धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 83

  1. [ईन्द्र] सर्वाणि कर्माणि समाप्य राजन; गृहान परित्यज्य वनं गतॊ ऽसि तत तवां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस तपसा ययाते ॥ 1 ॥

  2. [य] नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु आत्मनस तपसा तुल्यं कं चित पश्यामि वासव ॥ 2 ॥

  3. [ई] यदावमंस्थाः सदृशः शरेयसश च; पापीयसश चाविदित परभावः तस्माल लॊका अन्तवन्तस तवेमे; कषीणे पुण्ये पतितास्य अद्य राजन ॥ 3 ॥

  4. [य] सुरर्षिगन्धर्वनरावमानात; कषयं गता मे यदि शक्र लॊकाः इच्छेयं वै सुरलॊकाद विहीनः; सतां मध्ये पतितुं देवराज ॥ 4 ॥

  5. [ई] सतां सकाशे पतितासि राजंश; चयुतः परतिष्ठां यत्र लब्धासि भूयः एवं विदित्वा तु पुनर ययाते; न ते ऽवमान्याः सदृशः शरेयसश च ॥ 5 ॥

  6. [व] ततः परहायामर राजजुष्टान; पुण्याँल लॊकान पतमानं ययातिम संप्रेक्ष्य राजर्षिवरॊ ऽषटकस तम; उवाच सद धर्मविधानगॊप्ता ॥ 6 ॥

  7. कस तवं युवा वासवतुल्यरूपः; सवतेजसा दीप्यमानॊ यथाग्निः पतस्य उदीर्णाम्बुधरान्ध कारात खात; खेचराणां परवरॊ यथार्कः ॥ 7 ॥

  8. दृष्ट्वा च तवां सूर्यपथात पतन्तं; वैश्वानरार्क दयुतिम अप्रमेयम किं नु सविद एतत पततीति सर्वे; वितर्कयन्तः परिमॊहिताः समः ॥ 8 ॥

  9. दृष्ट्वा च तवां विष्ठितं देवमार्गे; शक्रार्क विष्णुप्रतिम परभावम अभ्युद्गतास तवां वयम अद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः ॥ 9 ॥

  10. न चापि तवां धृष्णुमः परष्टुम अग्रे; न च तवम अस्मान पृच्छसि ये वयं समः तत तवां पृच्छामः सपृहणीय रूपं; कस्य तवं वा किंनिमित्तं तवम आगाः ॥ 10 ॥

  11. भयं तु ते वयेतु विषादमॊहौ; तयजाशु देवेन्द्र समानरूप तवां वर्तमानं हि सतां सकाशे; नालं परसॊढुं बलहापि शक्रः ॥ 11 ॥

  12. सन्तः परतिष्ठा हि सुखच्युतानां; सतां सदैवामर राजकल्प ते संगताः सथवर जङ्गमेशाः; परतिष्ठितस तवं सदृशेषु सत्सु ॥ 12 ॥

  13. परभुर अग्निः परतपने भूमिर आवपने परभुः परभुः सूर्यः परकाशित्वे सतां चाभ्यागतः परभुः ॥ 13 ॥

Reach this point to mark the section finished.

Continue to अध्याय 84

Previous: अध्याय 82