[ज] भगवञ शरॊतुम इच्छामि पूरॊर वंशकरान नृपान यद वीर्या यादृशाश चैव यावन्तॊ यत पराक्रमाः ॥ 1 ॥
न हय अस्मिञ शीलहीनॊ वा निर्वीर्यॊ वा नराधिपः परजा विरहितॊ वापि भूतपूर्वः कदा चन ॥ 2 ॥
तेषां परथितवृत्तानां राज्ञां विज्ञानशालिनाम चरितं शरॊतुम इच्छामि विस्तरेण तपॊधन ॥ 3 ॥
[व] हन्त ते कथयिष्यामि यन मां तवं परिपृच्छसि पूरॊर वंशधरान वीराञ शक्र परतिमतेजसः ॥ 4 ॥
परवीरेश्वर रौद्राश्वास तरयः पुत्रा महारथाः पूरॊः पौष्ठ्याम अजायन्त परवीरस तत्र वंशकृत ॥ 5 ॥
मनस्युर अभवत तस्माच छूरः शयेनी सुतः परभुः पृथिव्याश चतुरन्ताया गॊप्ता राजीवलॊचनः ॥ 6 ॥
सुभ्रूः संहननॊ वाग्मी सौवीरी तनयास तरयः मनस्यॊर अभवन पुत्राः शूराः सर्वे महारथाः ॥ 7 ॥
रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः यज्वानॊ जज्ञिरे शूराः परजावन्तॊ बहुश्रुताः सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः ॥ 8 ॥
ऋचेपुर अथ कक्षेपुः कृकणेपुश च वीर्यवान सथण्डिले पूर्वनेपुश च सथलेपुश च महारथः ॥ 9 ॥
तेजेपुर बलवान धीमान सत्येपुश चेन्द्र विक्रमः धर्मेपुः संनतेपुश च दशमॊ देव विक्रमः अनाधृष्टि सुतास तात राजसूयाश्वमेधिनः ॥ 10 ॥
मतिनारस ततॊ राजा विद्वांश चर्चेपुतॊ ऽभवत मतिनार सुता राजंश चत्वारॊ ऽमितविक्रमाः तंसुर महान अतिरथॊ दरुह्युश चाप्रतिमद्युतिः ॥ 11 ॥
तेषां तंसुर महावीर्यः पौरवं वंशम उद्वहन आजहार यशॊ दीप्तं जिगाय च वसुंधराम ॥ 12 ॥
इलिनं तु सुतं तंसुर जनयाम आस वीर्यवान सॊ ऽपि कृत्स्नाम इमां भूमिं विजिग्ये जयतां वरः ॥ 13 ॥
रथंतर्यां सुतान पञ्च पञ्च भूतॊपमांस ततः इलिनॊ जनयाम आस दुःषन्तप्रभृतीन नृप ॥ 14 ॥
दुःषन्तं शूर भीमौ च परपूर्वं वसुम एव च तेषां जयेष्ठॊ ऽभवद राजा दुःषन्तॊ जनमेजय ॥ 15 ॥
दुःषन्ताद भरतॊ जज्ञे विद्वाञ शाकुन्तलॊ नृपः तस्माद भरत वंशस्य विप्रतस्थे महद यशः ॥ 16 ॥
भरतस तिसृषु सत्रीषु नव पुत्रान अजीजनत नाभ्यनन्दन्त तान राजा नानुरूपा ममेत्य उत ॥ 17 ॥
ततॊ महद्भिः करतुभिर ईजानॊ भरतस तदा लेभे पुत्रं भरद्वाजाद भुमन्युं नाम भारत ॥ 18 ॥
ततः पुत्रिणम आत्मानं जञात्वा पौरवनन्दनः भुमन्युं भरतश्रेष्ठ यौवराज्ये ऽभयषेचयत ॥ 19 ॥
ततस तस्य महीन्द्रस्य वितथः पुत्रकॊ ऽभवत ततः स वितथॊ नाम भुमन्यॊर अभवत सुतः ॥ 20 ॥
सुहॊत्रश च सुहॊता च सुहविः सुयजुस तथा पुष्करिण्याम ऋचीकस्य भुमन्यॊर अभवन सुताः ॥ 21 ॥
तेषां जयेष्ठः सुहॊत्रस तु राज्यम आप महीक्षिताम राजसूयाश्वमेधाद्यैः सॊ ऽयजद बहुभिः सवैः ॥ 22 ॥
सुहॊत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम ॥ 23 ॥
ममज्जेव मही तस्य भूरि भारावपीडिता हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम ॥ 24 ॥
सुहॊत्रे राजनि तदा धर्मतः शासति परजाः चैत्ययूपाङ्किता चासीद भूमिः शतसहस्रशः परवृद्धजनसस्या च सहदेवा वयरॊचत ॥ 25 ॥
ऐक्ष्वाकी जनयाम आस सुहॊत्रात पृथिवीपतेः अजमीढं सुमीढं च पुरुमीढं च भारत ॥ 26 ॥
अजमीढॊ वरस तेषां तस्मिन वंशः परतिष्ठितः षट पुत्रान सॊ ऽपय अजनयत तिसृषु सत्रीषु भारत ॥ 27 ॥
ऋक्षं भूमिन्य अथॊ नीली दुःषन्त परमेष्ठिनौ केशिन्य अजनयज जह्नुम उभौ च जनरूपिणौ ॥ 28 ॥
तथेमे सर्वपाञ्चाला दुःषन्त परमेष्ठिनॊः अन्वयाः कुशिका राजञ जह्नॊर अमिततेजसः ॥ 29 ॥
जनरूपिणयॊर जयेष्ठम ऋक्षम आहुर जनाधिपम ऋक्षात संवरणॊ जज्ञे राजन वंशकरस तव ॥ 30 ॥
आर्क्षे संवरणे राजन परशासति वसुंधराम संक्षयः सुमहान आसीत परजानाम इति शुश्रुमः ॥ 31 ॥
वयशीर्यत ततॊ राष्ट्रं कषयैर नानाविधैस तथा कषुन मृत्युभ्याम अनावृष्ट्या वयाधिभिश च समाहतम अभ्यघ्नन भारतांश चैव सपत्नानां बलानि च ॥ 32 ॥
चालयन वसुधां चैव बलेन चतुरङ्गिणा अभ्ययात तं च पाञ्चाल्यॊ विजित्य तरसा महीम अक्षौहिणीभिर दशभिः स एनं समरे ऽजयत ॥ 33 ॥
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः राजा संवरणस तस्मात पलायत महाभयात ॥ 34 ॥
सिन्धॊर नदस्य महतॊ निकुञ्जे नयवसत तदा नदी विषयपर्यन्ते पर्वतस्य समीपतः तत्रावसन बहून कालान भारता दुर्गमाश्रिताः ॥ 35 ॥
तेषां निवसतां तत्र सहस्रं परिवत्सरान अथाभ्यगच्छद भरतान वसिष्ठॊ भगवान ऋषिः ॥ 36 ॥
तम आगतं परयत्नेन परत्युद्गम्याभिवाद्य च अर्घ्यम अभ्याहरंस तस्मै ते सर्वे भारतास तदा निवेद्य सर्वम ऋषये सत्कारेण सुवर्चसे ॥ 37 ॥
तं समाम अष्टमीम उष्टं राजा वव्रे सवयं तदा पुरॊहितॊ भवान नॊ ऽसतु राज्याय परयतामहे ओम इत्य एवं वसिष्ठॊ ऽपि भारतान परत्यपद्यत ॥ 38 ॥
अथाभ्यषिञ्चत साम्राज्ये सर्वक्षत्रस्य पौरवम विषाण भूतं सर्वस्यां पृथिव्याम इति नः शरुतम ॥ 39 ॥
भरताध्युषितं पूर्वं सॊ ऽधयतिष्ठत पुरॊत्तमम पुनर बलिभृतश चैव चक्रे सर्वमहीक्षितः ॥ 40 ॥
ततः स पृथिवीं पराप्य पुनर ईजे महाबलः आजमीढॊ महायज्ञैर बहुभिर भूरिदक्षिणैः ॥ 41 ॥
ततः संवरणात सौरी सुषुवे तपती कुरुम राजत्वे तं परजाः सर्वा धर्मज्ञ इति वव्रिरे ॥ 42 ॥
तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ॥ 43 ॥
अश्ववन्तम अभिष्वन्तं तथा चित्ररथं मुनिम जनमेजयं च विख्यातं पुत्रांश चास्यानुशुश्रुमः पञ्चैतान वाहिनी पुत्रान वयजायत मनस्विनी ॥ 44 ॥
अभिष्वतः परिक्षित तु शबलाश्वश च वीर्यवान अभिराजॊ विराजश च शल्मलश च महाबलः ॥ 45 ॥
उच्चैःश्रवा भद्र कारॊ जितारिश चाष्टमः समृतः एतेषाम अन्ववाये तु खयातास ते कर्मजैर गुणैः ॥ 46 ॥
जनमेजयादयः सप्त तथैवान्ये महाबलाः परिक्षितॊ ऽभवन पुत्राः सर्वे धर्मार्थकॊविदाः ॥ 47 ॥
कक्षसेनॊग्र सेनौ च चित्रसेनश च वीर्यवान इन्द्रसेनः सुषेणश च भीमसेनश च नामतः ॥ 48 ॥
जनमेजयस्य तनया भुवि खयाता महाबलाः धृतराष्ट्रः परथमजः पाण्डुर बाह्लीक एव च ॥ 49 ॥
निषधश च महातेजास तथा जाम्बूनदॊ बली कुण्डॊदरः पदातिश च वसातिश चाष्टमः समृतः सर्वे धर्मार्थकुशलाः सर्वे भूतिहिते रताः ॥ 50 ॥
धृतराष्ट्रॊ ऽथ राजासीत तस्य पुत्रॊ ऽथ कुण्डिकः हस्ती वितर्कः कराथश च कुण्डलश चापि पञ्चमः हविः शरवास तथेन्द्राभः सुमन्युश चापराजितः ॥ 51 ॥
परतीपस्य तरयः पुत्रा जज्ञिरे भरतर्षभ देवापिः शंतनुश चैव बाह्लीकश च महारथः ॥ 52 ॥
देवापिस तु परवव्राज तेषां धर्मपरीप्सया शंतनुश च महीं लेभे बाह्लीकश च महारथः ॥ 53 ॥
भरतस्यान्वये जाताः सत्त्ववन्तॊ महारथाः देवर्षिकल्पा नृपते बहवॊ राजसत्तमाः ॥ 54 ॥
एवंविधाश चाप्य अपरे देवकल्पा महारथाः जाता मनॊर अन्ववाये ऐल वंशविवर्धनाः ॥ 55 ॥
आदिपर्व · Adi Parva
अध्याय 89
Reach this point to mark the section finished.
Continue to अध्याय 90