धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 88

  1. [वस] पृच्छामि तवां वसु मना रौशदश्विर; यद्य अस्ति लॊकॊ दिवि मह्यं नरेन्द्र यद्य अन्तरिक्षे परथितॊ महात्मन; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये ॥ 1 ॥

  2. [य] यद अन्तरिक्षं पृथिवी दिशश च; यत तेजसा तपते भानुमांश च लॊकास तावन्तॊ दिवि संस्थिता वै; ते नान्तवन्तः परतिपालयन्ति ॥ 2 ॥

  3. [वस] तांस ते ददामि पत मा परपातं; ये मे लॊकास तव ते वै भवन्तु करीणीष्वैनांस तृणकेनापि राजन; परतिग्रहस ते यदि सम्यक परदुष्टः ॥ 3 ॥

  4. [य] न मिथ्याहं विक्रयं वै समरामि; वृथा गृहीतं शिशुकाच छङ्कमानः कुर्यां न चैवाकृत पूर्वम अन्यैर; विवित्समानः किम उ तत्र साधु ॥ 4 ॥

  5. [वस] तांस तवं लॊकान परतिपद्यस्व राजन; मया दत्तान यदि नेष्टः करयस ते अहं न तान वै परतिगन्ता नरेन्द्र; सर्वे लॊकास तव ते वै भवन्तु ॥ 5 ॥

  6. [षिबि] पृच्छामि तवां शिबिर औशीनरॊ ऽहं; ममापि लॊका यदि सन्तीह तात यद्य अन्तरिक्षे यदि वा दिवि शरिताः; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये ॥ 6 ॥

  7. [य] न तवं वाचा हृदयेनापि विद्वन; परीप्समानान नावमंस्था नरेन्द्र तेनानन्ता दिवि लॊकाः शरितास ते; विद्युद्रूपाः सवनवन्तॊ महान्तः ॥ 7 ॥

  8. [ष] तांस तवं लॊकान परतिपद्यस्व राजन; मया दत्तान यदि नेष्टः करयस ते न चाहं तान परतिपत्स्येह दत्त्वा; यत्र गत्वा तवम उपास्से ह लॊकान ॥ 8 ॥

  9. [य] यथा तवम इन्द्र परतिमप्रभावस; ते चाप्य अनन्ता नरदेव लॊकाः तथाद्य लॊके न रमे ऽनयदत्ते; तस्माच छिबे नाभिनन्दामि दायम ॥ 9 ॥

  10. [आ] न चेद एकैकशॊ राजँल लॊकान नः परतिनन्दसि सर्वे परदाय भवते गन्तारॊ नरकं वयम ॥ 10 ॥

  11. [य] यद अर्हाय ददध्वं तत सन्तः सत्यानृशंस्यतः अहं तु नाभिधृष्णॊमि यत्कृतं न मया पुरा ॥ 11 ॥

  12. [आ] कस्यैते परतिदृश्यन्ते रथाः पञ्च हिरण्मयाः उच्चैः सन्तः परकाशन्ते जवलन्तॊ ऽगनिशिखा इव ॥ 12 ॥

  13. [य] युष्मान एते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः उच्चैः सन्तः परकाशन्ते जवलन्तॊ ऽगनिशिखा इव ॥ 13 ॥

  14. [आ] आतिष्ठस्व रथं राजन विक्रमस्व विहायसा वयम अप्य अनुयास्यामॊ यदा कालॊ भविष्यति ॥ 14 ॥

  15. [य] सर्वैर इदानीं गन्तव्यं सहस्वर्गजितॊ वयम एष नॊ विरजाः पन्था दृश्यते देव सद्मनः ॥ 15 ॥

  16. [व] ते ऽधिरुह्य रथान सर्वे परयाता नृपसत्तमाः आक्रमन्तॊ दिवं भाभिर धर्मेणावृत्य रॊदसी ॥ 16 ॥

  17. [आ] अहं मन्ये पूर्वम एकॊ ऽसमि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा कस्माद एवं शिबिर औशीनरॊ ऽयम; एकॊ ऽतयगात सर्ववेगेन वाहान ॥ 17 ॥

  18. [य] अददाद देव यानाय यावद वित्तम अविन्दत उशीनरस्य पुत्रॊ ऽयं तस्माच छरेष्ठॊ हि नः शिबिः ॥ 18 ॥

  19. दानं तपः सत्यम अथापि धर्मॊ हरीः; शरीः कषमा सौम्य तथा तितिक्षा राजन्न एतान्य अप्रतिमस्य राज्ञः; शिबेः सथितान्य अनृशंसस्य बुद्ध्या एवंवृत्तॊ हरीनिषेधश च यस्मात; तस्माच छिबिर अत्यगाद वै रथेन ॥ 19 ॥

  20. [व] अथाष्टकः पुनर एवान्वपृच्छन; मातामहं कौतुकाद इन्द्रकल्पम पृच्छामि तवां नृपते बरूहि सत्यं; कुतश च कस्यासि सुतश च कस्य कृतं तवया यद धि न तस्य कर्ता; लॊके तवदन्यः कषत्रियॊ बराह्मणॊ वा ॥ 20 ॥

  21. [य] ययातिर अस्मि नहुषस्य पुत्रः; पूरॊः पिता सार्वभौमस तव इहासम गुह्यम अर्थं मामकेभ्यॊ बरवीमि; मातामहॊ ऽहं भवतां परकाशः ॥ 21 ॥

  22. सर्वाम इमां पृथिवीं निर्जिगाय; परस्थे बद्ध्वा हय अददं बराह्मणेभ्यः मेध्यान अश्वान एकशफान सुरूपांस; तदा देवाः पुण्यभाजॊ भवन्ति ॥ 22 ॥

  23. अदाम अहं पृथिवीं बराह्मणेभ्यः; पूर्णाम इमाम अखिलां वाहनस्य गॊभिः सुवर्णेन धनैश च मुख्यैस; तत्रासन गाः शतम अर्बुदानि ॥ 23 ॥

  24. सत्येन मे दयौश च वसुंधरा च; तथैवाग्निर जवलते मानुषेषु न मे पृथा वयाहृतम एव वाक्यं; सत्यं हि सन्तः परतिपूजयन्ति सर्वे च देवा मुनयश च लॊकाः; सत्येन पूज्या इति मे मनॊगतम ॥ 24 ॥

  25. यॊ नः सवर्गजितः सर्वान यथावृत्तं निवेदयेत अनसूयुर दविजाग्रेभ्यः स लभेन नः सलॊकताम ॥ 25 ॥

  26. [व] एवं राजा स महात्मा हय अतीव; सवैर दौहित्रैस तारितॊ ऽमित्रसाहः तयक्त्वा महीं परमॊदारकर्मा; सवर्गं गतः कर्मभिर वयाप्य पृथ्वीम ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 89

Previous: अध्याय 87