धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 82

  1. [व] सवर्गतः स तु राजेन्द्रॊ निवसन देव सद्मनि पूजितस तरिदशैः साध्यैर मरुद्भिर वसुभिस तथा ॥ 1 ॥

  2. देवलॊकाद बरह्मलॊकं संचरन पुण्यकृद वशी अवसत पृथिवीपालॊ दीर्घकालम इति शरुतिः ॥ 2 ॥

  3. स कदा चिन नृपश्रेष्ठॊ ययातिः शक्रम आगमत कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ॥ 3 ॥

  4. [षक्र] यदा स पूरुस तव रूपेण राजञ; जरां गृहीत्वा परचचार भूमौ तदा राज्यं संप्रदायैव तस्मै; तवया किम उक्तः कथयेह सत्यम ॥ 4 ॥

  5. [य] गङ्गायमुनयॊर मध्ये कृत्स्नॊ ऽयं विषयस तव मध्ये पृथिव्यास तवं राजा भरातरॊ ऽनत्याधिपास तव ॥ 5 ॥

  6. अक्रॊधनः करॊधनेभ्यॊ विशिष्टस; तथा तितिक्षुर अतितिक्षॊर विशिष्टः अमानुषेभ्यॊ मानुषाश च परधाना; विद्वांस तथैवाविदुषः परधानः ॥ 6 ॥

  7. आक्रुश्यमानॊ नाक्रॊशेन मन्युर एव तितिक्षतः आक्रॊष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ 7 ॥

  8. नारुं तुदः सयान न नृशंसवादी; न हीनतः परम अभ्याददीत ययास्य वाचा पर उद्विजेत; न तां वदेद रुशतीं पापलॊक्यम ॥ 8 ॥

  9. अरुं तुदं पुरुषं रूक्षवाचं; वाक कण्टकैर वितुदन्तं मनुष्यान विद्याद अलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम ॥ 9 ॥

  10. सद्भिः पुरस्ताद अभिपूजितः सयात; सद्भिस तथा पृष्ठतॊ रक्षितः सयात सदासताम अतिवादांस तितिक्षेत; सतां वृत्तं चाददीतार्य वृत्तः ॥ 10 ॥

  11. वाक सायका वदनान निष्पतन्ति; यैर आहतः शॊचति रार्त्य अहानि परस्य वा मर्मसु ये पतन्ति; तान पण्डितॊ नावसृजेत परेषु ॥ 11 ॥

  12. न हीदृशं संवननं तरिषु लॊकेषु विद्यते यथा मैत्री च भूतेषु दानं च मधुरा च वाक ॥ 12 ॥

  13. तस्मात सान्त्वं सदा वाच्यं न वाच्यं परुषं कव चित पूज्यान संपूजयेद दद्यान न च याचेत कदा चन ॥ 13 ॥

Reach this point to mark the section finished.

Continue to अध्याय 83

Previous: अध्याय 81