धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 8

  1. [स] स चापि चयवनॊ बरह्मन भार्गवॊ ऽजनयत सुतम सुकन्यायां महात्मानं परमतिं दीप्ततेजसम ॥ 1 ॥

  2. परमतिस तु रुरुं नाम घृताच्यां समजीजनत रुरुः परमद्वरायां तु शुनकं समजीजनत ॥ 2 ॥

  3. तस्य बरह्मन रुरॊः सर्वं चरितं भूरि तेजसः विस्तरेण परवक्ष्यामि तच छृणु तवम अशेषतः ॥ 3 ॥

  4. ऋषिर आसीन महान पूर्वं तपॊ विद्या समन्वितः सथूलकेश इति खयातः सर्वभूतहिते रतः ॥ 4 ॥

  5. एतस्मिन्न एव काले तु मेनकायां परजज्ञिवान गन्धर्वराजॊ विप्रर्षे विश्वावसुर इति शरुतः ॥ 5 ॥

  6. अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन उत्ससर्ज यथाकालं सथूलकेशाश्रमं परति ॥ 6 ॥

  7. उत्सृज्य चैव तं गर्भं नद्यास तीरे जगाम ह कन्याम अमर गर्भाभां जवलन्तीम इव च शरिया ॥ 7 ॥

  8. तां ददर्श समुत्सृष्टां नदीतीरे महान ऋषिः सथूलकेशः स तेजस्वी विजने बन्धुवर्जिताम ॥ 8 ॥

  9. स तां दृष्ट्वा तदा कन्यां सथूलकेशॊ दविजॊत्तमः जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपॊष च ववृधे सा वरारॊहा तस्याश्रमपदे शुभा ॥ 9 ॥

  10. परमदाभ्यॊ वरा सा तु सर्वरूपगुणान्विता ततः परमद्वरेत्य अस्या नाम चक्रे महान ऋषिः ॥ 10 ॥

  11. ताम आश्रमपदे तस्य रुरुर दृष्ट्वा परमद्वराम बभूव किल धर्मात्मा मदनानुगतात्मवान ॥ 11 ॥

  12. पितरं सखिभिः सॊ ऽथ वाचयाम आस भार्गवः परमतिश चाभ्ययाच छरुत्वा सथूलकेशं यशस्विनम ॥ 12 ॥

  13. ततः परादात पिता कन्यां रुरवे तां परमद्वराम विवाहं सथापयित्वाग्रे नक्षत्रे भगदैवते ॥ 13 ॥

  14. ततः कति पयाहस्य विवाहे समुपस्थिते सखीभिः करीडती सार्धं सा कन्या वरवर्णिनी ॥ 14 ॥

  15. नापश्यत परसुप्तं वै भुजगं तिर्यग आयतम पदा चैनं समाक्रामन मुमूर्षुः कालचॊदिता ॥ 15 ॥

  16. स तस्याः संप्रमत्तायाश चॊदितः कालधर्मणा विषॊपलिप्तान दशनान भृशम अङ्गे नयपातयत ॥ 16 ॥

  17. सा दष्टा सहसा भूमौ पतिता गतचेतना वयसुर अप्रेक्षणीयापि परेक्षणीयतमाकृतिः ॥ 17 ॥

  18. परसुप्तेवाभवच चापि भुवि सर्पविषार्दिता भूयॊ मनॊहरतरा बभूव तनुमध्यमा ॥ 18 ॥

  19. ददर्श तां पिता चैव ते चैवान्ये तपस्विनः विचेष्टमानां पतितां भूतले पद्मवर्चसम ॥ 19 ॥

  20. ततः सर्वे दविज वराः समाजग्मुः कृपान्विताः सवस्त्य आत्रेयॊ महाजानुः कुशिकः शङ्खमेखलः ॥ 20 ॥

  21. भारद्वाजः कौणकुत्स आर्ष्टिषेणॊ ऽथ गौतमः परमतिः सह पुत्रेण तथान्ये वनवासिनः ॥ 21 ॥

  22. तां ते कन्यां वयसुं दृष्ट्वा भुजगस्य विषार्दिताम रुरुदुः कृपयाविष्टा रुरुस तव आर्तॊ बहिर ययौ ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 9

Previous: अध्याय 7