धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 85

  1. [आ] यदावसॊ नन्दने कामरूपी; संवत्सराणाम अयुतं शतानाम किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधाम अन्वपद्यः ॥ 1 ॥

  2. [य] जञातिः सुहृत सवजनॊ यॊ यथेह; कषीणे वित्ते तयज्यते मानवैर हि तथा तत्र कषीणपुण्यं मनुष्यं; तयजन्ति सद्यः सेश्वरा देवसंघाः ॥ 2 ॥

  3. [आ] कथं तस्मिन कषीणपुण्या भवन्ति; संमुह्यते मे ऽतर मनॊ ऽतिमात्रम किं विशिष्टाः कस्य धामॊपयान्ति; तद वै बरूहि कषेत्रवित तवं मतॊ मे ॥ 3 ॥

  4. [य] इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे ते कङ्कगॊमायु बलाशनार्थं; कषीणा विवृद्धिं बहुधा वरजन्ति ॥ 4 ॥

  5. तस्माद एतद वर्जनीयं नरेण; दुष्टं लॊके गर्हणीयं च कर्म आख्यातं ते पार्थिव सर्वम एतद; भूयश चेदानीं वद किं ते वदामि ॥ 5 ॥

  6. [आ] यदा तु तान वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतंगाः कथं भवन्ति कथम आभवन्ति; न भौमम अन्यं नरकं शृणॊमि ॥ 6 ॥

  7. [य] ऊर्ध्वं देहात कर्मणॊ जृम्भमाणाद; वयक्तं पृथिव्याम अनुसंचरन्ति इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगान अनेकान ॥ 7 ॥

  8. षष्टिं सहस्राणि पतन्ति वयॊम्नि; तथा अशीतिं परिवत्सराणि तान वै तुदन्ति परपततः परपातं; भीमा भौमा राक्षसास तीक्ष्णदंष्ट्राः ॥ 8 ॥

  9. [आ] यद एनसस ते पततस तुदन्ति; भीमा भौमा राक्षसास तीक्ष्णदंष्ट्राः कथं भवन्ति कथम आभवन्ति; कथं भूता गर्भभूता भवन्ति ॥ 9 ॥

  10. [य] अस्रं रेतः पुष्पफलानुपृक्तम; अन्वेति तद वै पुरुषेण सृष्टम स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र ॥ 10 ॥

  11. वनस्पतींश चौषधीश चाविशन्ति; अपॊ वायुं पृथिवीं चान्तरिक्षम चतुष्पदं दविपदं चापि सर्वम; एवं भूता गर्भभूता भवन्ति ॥ 11 ॥

  12. [आ] अन्यद वपुर विदधातीह गर्भ; उताहॊ सवित सवेन कामेन याति आपद्यमानॊ नरयॊनिम एताम; आचक्ष्व मे संशयात परब्रवीमि ॥ 12 ॥

  13. शरीरदेहादि समुच्छ्रयं च; चक्षुः शरॊत्रे लभते केन संज्ञाम एतत तत्त्वं सर्वम आचक्ष्व पृष्टः; कषेत्रज्ञं तवां तात मन्याम सर्वे ॥ 13 ॥

  14. [य] वायुः समुत्कर्षति गर्भयॊनिम; ऋतौ रेतः पुष्परसानुपृक्तम स तत्र तन्मात्र कृताधिकारः; करमेण संवर्धयतीह गर्भम ॥ 14 ॥

  15. स जायमानॊ विगृहीत गात्रः; षड जञाननिष्ठायतनॊ मनुष्यः स शरॊत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च ॥ 15 ॥

  16. घराणेन गन्धं जिह्वयाथॊ रसं च; तवचा सपर्शं मनसा वेद भावम इत्य अष्टकेहॊपचितिं च विद्धि; महात्मनः पराणभृतः शरीरे ॥ 16 ॥

  17. [आ] यः संस्थितः पुरुषॊ दह्यते वा; निखन्यते वापि निघृष्यते वा अभाव भूतः स विनाशम एत्य; केनात्मानं चेतयते पुरस्तात ॥ 17 ॥

  18. [य] हित्वा सॊ ऽसून सुप्तवन निष्ठनित्वा; पुरॊधाय सुकृतं दुष्कृतं च अन्यां यॊनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह ॥ 18 ॥

  19. पुण्यां यॊनिं पुण्यकृतॊ वरजन्ति; पापां यॊनिं पापकृतॊ वरजन्ति कीटाः पतंगाश च भवन्ति पापा; न मे विवक्षास्ति महानुभाव ॥ 19 ॥

  20. चतुष्पदा दविपदाः षट्पदाश च; तथा भूता गर्भभूता भवन्ति आख्यातम एतन निखिलेन सर्वं; भूयस तु किं पृच्छसि राजसिंह ॥ 20 ॥

  21. [आ] किंस्वित कृत्वा लभते तात लॊकान; मर्त्यः शरेष्ठांस तपसा विद्यया वा तन मे पृष्टः शंस सर्वं यथावच; छुभाँल लॊकान येन गच्छेत करमेण ॥ 21 ॥

  22. [य] तपश च दानं च शमॊ दमश च; हरीर आर्जवं सर्वभूतानुकम्पा नश्यन्ति मानेन तमॊ ऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः ॥ 22 ॥

  23. अधीयानः पण्डितं मन्यमानॊ; यॊ विद्यया हन्ति यशः परेषाम तस्यान्तवन्तश च भवन्ति लॊका; न चास्य तद बरह्म फलं ददाति ॥ 23 ॥

  24. चत्वारि कर्माण्य अभयंकराणि; भयं परयच्छन्त्य अयथा कृतानि मानाग्निहॊत्रम उत मानमौनं; मानेनाधीतम उत मानयज्ञः ॥ 24 ॥

  25. न मान्यमानॊ मुदम आददीत; न संतापं पराप्नुयाच चावमानात सन्तः सतः पूजयन्तीह लॊके; नासाधवः साधुबुद्धिं लभन्ते ॥ 25 ॥

  26. इति दद्याद इति यजेद इत्य अधीयीत मे वरतम इत्य अस्मिन्न अभयान्य आहुस तानि वर्ज्यानि नित्यशः ॥ 26 ॥

  27. येनाश्रयं वेदयन्ते पुराणं; मनीषिणॊ मानसमानभक्तम तन निःश्रेयस तैजसं रूपम एत्य; परां शान्तिं पराप्नुयुः परेत्य चेह ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 86

Previous: अध्याय 84