहं कीर्तयिष्यामि शंतनॊर अमितान गुणान ॥ 45 ॥

  46. महाभाग्यं च नृपतेर भारतस्य यशस्विनः यथेतिहासॊ दयुतिमान महाभारतम उच्यते ॥ 46 ॥

Reach this point to mark the section finished.

Continue to अध्याय 94

Previous: अध्याय 92