धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 86

  1. [आ] चरन गृहस्थः कथम एति देवान; कथं भिक्षुः कथम आचार्य कर्मा वानप्रस्थः सत्पथे संनिविष्टॊ; बहून्य अस्मिन संप्रति वेदयन्ति ॥ 1 ॥

  2. [य] आहूताध्यायी गुरु कर्म सवचॊद्यः; पूर्वॊत्थायी चरमं चॊपशायी मृदुर दान्तॊ धृतिमान अप्रमत्तः; सवाध्यायशीलः सिध्यति बरह्म चारी ॥ 2 ॥

  3. धर्मागतं पराप्य धनं यजेत; दद्यात सदैवातिथीन भॊजयेच च अनाददानश च परैर अदत्तं; सैषा गृहस्थॊपनिषत पुराणी ॥ 3 ॥

  4. सववीर्यजीवी वृजिनान निवृत्तॊ; दाता परेभ्यॊ न परॊपतापी तादृङ मुनिः सिद्धिम उपैति मुख्यां; वसन्न अरण्ये नियताहार चेष्टः ॥ 4 ॥

  5. अशिल्प जीवी नगृहश च नित्यं; जितेन्द्रियः सर्वतॊ विप्रमुक्तः अनॊक सारी लघुर अल्पचारश; चरन देशान एकचरः स भिक्षुः ॥ 5 ॥

  6. रात्र्या यया चाभिजिताश च लॊका; भवन्ति कामा विजिताः सुखाश च ताम एव रात्रिं परयतेन विद्वान; अरण्यसंस्थॊ भवितुं यतात्मा ॥ 6 ॥

  7. दशैव पूर्वान दश चापरांस तु; जञातीन सहात्मानम अथैक विंशम अरण्यवासी सुकृते दधाति; विमुच्यारण्ये सवशरीरधातून ॥ 7 ॥

  8. [आ] कतिस्विद एव मुनयॊ मौनानि कति चाप्य उत भवन्तीति तद आचक्ष्व शरॊतुम इच्छामहे वयम ॥ 8 ॥

  9. [य] अरण्ये वसतॊ यस्य गरामॊ भवति पृष्ठतः गरामे वा वसतॊ ऽरण्यं स मुनिः सयाज जनाधिप ॥ 9 ॥

  10. [आ] कथंस्विद वसतॊ ऽरण्ये गरामॊ भवति पृष्ठतः गरामे वा वसतॊ ऽरण्यं कथं भवति पृष्ठतः ॥ 10 ॥

  11. [य] न गराम्यम उपयुञ्जीत य आरण्यॊ मुनिर भवेत तथास्य वसतॊ ऽरण्ये गरामॊ भवति पृष्ठतः ॥ 11 ॥

  12. अनग्निर अनिकेतश च अगॊत्र चरणॊ मुनिः कौपीनाच्छादनं यावत तावद इच्छेच च चीवरम ॥ 12 ॥

  13. यावत पराणाभिसंधानं तावद इच्छेच च भॊजनम तथास्य वसतॊ गरामे ऽरण्यं भवति पृष्ठतः ॥ 13 ॥

  14. यस तु कामान परित्यज्य तयक्तकर्मा जितेन्द्रियः आतिष्ठेत मुनिर मौनं स लॊके सिद्धिम आप्नुयात ॥ 14 ॥

  15. धौतदन्तं कृत्तनखं सदा सनातम अलंकृतम असितं सितकर्मस्थं कस तं नार्चितुम अर्हति ॥ 15 ॥

  16. तपसा कर्शितः कषामः कषीणमांसास्थि शॊणितः यदा भवति निर्द्वन्द्वॊ मुनिर मौनं समास्थितः अथ लॊकम इमं जित्वा लॊकं विजयते परम ॥ 16 ॥

  17. आस्येन तु यदाहारं गॊवन मृगयते मुनिः अथास्य लॊकः पूर्वॊ यः सॊ ऽमृतत्वाय कल्पते ॥ 17 ॥

Reach this point to mark the section finished.

Continue to अध्याय 87

Previous: अध्याय 85