धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 92

  1. [व] ततः परतीपॊ राजा स सर्वभूतहिते रतः निषसाद समा बह्वीर गङ्गातीरगतॊ जपन ॥ 1 ॥

  2. तस्य रूपगुणॊपेता गङ्गा शरीर इव रूपिणी उत्तीर्य सलिलात तस्माल लॊभनीयतमाकृतिः ॥ 2 ॥

  3. अधीयानस्य राजर्षेर दिव्यरूपा मनस्विनी दक्षिणं शालसंकाशम ऊरुं भेजे शुभानना ॥ 3 ॥

  4. परतीपस तु महीपालस ताम उवाच मनस्विनीम करवाणि किं ते कल्याणि परियं यत ते ऽभिकाङ्क्षितम ॥ 4 ॥

  5. [सत्री] तवाम अहं कामये राजन कुरुश्रेष्ठ भजस्व माम तयागः कामवतीनां हि सत्रीणां सद्भिर विगर्हितः ॥ 5 ॥

  6. [पर] नाहं परस्त्रियं कामाद गच्छेयं वरवर्णिनि न चासवर्णां कल्याणि धर्म्यं तद विद्धि मे वरतम ॥ 6 ॥

  7. [सत्री] नाश्रेयस्य अस्मि नागम्या न वक्तव्या च कर्हि चित भज ममां भजमानां तवं राजन कन्यां वरस्त्रियम ॥ 7 ॥

  8. [पर] मयातिवृत्तम एतत ते यन मां चॊदयसि परियम अन्यथा परतिपन्नं मां नाशयेद धर्मविप्लवः ॥ 8 ॥

  9. पराप्य दक्षिणम ऊरुं मे तवम आश्लिष्टा वराङ्गने अपत्यानां सनुषाणां च भीरु विद्ध्य एतद आसनम ॥ 9 ॥

  10. सव्यतः कामिनी भागस तवया स च विवर्जितः तस्माद अहं नाचरिष्ये तवयि कामं वराङ्गने ॥ 10 ॥

  11. सनुषा मे भव कल्याणि पुत्रार्थे तवां वृणॊम्य अहम सनुषापेक्षं हि वामॊरु तवम आगम्य समाश्रिता ॥ 11 ॥

  12. [सत्री] एवम अप्य अस्तु धर्मज्ञ संयुज्येयं सुतेन ते तवद्भक्त्यैव भजिष्यामि परख्यातं भारतं कुलम ॥ 12 ॥

  13. पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम गुणा न हि मया शक्या वक्तुं वर्षशतैर अपि कुलस्य ये वः परथितास तत साधुत्वम अनुत्तमम ॥ 13 ॥

  14. स मे नाभिजनज्ञः सयाद आचरेयं च यद विभॊ तत सर्वम एव पुत्रस ते न मीमांसेत कर्हि चित ॥ 14 ॥

  15. एवं वसन्ती पुत्रे ते वर्धयिष्याम्य अहं परियम पुत्रैः पुण्यैः परियैश चापि सवर्गं पराप्स्यति ते सुतः ॥ 15 ॥

  16. [व] तथेत्य उक्त्वा तु सा राजंस तत्रैवान्तरधीयत पुत्र जन्म परतीक्षंस तु स राजा तद अधारयत ॥ 16 ॥

  17. एतस्मिन्न एव काले तु परतीपः कषत्रियर्षभः तपस तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ॥ 17 ॥

  18. तयॊः समभवत पुत्रॊ वृद्धयॊः स महाभिषः शान्तस्य जज्ञे संतानस तस्माद आसीत स शंतनुः ॥ 18 ॥

  19. संस्मरंश चाक्षयाँल लॊकान विजितान सवेन कर्मणा पुण्यकर्मकृद एवासीच छंतनुः कुरु सत्तम ॥ 19 ॥

  20. परतीपः शंतनुं पुत्रं यौवनस्थं ततॊ ऽनवशात पुरा मां सत्री समभ्यागाच छंतनॊ भूतये तव ॥ 20 ॥

  21. तवाम आव्रजेद यदि रहः सा पुत्र वरवर्णिनी कामयानाभिरूपाढ्या दिव्या सत्री पुत्रकाम्यया सा तवया नानुयॊक्तव्या कासि कस्यासि वाङ्गने ॥ 21 ॥

  22. यच च कुर्यान न तत कार्यं परष्टव्या सा तवयानघ मन्नियॊगाद भजन्तीं तां भजेथा इत्य उवाच तम ॥ 22 ॥

  23. एवं संदिश्य तनयं परतीपः शंतनुं तदा सवे च राज्ये ऽभिषिच्यैनं वनं राजा विवेश ह ॥ 23 ॥

  24. स राजा शंतनुर धीमान खयातः पृथ्व्यां धनुर्धरः बभूव मृगया शीलः सततं वनगॊचरः ॥ 24 ॥

  25. स मृगान महिषांश चैव विनिघ्नन राजसत्तमः गङ्गाम अनुचचारैकः सिद्धचारणसेविताम ॥ 25 ॥

  26. स कदा चिन महाराज ददर्श परमस्त्रियम जाज्वल्यमानां वपुषा साक्षात पद्माम इव शरियम ॥ 26 ॥

  27. सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम सूक्ष्माम्बरधराम एकां पद्मॊदर समप्रभाम ॥ 27 ॥

  28. तां दृष्ट्वा हृष्टरॊमाभूद विस्मितॊ रूपसंपदा पिबन्न इव च नेत्राभ्यां नातृप्यत नराधिपः ॥ 28 ॥

  29. सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम सनेहाद आगतसौहार्दा नातृप्यत विलासिनी ॥ 29 ॥

  30. ताम उवाच ततॊ राजा सान्त्वयञ शलक्ष्णया गिरा देवी वा दानवी वा तवं गन्धर्वी यदि वाप्सराः ॥ 30 ॥

  31. यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे या वा तवं सुरगर्भाभे भार्या मे भव शॊभने ॥ 31 ॥

  32. एतच छरुत्वा वचॊ राज्ञः सस्मितं मृदु वल्गु च वसूनां समयं समृत्वा अभ्यगच्छद अनिन्दिता ॥ 32 ॥

  33. उवाच चैव राज्ञः सा हलादयन्ती मनॊ गिरा भविष्यामि महीपाल महिषी ते वशानुगा ॥ 33 ॥

  34. यत तु कुर्याम अहं राजञ शुभं वा यदि वाशुभम न तद वारयितव्यास्मि न वक्तव्या तथाप्रियम ॥ 34 ॥

  35. एवं हि वर्तमाने ऽहं तवयि वत्स्यामि पार्थिव वारिता विप्रियं चॊक्ता तयजेयं तवाम असंशयम ॥ 35 ॥

  36. तथेति राज्ञा सा तूक्ता तदा भरतसत्तम परहर्षम अतुलं लेभे पराप्य तं पार्थिवॊत्तमम ॥ 36 ॥

  37. आसाद्य शंतनुस तां च बुभुजे कामतॊ वशी न परष्टव्येति मन्वानॊ न स तां किं चिद ऊचिवान ॥ 37 ॥

  38. स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च उपचारेण च रहस तुतॊष जगतीपतिः ॥ 38 ॥

  39. दिव्यरूपा हि सा देवी गङ्गा तरिपथगा नदी मानुषं विग्रहं शरीमत कृत्वा सा वरवर्णिनी ॥ 39 ॥

  40. भाग्यॊपनत कामस्य भार्येवॊपस्थिताभवत शंतनॊ राजसिंहस्य देवराजसमद्युतेः ॥ 40 ॥

  41. संभॊगस्नेहचातुर्यैर हाव लास्यैर मनॊहरैः राजानं रमयाम आस यथा रेमे तथैव सः ॥ 41 ॥

  42. स राजा रतिसक्तत्वाद उत्तमस्त्री गुणैर हृतः संवत्सरान ऋतून मासान न बुबॊध बहून गतान ॥ 42 ॥

  43. रममाणस तया सार्धं यथाकामं जनेश्वरः अष्टाव अजनयत पुत्रांस तस्याम अमर वर्णिनः ॥ 43 ॥

  44. जातं जातं च सा पुत्रं कषिपत्य अम्भसि भारत परीणामि तवाहम इत्य उक्त्वा गङ्गा सरॊतस्य अमज्जयत ॥ 44 ॥

  45. तस्य तन न परियं राज्ञः शंतनॊर अभवत तदा न च तां किं चनॊवाच तयागाद भीतॊ महीपतिः ॥ 45 ॥

  46. अथ ताम अष्टमे पुत्रे जाते परहसिताम इव उवाच राजा दुःखार्तः परीप्सन पुत्रम आत्मनः ॥ 46 ॥

  47. मा वधीः कासि कस्यासि किं हिंससि सुतान इति पुत्रघ्नि सुमहत पापं मा परापस तिष्ठ गर्हिते ॥ 47 ॥

  48. [सत्री] पुत्र कामन ते हन्मि पुत्रं पुत्रवतां वर जीर्णस तु मम वासॊ ऽयं यथा स समयः कृतः ॥ 48 ॥

  49. अहं गङ्गा जह्नुसुता महर्षिगणसेविता देवकार्यार्थ सिद्ध्यर्थम उषिटाहं तवया सह ॥ 49 ॥

  50. अष्टमे वसवॊ देवा महाभागा महौजसः वसिष्ठ शापदॊषेण मानुषत्वम उपागताः ॥ 50 ॥

  51. तेषां जनयिता नान्यस तवदृते भुवि विद्यते मद्विधा मानुषी धात्री न चैवास्तीह का चन ॥ 51 ॥

  52. तस्मात तज जननी हेतॊर मानुषत्वम उपागता जनयित्वा वसून अष्टौ जिता लॊकास तवयाक्षयाः ॥ 52 ॥

  53. देवानां समयस तव एष वसूनां संश्रुतॊ मया जातं जातं मॊक्षयिष्ये जन्मतॊ मानुषाद इति ॥ 53 ॥

  54. तत ते शापाद विनिर्मुक्ता आपवस्य महात्मनः सवस्ति ते ऽसतु गमिष्यामि पुत्रं पाहि महाव्रतम ॥ 54 ॥

  55. एष पर्याय वासॊ मे वसूनां संनिधौ कृतः मत्प्रसूतं विजानीहि गङ्गा दत्तम इमं सुतम ॥ 55 ॥

Reach this point to mark the section finished.

Continue to अध्याय 93

Previous: अध्याय 91