[व] इक्ष्वाकुवंशप्रभवॊ राजासीत पृथिवीपतिः महाभिष इति खयातः सत्यवाक सत्यविक्रमः ॥ 1 ॥
सॊ ऽशवमेध सहस्रेण वाजपेयशतेन च तॊषयाम आस देवेन्द्रं सवर्गं लेभे ततः परभुः ॥ 2 ॥
ततः कदा चिद बरह्माणम उपासां चक्रिरे सुराः तत्र राजर्षयॊ आसन स च राजा महाभिषः ॥ 3 ॥
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात पितामहम तस्या वासः समुद्भूतं मारुतेन शशिप्रभम ॥ 4 ॥
ततॊ ऽभवन सुरगणाः सहसावाङ्मुखास तदा महाभिषस तु राजर्षिर अशङ्कॊ दृष्टवान नदीम ॥ 5 ॥
अपध्यातॊ भगवता बरह्मणा स महाभिषः उक्तश च जातॊ मर्त्येषु पुनर लॊकान अवाप्स्यसि ॥ 6 ॥
स चिन्तयित्वा नृपतिर नृपान सर्वांस तपॊधनान परतीपं रॊचयाम आस पितरं भूरि वर्चसम ॥ 7 ॥
महाभिषं तु तं दृष्ट्वा नदी धैर्याच चयुतं नृपम तम एव मनसाध्यायम उपावर्तत सरिद वरा ॥ 8 ॥
सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः ददर्श पथि गच्छन्ती वसून देवान दिवौकसः ॥ 9 ॥
तथारूपांश च तान दृष्ट्वा पप्रच्छ सरितां वरा किम इदं नष्टरूपाः सथ कच चित कषेमं दिवौकसाम ॥ 10 ॥
ताम ऊचुर वसवॊ देवाः शप्ताः समॊ वै महानदि अल्पे ऽपराधे संरम्भाद वसिष्ठेन महात्मना ॥ 11 ॥
विमूढा हि वयं सर्वे परच्छन्नम ऋषिसत्तमम संध्यां वसिष्ठम आसीनं तम अत्यभिसृताः पुरा ॥ 12 ॥
तेन कॊपाद वयं शप्ता यॊनौ संभवतेति ह न शक्यम अन्यथा कर्तुं यद उक्तं बरह्मवादिना ॥ 13 ॥
तवं तस्मान मानुषी भूत्वा सूष्व पुत्रान वसून भुवि न मानुषीणां जठरं परविशेमाशुभं वयम ॥ 14 ॥
इत्य उक्ता तान वसून गङ्गा तथेत्य उक्त्वाब्रवीद इदम मर्त्येषु पुरुषश्रेष्ठः कॊ वः कर्ता भविष्यति ॥ 15 ॥
[वसवह] परतीपस्य सुतॊ राजा शंतनुर नाम धार्मिकः भविता मानुषे लॊके स नः कर्ता भविष्यति ॥ 16 ॥
[गन्गा] ममाप्य एवं मतं देवा यथावद अत मानघाः परियं तस्य करिष्यामि युष्माकं चैतद ईप्शितम ॥ 17 ॥
[वसवह] जातान कुमारान सवान अप्सु परक्षेप्तुं वै तवम अर्हसि यथा नचिर कालं नॊ निष्कृतिः सयात तरिलॊकगे ॥ 18 ॥
[ग] एवम एतत करिष्यामि पुत्रस तस्य विधीयताम नास्य मॊघः संगमः सयात पुत्र हेतॊर मया सह ॥ 19 ॥
[वसवह] तुरीयार्धं परदास्यामॊ वीर्यस्यैकैकशॊ वयम तेन वीर्येण पुत्रस ते भविता तस्य चेप्सितः ॥ 20 ॥
न संपत्स्यति मर्त्येषु पुनस तस्य तु संततिः तस्माद अपुत्रः पुत्रस ते भविष्यति स वीर्यवान ॥ 21 ॥
[व] एवं ते समयं कृत्वा गङ्गया वसवः सह जग्मुः परहृष्टमनसॊ यथा संकल्पम अञ्जसा ॥ 22 ॥
आदिपर्व · Adi Parva
अध्याय 91
Reach this point to mark the section finished.
Continue to अध्याय 92