धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 9

  1. [सूत] तेषु तत्रॊपविष्टेषु बराह्मणेषु समन्ततः रुरुश चुक्रॊश गहनं वनं गत्वा सुदुःखितः ॥ 1 ॥

  2. शॊकेनाभिहतः सॊ ऽथ विलपन करुणं बहु अब्रवीद वचनं शॊचन परियां चिन्त्य परमद्वराम ॥ 2 ॥

  3. शेते सा भुवि तन्व अङ्गी मम शॊकविवर्धिनी बान्धवानां च सर्वेषां किं नु दुःखम अतः परम ॥ 3 ॥

  4. यदि दत्तं तपस तप्तं गुरवॊ वा मया यदि सम्यग आराधितास तेन संजीवतु मम परिया ॥ 4 ॥

  5. यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः परमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी ॥ 5 ॥

  6. [देवदूत] अभिधत्से ह यद वाचा रुरॊ दुःखेन तन मृषा न तु मर्त्यस्य धर्मात्मन्न आयुर अस्ति गतायुषः ॥ 6 ॥

  7. गतायुर एषा कृपणा गन्धर्वाप्सरसॊः सुता तस्माच छॊके मनस तात मा कृथास तवं कथं चन ॥ 7 ॥

  8. उपायश चात्र विहितः पूर्वं देवैर महात्मभिः तं यदीच्छसि कर्तुं तवं पराप्स्यसीमां परमद्वराम ॥ 8 ॥

  9. [र] क उपायः कृतॊ देवैर बरूहि तत्त्वेन खेचर करिष्ये तं तथा शरुत्वा तरातुम अर्हति मां भवान ॥ 9 ॥

  10. [द] आयुषॊ ऽरधं परयच्छस्व कन्यायै भृगुनन्दन एवम उत्थास्यति रुरॊ तव भार्या परमद्वरा ॥ 10 ॥

  11. [र] आयुषॊ ऽरधं परयच्छामि कन्यायै खेचरॊत्तम शृङ्गाररूपाभरणा उत्तिष्ठतु मम परिया ॥ 11 ॥

  12. [स] ततॊ गन्धर्वराजश च देवदूतश च सत्तमौ धर्मराजम उपेत्येदं वचनं परत्यभाषताम ॥ 12 ॥

  13. धर्मराजायुषॊ ऽरधेन रुरॊर भार्या परमद्वरा समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे ॥ 13 ॥

  14. [ध] परमद्वरा रुरॊर भार्या देवदूत यदीच्छसि उत्तिष्ठत्व आयुषॊ ऽरधेन रुरॊर एव समन्विता ॥ 14 ॥

  15. [स] एवम उक्ते ततः कन्या सॊदतिष्ठत परमद्वरा रुरॊस तस्यायुषॊ ऽरधेन सुप्तेव वरवर्णिनी ॥ 15 ॥

  16. एतद दृष्टं भविष्ये हि रुरॊर उत्तमतेजसः आयुषॊ ऽतिप्रवृद्धस्य भार्यार्थे ऽरधं हरसत्व इति ॥ 16 ॥

  17. तत इष्टे ऽहनि तयॊः पितरौ चक्रतुर मुदा विवाहं तौ च रेमाते परस्परहितैषिणौ ॥ 17 ॥

  18. स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्क सप्रभाम वरतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ॥ 18 ॥

  19. स दृष्ट्वा जिह्मगान सर्वांस तीव्रकॊपसमन्वितः अभिहन्ति यथासन्नं गृह्य परहरणं सदा ॥ 19 ॥

  20. स कदा चिद वनं विप्रॊ रुरुर अभ्यागमन महत शयानं तत्र चापश्यड डुण्डुभं वयसान्वितम ॥ 20 ॥

  21. तत उद्यम्य दण्डं स कालदण्डॊपमं तदा अभ्यघ्नद रुषितॊ विप्रस तम उवाचाथ डुण्डुभः ॥ 21 ॥

  22. नापराध्यामि ते किं चिद अहम अद्य तपॊधन संरम्भात तत किमर्थं माम अभिहंसि रुषान्वितः ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 10

Previous: अध्याय 8