[ज] शरुतस तवत्तॊ मया विप्र पूर्वेषां संभवॊ महान उदाराश चापि वंशे ऽसमिन राजानॊ मे परिश्रुताः ॥ 1 ॥
किं तु लघ्व अर्थसंयुक्तं परियाख्यानं न माम अति परीणात्य अतॊ भवान भूयॊ विस्तरेण बरवीतु मे ॥ 2 ॥
एताम एव कथां दिव्याम आप्रजा पतितॊ मनॊः तेषाम आजननं पुण्यं कस्य न परीतिम आवहेत ॥ 3 ॥
सद धर्मगुणमाहात्म्यैर अभिवर्धितम उत्तमम विष्टभ्य लॊकांस तरीन एषां यशः सफीतम अवस्थितम ॥ 4 ॥
गुणप्रभाव वीर्यौजः सत्त्वॊत्साहवताम अहम न तृप्यामि कथां शृण्वन्न अमृतास्वाद संमिताम ॥ 5 ॥
[व] शृणु राजन पुरा सम्यङ मया दवैपायनाच छरुतम परॊच्यमानम इदं कृत्स्नं सववंशजननं शुभम ॥ 6 ॥
दक्षस्यादितिः अदितेर विवस्वान विवस्वतॊ मनुः मनॊर इला इलायाः पुरूरवाः पुरूरवस आयुः आयुषॊ नहुषः नहुषस्य ययातिः ॥ 7 ॥
ययातेर दवे भार्ये बभूवतुः उशनसॊ दुहिता देव यानी वृषपर्वणश च दुहिता शर्मिष्ठा नाम अत्रानुवंशॊ भवति ॥ 8 ॥
यदुं च तुर्वसुं चैव देव यानी वयजायत दरुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ 9 ॥
तत्र यदॊर यादवाः पूरॊः पौरवाः ॥ 10 ॥
पूरॊर भार्या कौसल्या नाम तस्याम अस्य जज्ञे जनमेजयॊ नाम यस तरीन अश्वमेधान आजहार विश्वजिता चेष्ट्वा वनं परविवेश ॥ 11 ॥
जनमेजयः खल्व अनन्तां नामॊपयेमे माधवीम तस्याम अस्य जज्ञे पराचिन्वान यः पराचीं दिशं जिगाय यावत सूर्यॊदयात ततस तस्य पराचिन्वत्वम ॥ 12 ॥
पराचिन्वान खल्व अश्मकीम उपयेमे तस्याम अस्य जज्ञे संयातिः ॥ 13 ॥
संयातिः खलु दृषद्वतॊ दुहितरं वराङ्गीं नामॊपयेमे तस्याम अस्य जज्ञे अहं पातिः ॥ 14 ॥
अहं पातिस तु खलु कृतवीर्यदुहितरम उपयेमे भानुमतीं नाम तस्याम अस्य जज्ञे सार्वभौमः ॥ 15 ॥
सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम तस्याम अस्य जज्ञे जयत्सेनः ॥ 16 ॥
जयत्सेनः खलु वैदर्भीम उपयेमे सुषुवां नाम तस्याम अस्य जज्ञे अराचीनः ॥ 17 ॥
अराचीनॊ ऽपि वैदर्भीम एवापराम उपयेमे मर्यादां नाम तस्याम अस्य जज्ञे महाभौमः ॥ 18 ॥
महाभौमः खलु परासेनजितीम उपयेमे सुयज्ञां नाम तस्याम अस्य जज्ञे अयुत नायी यः पुरुषमेधानाम अयुतम आनयत तद अस्यायुत नायित्वम ॥ 19 ॥
अयुतनायी खलु पृथुश्रवसॊ दुहितरम उपयेमे भासां नाम तस्याम अस्य जज्ञे अक्रॊधनः ॥ 20 ॥
अक्रॊधनः खलु कालिनीं करण्डुं नामॊपयेमे तस्याम अस्य जज्ञे देवातिथिः ॥ 21 ॥
देवातिथिः खलु वैदेहीम उपयेमे मर्यादां नाम तस्याम अस्य जज्ञे ऋचः ॥ 22 ॥
ऋचः खल्व आङ्गेयीम उपयेमे सुदेवां नाम तस्यां पुत्रम अजनयद ऋक्षम ॥ 23 ॥
ऋक्षः खलु तक्षक दुहितरम उपयेमे जवालां नाम तस्यां पुत्रं मतिनारं नामॊत्पादयाम आस ॥ 24 ॥
मतिनारः खलु सरस्वत्यां दवादश वार्षिकं सत्रम आजहार ॥ 25 ॥
निवृत्ते च सत्रे सरस्वत्य अभिगम्य तं भर्तारं वरयाम आस तस्यां पुत्रम अजनयत तंसुं नाम ॥ 26 ॥
अत्रानुवंशॊ भवति ॥ 27 ॥
तंसुं सरस्वती पुत्रं मतिनाराद अजीजनत इलिनं जनयाम आस कालिन्द्यां तंसुर आत्मजम ॥ 28 ॥
इलिनस तु रथंतर्यां दुःषन्ताद्यान पञ्च पुत्रान अजनयत ॥ 29 ॥
दुःषन्तः खलु विश्वामित्र दुहितरं शकुन्तलां नामॊपयेमे तस्याम अस्य जज्ञे भरतः तत्र शलॊकौ भवतः ॥ 30 ॥
माता भस्त्रा पितुः पुत्रॊ येन जातः स एव सः भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम ॥ 31 ॥
रेतॊ धाः पुत्र उन्नयति नरदेव यमक्षयात तवं चास्य धाता गर्भस्य सत्याम आह शकुन्तला ॥ 32 ॥
ततॊ ऽसय भरतत्वम ॥ 33 ॥
भरतः खलु काशेयीम उपयेमे सार्वसेनीं सुनन्दां नाम तस्याम अस्य जज्ञे भुमन्युः ॥ 34 ॥
भुमन्युः खलु दाशार्हीम उपयेमे जयां नाम तस्याम अस्य जज्ञे सुहॊत्रः ॥ 35 ॥
सुहॊत्रः खल्व इक्ष्वाकुकन्याम उपयेमे सुवर्णां नाम तस्याम अस्य जज्ञे हस्ती य इदं हास्तिनपुरं मापयाम आस एतद अस्य हास्तिनपुरत्वम ॥ 36 ॥
हस्ती खलु तरैगर्तीम उपयेमे यशॊधरां नाम तस्याम अस्य जज्ञे विकुण्ठनः ॥ 37 ॥
विकुण्ठनः खलु दाशार्हीम उपयेमे सुदेवां नाम तस्याम अस्य जज्ञे ऽजमीढः ॥ 38 ॥
अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धर्यां विमलायाम ऋक्षायां चेति पृथक्पृथग वंशकरा नृपतयः तत्र वंशकरः संवरणः ॥ 39 ॥
संवरणः खलु वैवस्वतीं तपतीं नामॊपयेमे तस्याम अस्य जज्ञे कुरुः ॥ 40 ॥
कुरुः खलु दाशार्हीम उपयेमे शुभाङ्गीं नाम तस्याम अस्य जज्ञे विडूरथः ॥ 41 ॥
विडूरथस तु मागधीम उपयेमे संप्रियां नाम तस्याम अस्य जज्ञे ऽरुग्वान नाम ॥ 42 ॥
अरुग्वान खलु मागधीम उपयेमे ऽमृतां नाम तस्याम अस्य जज्ञे परिक्षित ॥ 43 ॥
परिक्षित खलु बाहुदाम उपयेमे सुयशां नाम तस्याम अस्य जज्ञे भीमसेनः ॥ 44 ॥
भीमसेनः खलु कैकेयीम उपयेमे सुकुमारीं नाम तस्याम अस्य जज्ञे पर्यश्रवाः यम आहुः परतीपं नाम ॥ 45 ॥
परतीपः खलु शैब्याम उपयेमे सुनन्द्दां नाम तस्यां पुत्रान उत्पादयाम आस देवापिं शंतनुं बाह्लीकं चेति ॥ 46 ॥
देवापिः खलु बाल एवारण्यं परविवेश शंतनुस तु महीपालॊ ऽभवत अत्रानुवंशॊ भवति ॥ 47 ॥
यं यं कराभ्यां सपृशति जीर्णं स सुखम अश्नुते पुनर युवा च भवति तस्मात तं शंतनुं विदुः ॥ 48 ॥
तद अस्य शंतनुत्वम ॥ 49 ॥
शंतनुः खलु गनां भागीरथीम उपयेमे तस्याम अस्य जज्ञे देवव्रतः यम आहुर भीष्म इति ॥ 50 ॥
भीष्मः खलु पितुः परियचिकीर्षया सत्यवतीम उदवहन मातरम याम आहुर गन्धकालीति ॥ 51 ॥
तस्यां कानीनॊ गर्भः पराशराद दवैपायनः तस्याम एव शंतनॊर दवौ पुत्रॊ बभूवतुः चित्राङ्गदॊ विचित्रवीर्यश च ॥ 52 ॥
तयॊर अप्राप्तयौवन एव चित्राङ्गदॊ गन्धर्वेण हतः विचित्रवीर्यस तु राजा समभवत ॥ 53 ॥
विचित्रवीर्यः खलु कौसल्यात्मजे ऽमबिकाम्बालिके काशिराज दुहितराव उपयेमे ॥ 54 ॥
विचित्रवीर्यस तव अनपत्य एव विदेहत्वं पराप्तः ॥ 55 ॥
ततः सत्यवती चिन्तयाम आस दौःषन्तॊ वंश उच्छिद्यते इति ॥ 56 ॥
सा दवैपायनम ऋषिं चिन्तयाम आस ॥ 57 ॥
स तस्याः पुरतः सथितः किं करवाणीति ॥ 58 ॥
सा तम उवाच भराता तवानपत्य एव सवर्यातॊ विचित्रवीर्यः साध्व अपत्यं तस्यॊत्पादयेति ॥ 59 ॥
स परम इत्य उक्त्वा तरीन पुत्रान उत्पादयाम आस धृतराष्ट्रं पाण्डुं विदुरं चेति ॥ 60 ॥
तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद दवैपायनस्य ॥ 61 ॥
तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः परधाना बभूवुर दुर्यॊधनॊ दुःशासनॊ विकर्णश चित्रसेनेति ॥ 62 ॥
पाण्डॊस तु दवे भार्ये बभूवतुः कुन्ती माद्री चेत्य उभे सत्रीरत्ने ॥ 63 ॥
अथ पाण्डुर मृगयां चरन मैथुन गतम ऋषिम अपश्यन मृग्यां वर्तमानम तथैवाप्लुत मनासादित कामरसम अतृप्तं बाणेनाभिजघान ॥ 64 ॥
स बाणविद्धॊवाच पाण्डुम चरता धर्मम इयं येन तवयाभिज्ञेन कामरसस्याहम अनवाप्तकामरसॊ ऽभिहतस तस्मात तवम अप्य एताम अवस्थाम आसाद्यानवाप्त कामरसः पञ्चत्वम आप्स्यसि कषिप्रम एवेति ॥ 65 ॥
स विवर्णरूपः पाण्डुः शापं परिहरमाणॊ नॊपासर्पत भार्ये ॥ 66 ॥
वाक्यं चॊवाच सवचापल्याद इदं पराप्तवान अहम शृणॊमि च नानपत्यस्य लॊका सन्तीति ॥ 67 ॥
सा तवं मदर्थे पुत्रान उत्पादयेति कुन्तीम उवाच ॥ 68 ॥
सा तत्र पुत्रान उत्पादयाम आस धर्माद युधिष्ठिरं मारुताद भीमसेनं शक्राद अर्जुनम इति ॥ 69 ॥
स तां हृष्टरूपः पाण्डुर उवाच इयं ते सपत्न्यनपत्या साध्व अस्याम अपत्यम उत्पाद्यताम इति ॥ 70 ॥
सैवम अस्त्व इत्य उक्तः कुन्त्या ॥ 71 ॥
ततॊ माद्र्याम अश्विभ्यां नकुल सहदेवाव उत्पादितौ ॥ 72 ॥
माद्रीं खल्व अलंकृतां दृष्ट्वा पाण्डुर भावं चक्रे ॥ 73 ॥
स तां सपृष्ट्वैव विदेहत्वं पराप्तः ॥ 74 ॥
तत्रैनं चितास्थं माद्री समन्वारुरॊह ॥ 75 ॥
उवाच कुन्तीम यमयॊर आर्ययाप्रमत्तया भवितव्यम इति ॥ 76 ॥
ततस ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरम आनीय तापसैर भीष्मस्य विदुरस्य च निवेदिताः ॥ 77 ॥
तत्रापि जतु गृहे दग्धुं समारब्धा न शकिता विदुर मन्त्रितेन ॥ 78 ॥
ततश च हिडिम्बम अन्तरा हत्वैक चक्रां गताः ॥ 79 ॥
तस्याम अप्य एकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चाल नगरम अभिगताः ॥ 80 ॥
तस्माद दरौपदीं भार्याम अविन्दन सवविषयं चाजग्मुः कुशलिनः ॥ 81 ॥
पुत्रांश चॊत्पादयाम आसुः परतिविन्ध्यं युधिष्ठिरः सुत सॊमं वृकॊदरः शरुतकीर्तिम अर्जुनः शतानीकं नकुलः शरुतकर्माणं सहदेवेति ॥ 82 ॥
युधिष्ठिरस तु गॊवासनस्य शैब्यस्य देविकां नाम कन्यां सवयंवरे लेभे तस्यां पुत्रं जनयाम आस यौधेयं नाम ॥ 83 ॥
भीमसेनॊ ऽपि काश्यां बलधरां नामॊपयेमे वीर्यशुल्काम तस्यां पुत्रं सर्वगं नामॊत्पादयाम आस ॥ 84 ॥
अर्जुनः खलु दवारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्याम उदवहत तस्यां पुत्रम अभिमन्युं नाम जनयाम आस ॥ 85 ॥
नकुलस तु चैद्यां करेणुवतीं नाम भार्याम उदवहत तस्यां पुत्रं निरमित्रं नामाजनयत ॥ 86 ॥
सहदेवॊ ऽपि माद्रीम एव सवयंवरे विजयां नामॊपयेमे तस्यां पुत्रम अजनयत सुहॊत्रं नाम ॥ 87 ॥
भीमसेनस तु पूर्वम एव हिडिम्बायां राक्षस्यां घटॊत्कचं नाम पुत्रं जनयाम आस ॥ 88 ॥
इत्य एत एकादश पाण्डवानां पुत्राः ॥ 89 ॥
विराटस्य दुहितरम उत्तरां नामाभिमन्युर उपयेमे तस्याम अस्य परासुर गर्भॊ ऽजायत ॥ 90 ॥
तम उत्सङ्गेन परतिजग्राह पृथा नियॊगात पुरुषॊत्तमस्य वासुदेवस्य षाण्मासिकं गर्भम अहम एनं जीवयिष्यामीति ॥ 91 ॥
संजीवयित्वा चैनम उवाच परिक्षीणे कुले जातॊ भवत्व अयं परिक्षिन नामेति ॥ 92 ॥
परिक्षित तु खलु माद्रवतीं नामॊपयेमे तस्याम अस्य जनमेजयः ॥ 93 ॥
जनमेजयात तु वपुष्टमायां दवौ पुत्रौ शतानीकः शङ्कुश च ॥ 94 ॥
शतानीकस तु खलु वैदेहीम उपयेमे तस्याम अस्य जज्ञे पुत्रॊ ऽशवमेध दत्तः ॥ 95 ॥
इत्य एष पूरॊर वंशस तु पाण्डवानां च कीर्तितः पूरॊर वंशम इमं शरुत्वा सर्वपापैः परमुच्यते ॥ 96 ॥
आदिपर्व · Adi Parva
अध्याय 90
Reach this point to mark the section finished.
Continue to अध्याय 91